श्री राधा अष्टोत्तर शतनाम स्तोत्रम् -Shri Radha Ashtottara Shatanama Stotram

0

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।

चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।

गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३॥

चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।

कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।

प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५॥

केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी ।

सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६॥

वृषभानुसुता राधा किशोरी ललिता लता ।

विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७॥

केशिनी केशवसखी नवनीतैकविक्रया ।

षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८॥

हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।

यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९॥

वृषभानुपुरावासा मानलीलाविशारदा ।

दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।

सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।

गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२॥

स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका ।

रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।

बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।

मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।

इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।

एकैकनामोच्चारेण वशी भवति केशवः ॥ १७॥

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।

पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८॥

॥ इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *