श्री वराह अष्टोत्तर शतनाम स्तोत्रम् – Sri Varaha Ashtottara Shatanama Stotram

0

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १॥

वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः ।

वनधिस्तोमरोमान्धु र्वज्ररोमा वदावदः ॥ २॥

वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः ।

वनजोदरदुर्वारविषादध्वंसनोदयः ॥ ३॥

वल्गत्सटाजातवातधूतजीमूतसंहतिः ।

वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥ ४॥

वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः ।

वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥ ५॥

वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः ।

वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥ ६॥

वज्रसारखुराघातदलिताब्धिरसाहिवः ।

वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥ ७॥

वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः ।

वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥ ८॥

वनजासननासान्तर्हंसवाहावरोहितः ।

वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥ ९॥

वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः ।

वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥ १०॥

वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः ।

वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥ ११॥

वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः ।

वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥ १२॥

वसुधासागराहार्यलोकलोकपधृद्रदः ।

वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥ १३॥

वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः ।

वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥ १४॥

वतंसीकृतमन्दारो वलक्षीकृतभूतलः ।

वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥ १५॥

वश्यमायो वरगुणक्रियाकारो वराभिधः ।

वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥ १६॥

वरुणालयविच्छेत्ता वरुणादिदुरासदः ।

वनजासनसन्तानावनजात महाकृपः ॥ १७॥

वत्सलो वह्निवदनो वराहवमयो वसुः ।

वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥ १८॥

वेदत्वचे वेदविदे वेदिने वेदवादिने ।

वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥ १९॥

वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः ।

वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥ २०॥

वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् ।

वितानेशो वितानाङ्गो वितानफलदो विभुः ॥ २१॥

वितानभावनो विश्वभावनो विश्वरूपधृत् ।

विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥ २२॥

वेदारण्यचरो वामदेवादिमृगसंवृतः ।

विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥ २३॥

वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः ।

वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥ २४॥

विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विशृङ्खलः ।

विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥ २५॥

वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः ।

व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥ २६॥

विश्वमङ्गलकान्तार कृतलीलाविहार ते ।

विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः

Leave a Reply

Your email address will not be published. Required fields are marked *