श्री अंगारक अष्टोत्तर शतनाम स्तोत्रम् || Angarak Ashtottar Shatanaam Stotram

0

इससे पूर्व आपने मंगल देव के अङ्गारकस्तोत्रम् पढ़ा। अब मंगल के १०८ नाम व नामावली को श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् व श्रीअङ्गारकाष्टोत्तरशतनामावली का पठन करेंगे।

|| श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् ||

मङ्गल बीज मन्त्र – ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥

महीसुतो महाभागो मंगळो मंगळप्रदः ।

महावीरो महाशूरो महाबलपराक्रमः ॥ १॥

महारौद्रो महाभद्रो माननीयो दयाकरः ।

मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।

वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।

नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।

अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५॥

वीतरागो वीतभयो विज्वरो विश्वकारणः ।

नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६॥

कमनीयो दयासारः कनत्कनकभूषणः ।

भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७॥

शत्रुहन्ता शमोपेतः शरणागतपोषकः ।

साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।

दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९॥

दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः ।

भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १०॥

रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः ।

चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११॥

शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः ।

तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२॥

तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः ।

गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३॥

असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः ।

सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४॥

त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः ।

शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः ।

सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६॥

॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

|| अंगारकाष्टोत्तरशतनामावली ||

मङ्गल बीज मन्त्र –

ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ।

ॐ महीसुताय नमः । ॐ महाभागाय नमः । ॐ मङ्गलाय नमः । ॐ मङ्गलप्रदाय नमः ।

ॐ महावीराय नमः । ॐ महाशूराय नमः । ॐ महाबलपराक्रमाय नमः । ॐ महारौद्राय नमः ।

ॐ महाभद्राय नमः । ॐ माननीयाय नमः । ॐ दयाकराय नमः । ॐ मानदाय नमः ।

ॐ अपर्वणाय नमः । ॐ क्रूराय नमः । ॐ तापत्रयविवर्जिताय नमः । ॐ सुप्रतीपाय नमः ।

ॐ सुताम्राक्षाय नमः । ॐ सुब्रह्मण्याय नमः । ॐ सुखप्रदाय नमः । ॐ वक्रस्तम्भादिगमनाय नमः ।

ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ सुखिने नमः । ॐ वीरभद्राय नमः ।

ॐ विरूपाक्षाय नमः । ॐ विदूरस्थाय नमः । ॐ विभावसवे नमः । ॐ नक्षत्रचक्रसञ्चारिणे नमः ।

ॐ क्षत्रपाय नमः । ॐ क्षात्रवर्जिताय नमः । ॐ क्षयवृद्धिविनिर्मुक्ताय नमः । ॐ क्षमायुक्ताय नमः ।

ॐ विचक्षणाय नमः । ॐ अक्षीणफलदाय नमः । ॐ चतुर्वर्गफलप्रदाय नमः । ॐ वीतरागाय नमः ।

ॐ वीतभयाय नमः । ॐ विज्वराय नमः । ॐ विश्वकारणाय नमः । ॐ नक्षत्रराशिसंचाराय नमः ।

ॐ नानाभयनिकृन्तनाय नमः । ॐ वन्दारुजनमन्दाराय नमः । ॐ वक्रकुञ्चितमूर्धजाय नमः ।

ॐ कमनीयाय नमः । ॐ दयासाराय नमः । ॐ कनत्कनकभूषणाय नमः । ॐ भयघ्नाय नमः ।

ॐ भव्यफलदाय नमः । ॐ भक्ताभयवरप्रदाय नमः । ॐ शत्रुहन्त्रे नमः ।

ॐ शमोपेताय नमः । ॐ शरणागतपोषनाय नमः । ॐ साहसिने नमः ।

ॐ सद्गुणाध्यक्षाय नमः । ॐ साधवे नमः । ॐ समरदुर्जयाय नमः ।

ॐ दुष्टदूराय नमः । ॐ शिष्टपूज्याय नमः । ॐ सर्वकष्टनिवारकाय नमः ।

ॐ दुश्चेष्टवारकाय नमः । ॐ दुःखभञ्जनाय नमः । ॐ दुर्धराय नमः ।

ॐ हरये नमः । ॐ दुःस्वप्नहन्त्रे नमः । ॐ दुर्धर्षाय नमः ।

ॐ दुष्टगर्वविमोचनाय नमः । ॐ भरद्वाजकुलोद्भूताय नमः ।

ॐ भूसुताय नमः । ॐ भव्यभूषणाय नमः । ॐ रक्ताम्बराय नमः ।

ॐ रक्तवपुषे नमः । ॐ भक्तपालनतत्पराय नमः ।

ॐ चतुर्भुजाय नमः । ॐ गदाधारिणे नमः । ॐ मेषवाहाय नमः ।

ॐ मिताशनाय नमः । ॐ शक्तिशूलधराय नमः । ॐ शाक्ताय नमः ।

ॐ शस्त्रविद्याविशारदाय नमः । ॐ तार्किकाय नमः । ॐ तामसाधाराय नमः ।

ॐ तपस्विने नमः । ॐ ताम्रलोचनाय नमः । ॐ तप्तकाञ्चनसंकाशाय नमः ।

ॐ रक्तकिञ्जल्कसंनिभाय नमः । ॐ गोत्राधिदेवाय नमः । ॐ गोमध्यचराय नमः ।

ॐ गुणविभूषणाय नमः । ॐ असृजे नमः । ॐ अङ्गारकाय नमः ।

ॐ अवन्तीदेशाधीशाय नमः । ॐ जनार्दनाय नमः ।

ॐ सूर्ययाम्यप्रदेशस्थाय नमः । ॐ घुने नमः । ॐ यौवनाय नमः ।

ॐ याम्यहरिन्मुखाय नमः । ॐ याम्यदिङ्मुखाय नमः ।

ॐ त्रिकोणमण्डलगताय नमः । ॐ त्रिदशाधिपसन्नुताय नमः ।

ॐ शुचये नमः । ॐ शुचिकराय नमः । ॐ शूराय नमः ।

ॐ शुचिवश्याय नमः । ॐ शुभावहाय नमः । ॐ मेषवृश्चिकराशीशाय नमः ।

ॐ मेधाविने नमः । ॐ मितभाषणाय नमः । ॐ सुखप्रदाय नमः ।

ॐ सुरूपाक्षाय नमः । ॐ सर्वाभीष्टफलप्रदाय नमः ।

॥ इति मङ्गलाष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *