श्री सीताराम स्तोत्रम् || Sitaram Stotram

3

श्री सीताराम स्तोत्रम् || Sitaram Stotram
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।

रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥

रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।

सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।

वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥

कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।

पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥

चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।

मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ ५ ॥

चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।

चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ ६ ॥

शरणागतगोप्तारं प्रणिपातप्रसादिकाम् ।

कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ ७ ॥

दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।

अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ ८ ॥

अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती ।

इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९ ॥

अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।

तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥ १० ॥