शिवशक्ति कृत श्री गणाधीश स्तोत्र || Shiva Shakti Kritam Shri Ganadhish Stotram

0

शिवशक्ति कृत श्री गणाधीश स्तोत्र || Shiva Shakti Kritam Shri Ganadhish Stotram
॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥

श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः ।

नमस्ते गणनाथाय गणानां पतये नमः ।

भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।

नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥

वरदाभयहस्ताय नमः परशुधारिणे ।

नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥

अनामयाय सर्वाय सर्वपूज्याय ते नमः ।

सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।

आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।

अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥

विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।

त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥

किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।

तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥

तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।

श्रीगणेश उवाच ।

भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥

भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।

भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥

धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।

इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *