आदित्यहृदयम् स्तोत्रम् यह सूर्य स्तुति का मन्त्र है। इसके पाठ से आत्म विश्वास बढ़ता है और हर कार्य में सफलता मिलाता है । यहाँ भविष्योत्तरपुराणान्तर्गतम् आदित्यहृदयम् स्तोत्रम् दिया जा रहा है । जिसे की श्रीभविष्योत्तरपुराण में श्रीकृष्ण अर्जुन संवाद के रूप से दिया गया है ।

अथ भविष्योत्तरपुराणान्तर्गतम् आदित्यहृदयम् स्तोत्रम् ।

शतानीक उवाच

कथमादित्यमुद्यन्तमुपतिष्ठेद्विजोत्तमः ।

एतन्मेब्रूहि विप्रेन्द्र प्रपद्ये शरणं तव ॥ १॥

सुमन्तुरुवाच

इदमेव पुरा पृष्टः शङ्खचक्रगदाधरः ।

प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २॥

कुरुक्षेत्रे महाराजप्रवृत्ते भारते रणे ।

कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥ ३॥

अर्जुन उवाच

ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा ।

मम कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ ४॥

सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।

भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५॥

सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् ।

तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६॥

श्रीभगवानुवाच

रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया ।

वक्ष्येऽहं सूर्यविन्यासं श्रृणु पाण्डव यत्नतः ॥ ७॥

अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन ।

तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥ ८॥

अर्जुन उवाच

नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः ।

कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥ ९॥

श्रीभगवानुवाच

साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव ।

यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १०॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११॥

अमित्रदमनं पार्थ सङ्ग्रामे जयवर्धनम् ।

वर्धनं धनपुत्राणामादित्यहृदयं श्रृणु ॥ १२॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।

त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥ १३॥

देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन ।

विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥ १४॥

तस्मात्सर्वप्रयत्नेन सूर्यमावाहयेत् सदा ।

आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव ॥ १५॥

यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् ।

लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥ १६॥

अस्मिन्मन्त्रे ऋषिश्छन्दो देवताशक्तिरेव च ।

सर्वमेव महाबाहो कथयामि तवाग्रतः ॥ १७॥

मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् ।

अथ ते कथयिष्यामि उत्तमं मन्त्रमेव च ॥ १८॥

ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता अनुष्टुप्छन्दः

हरितहयरथं दिवाकरं घृणिरिति बीजम् ॐ नमो भगवते जितवैश्वानरजातवेदसे इति शक्तिः ॐ नमो भगवते आदित्याय नमः इति कीलकम् ॐ अग्निगर्भदेवता इति मन्त्रः ॐ नमो भगवते तुभ्यमादित्याय नमो नमः श्रीसूर्यनारायणप्रीप्यथं जपे विनियोगः ।

अथ न्यासः

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं तर्जनीभ्यां नमः ।

ॐ ह्रूं मध्यमाभ्यां नमः ।

ॐ ह्रैं अनामिकाभ्यां नमः ।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

ॐ ह्रां हृदयाय नमः ।

ॐ ह्रीं शिरसे स्वाहा ।

ॐ ह्रूं शिखाय वषट् ।

ॐ ह्रैं कवचाय हुम्

ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः अस्त्राय फट् ।

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः ॥

 

अथ ध्यानम्

भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो

भास्वान्यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।

विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ

सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ १॥

पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् ।

मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥ २॥

आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ।

मार्तण्डं तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।

अमोघा विद्युता चेति मध्ये श्रीः सर्वतो मुखी ॥ ४॥

सर्वज्ञः सर्वगश्चैव सर्वकारणदेवता ।

सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५॥

सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः ।

हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥ ६॥

इति प्रार्थना

नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ।

अनन्तशक्तिर्मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७॥

अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।

विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्च दिवाकरम् ॥ ८॥

नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।

पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरे न्यसेत् ॥ ९॥

सुवर्णरेतसं कण्ठे स्कन्धयोनितग्मतेजसम् ।

बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १०॥

वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।

हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११॥

उदरे तु यमं विद्यादादित्यं नाभिमण्डले ।

कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२॥

जान्वोस्तु गोपतिं न्यस्य सवितारं जङ्घयोः ।

पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥ १३॥

बाह्यतस्तु तमोध्वंस भगमभ्यन्तरे न्यसेत् ।

सर्वाङ्गेषु सहस्रांशुं दिग्विदिक्षु भग न्यसेत् ॥ १४॥

इति दिग्बन्धः

एष आदित्यविन्यासो देवानामपिदुर्लभः ।

इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५॥

कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः ।

सर्पादपि भयं नैव सङ्ग्रामेषु पथिष्वपि ॥ १६॥

रिपुसङ्घट्टकालेषु तथा चोरसमागमे ।

त्रिसन्ध्यं जपतो न्यास महापातकनाशनम् ॥ १७॥

विस्फोटकसमुत्पन्न तीव्रज्वरसभुद्भवम् ।

शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८॥

कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये ।

जपमानस्य नश्यन्ति श्रृणु भक्त्या तदर्जुन ॥ १९॥

आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्वरः ।

आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः ॥ २०॥

आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् ।

यदादित्यमयं तेजो मम तेजत्तदर्जुन ॥ २१॥

आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् ।

आदित्यं ये प्रपश्यन्ति मां पश्यन्ति न संशयः ॥ २२॥

त्रिसन्ध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः ।

न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३॥

एतत्ते कथितं पार्थ आदित्यहृदयं मया ।

श्रृणवन्मुक्तश्च पापेभ्यः सूर्यलोके महीयते ॥ २४॥

नमो भगवते तुभ्यमादित्याय नमो नमः ।

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥ २५॥

सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः ।

रविर्विश्वो महातेजाः सुवर्णः सुप्रबोधकः ॥ २६॥

हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः ।

मार्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान् ॥ २७॥

तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः ।

शुद्धो विरोचनः केशी सहस्रांशुर्महाप्रभुः ॥ २८॥

विवस्वान्पूषणो मृत्युर्मिहिरो जामदग्न्यजित् ।

धर्मरश्मिःपतङ्गश्च शरण्यो मित्रहा तपः ॥ २९॥

दुर्विज्ञेयगतिः शूरस्तेजोरश्मिर्महायशाः ।

शम्भुश्चित्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३०॥

अंशुमानुत्तमो देव ऋग्यजुःसाम एव च ।

हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥ ३१॥

अग्निगर्भोऽद्रितेः पुत्रः शम्भुस्तिमिरनाशनः ।

पूषा विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान् ॥ ३२॥

आतपी मण्डली भास्वांस्तपनः सर्वतापनः ।

कृतविश्वो महातेजः सर्वरत्नमयोद्भवः ॥ ३३॥

अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ ।

चन्द्रश्चन्द्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥ ३४॥

अङ्गारको गदोऽगस्ती रक्ताङ्गश्चाङ्गवर्धनः ।

बुधो बुद्धासनो बुद्धिर्बुद्धात्मबुद्धिवर्धनः ॥ ३५॥

बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः ।

शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः ॥ ३६॥

शनिमान् शनिरूपस्त्वं शनैर्गच्छसि सर्वदा ।

अनादिरादिरादित्यस्तेजोराशिर्महातपाः ॥ ३७॥

अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्यमः ।

भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीतिमान् ॥ ३८॥

धूम्रकेतुर्महाकेतुः सर्वकेतुरनुत्तमः ।

तिमिरावरणः शम्भुः स्त्रष्टा मार्तण्डएव च ॥ ३९॥

नमः पूर्वाय गिरये पश्चिमाय नमो नमः ।

नमोत्तराय गिरये दक्षिणाय नमो नमः ॥ ४०॥

नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।

नमःपद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१॥

नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।

ज्योतिषे च नमस्तुभ्यं ज्ञानाकार्य नमो नमः ॥ ४२॥

प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः ।

नमस्ते होतृपतये पृथिवीपतये नमः ॥ ४३॥

नमोङ्कार वषट्कार सर्वयज्ञ नमोऽस्तु ते ।

ऋग्वेदाय यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४॥

नमो हाटकवर्णाय भास्कराय नमो नमः ।

जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ४५॥

दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः ।

नमस्ते शुचये नित्यं नमः कुरुकुलात्मनम् ॥ ४६॥

नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ।

नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७॥

त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः ।

त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८॥

योजनानां सहस्रे द्वे शते द्वे द्वे च योजने ।

एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९॥

नवयोजनलक्षाणि सहस्रद्विशतानि च ।

यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते ॥ ५०॥

अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः ।

पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१॥

नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ।

नमो दिव्याय व्योमाय सर्वतन्त्रमयाय च ॥ ५२॥

नमो वेदान्तवैद्याय सर्वकर्मादिसाक्षिणे ।

नमो हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३॥

अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा ।

चैत्रमासे तु वेदाङ्गो भानुर्वैशाखतापनः ॥ ५४॥

ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः ।

गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा ॥ ५५॥

इषे सुवर्णरेताश्च कार्तिके च दिवाकरः ।

मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६॥

पुरुषस्त्वधिके मासि मासाधिक्ये तु कल्पयेत् ।

इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७॥

उग्ररूपा महात्मानस्तपन्ते विश्वरूपिणः ।

धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८॥

सर्वपापहरं चैवमादित्यं सम्प्रपूजयेत् ।

एकधा दशधा चैव शतधा च सहस्रधा ॥ ५९॥

तपन्ते विश्वरूपेण सृजन्ति संहरन्ति च ।

एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥ ६०॥

महेन्द्रश्चैव कालश्च यमो वरुण एव च ।

नक्षत्रग्रहताराणामधिपो विश्वतापनः ॥ ६१॥

वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयं प्रभुः ।

एष देवो हि देवानां सर्वमाप्यायते जगत् ॥ ६२॥

एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा ।

एष लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥ ६३॥

एष पातालसप्तस्था दैत्यदानवराक्षसाः ।

एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४॥

एष एव प्रजा नित्यं संवर्धयति रश्मिभिः ।

एष यज्ञः स्वधा स्वहा ह्रीः श्रीश्च पुरुषोत्तमः ॥ ६५॥

एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः ।

ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ६७॥

दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः ।

कीर्तनीयो विवस्वांश्च मार्तण्डो भास्करो रविः ॥ ६८॥

लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।

लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९॥

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ।

गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७०॥

आयुरारोग्यमैश्वर्यं नरा नार्यश्च मन्दिरे ।

यस्य प्रसादात्सन्तुष्टिरादित्यहृदयं जपेत् ॥ ७१॥

इत्येनैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः ।

प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥ ७२॥

पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः ।

एकसन्ध्यं द्विसन्ध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३॥

त्रिसन्ध्यं जपमानस्तु पश्येश्च परमं पदम् ।

यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥ ७४॥

यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते ।

दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥ ७५॥

सर्वव्याधिमहारोगभूतबाधास्तथैव च ।

डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६॥

ये चान्ये दुष्टगेगाश्च ज्वरातीसारकादयः ।

जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥ ७७॥

संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् ।

अशीर्षां पश्यतिच्छायामहोरात्रं धनञ्जय ॥ ७८॥

यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः ।

प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः ॥ ७९॥

सुवर्णचक्षुर्भवति न चान्धस्तु प्रजायते ।

पुत्रवान् धनसम्पन्नो जायते चारुजः सुखी ॥ ८०॥

सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत ।

आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१॥

श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते ।

अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ॥ ८२॥

एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि ।

आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥ ८३॥

भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः ।

गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४॥

पातकानि च सर्वाणि दहत्येव न संशयः ।

य इदं श्रृणुयान्नित्य जपेद्वाऽपि समाहितः ॥ ८५॥

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ।

अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६॥

कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा ।

यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥ ८७॥

उदयाचलमारूढं भास्करं प्रणतः स्थितः ।

जपते मानवो भक्त्या श्रृणुयाद्वापि भक्तितः ॥ ८८॥

स याति परमं स्थानं यत्र देवो दिवाकरः ।

अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥ ८९॥

तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः ।

आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥ ९०॥

एतन्मन्त्रं समाहूय सर्वसिद्धिकरं परम् ।

ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा ।

ॐ ह्रीं मालीढं स्वाहा । इति मन्त्रः ।

त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः ।

जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत ॥ ९१॥

राक्षससेनाभिभूतस्य विकारान् श्रृणु पाण्डव ।

गीयते नृत्यते नग्न आस्फोटयति धावति ॥ ९२॥

शिवारुतं च कुरुते हसते क्रन्दते पुनः ।

एवं सम्पीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥ ९३॥

किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः ।

पीडितस्य न सन्देहो ज्वरौ भवति दारुणः ॥ ९४॥

यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभङ्करम् ।

तदा सलिलमादाय जपेन्मन्त्रमिमं बुधः ॥ ९५॥

नमो भगवते तुभ्यमादित्याय नमो नमः ।

जयाय जयभद्राय हरिदश्वाय ते नमः ॥ ९६॥

स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा ।

अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥ ९७॥

अतस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे ।

उपलिप्ते शुचौ देशे नियतो वाग्यताः शुचिः ॥ ९८॥

वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छचि ।

त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९॥

अष्टपत्रंलिखेत्पद्मं लिप्तगोमयमण्डले ।

पूर्वपत्रे लिखेत् सूर्यमाग्नेय्यां तु रविं न्यसेत् ॥ १००॥

याम्यायां च विवस्वन्तं नैऋर्त्यां तु भगं न्यसेत् ।

प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१॥

आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च ।

मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२॥

अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ।

महातेजः समुद्यतं प्रणमेत्स कृताञ्जलिः ॥ १०३॥

सकेसराणि पद्मानि करवीराणि चार्जुन ।

तिलतण्द्गुलयुक्तानि कुशगन्धोदकानि च ॥ १०४॥

रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने ।

धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥ १०५॥

मन्त्रपूतं गुडाकेशः चार्घ्यं दद्याद्गभस्तये ।

सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६॥

स्वागतो भव ।

सुप्रतिष्ठितो भव ।

सन्निधौ भव ।

सन्निहितो भव ।

सम्मुखो भव ।

इति पञ्चमुद्राः ।

स्फुटयित्वाऽर्हयेत्सूर्यं भुक्ति मुक्तिं लभेन्नरः ॥ १०७॥

ॐ श्रीं विद्या किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ।

ॐ श्रीं ह्रीं ह्रूं हंसः सूर्याय नमः स्वाहा ।

ॐ श्रीं ह्रां ह्रीं ह्रूं ह्रः सूर्यमूर्तये स्वाहा ।

ॐ श्रीं ह्रीं खं खः लोकाय सूर्यमूर्तये स्वाहा ।

ॐ ह्रूं मार्तण्डाय स्वाहा ।

नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे ।

त्वमेव चार्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥ १०८॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे ।

दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९॥

एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।

अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥ ११०॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे ।

ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११॥

सर्वदेवाधिदेवाय आधिव्याधिविनाशिने ।

इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२॥

नमः सूर्याय शान्ताय सर्वरोगविनाशिने ।

ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर ॥ ११३॥

ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा ।

ॐ सर्वात्मने सूर्यायनमः स्वाहा । ॐ अक्षय्यतेजसेनमः स्वाहा ।

सर्वसङ्कटदारिद्रयं शत्रुं नाशय नाशय ।

सर्वलोकेषु विश्वात्मन्सर्वात्मन्सर्वदर्शक ॥ ११४॥

नमो भगवते सूर्य कुष्ठरोगान्विखण्डय ।

आयुरारोग्यमैश्वर्यं देहि देव नमोऽस्तु ते ॥ ११५॥

नमो भगवते तुभ्यमादित्याय नमो नमः ।

ॐ अक्षय्यतेजसे नमः ।

ॐ सूर्याय नमः ।

ॐ विश्वमूर्तये नमः ।

आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् ।

उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥ ११६॥

एतदिच्छाम्यहं श्रोतुं पुरूषो वै दिवाकरः ।

उदये ब्राह्मणो रूपं मध्याह्ने तु महेश्वरः ॥ ११७॥

अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः ।

नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे ॥ ११८॥

ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ।

श्रीसूर्यनारायणाय साङ्गाय सपरिवाराय इदमर्घ्यं समर्पयामि ॥ ११९॥

हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः ।

कृतघ्नाय सत्याय तस्मै सूयार्त्मने नमः ॥ १२०॥

जयोऽजयश्च विजयो जितप्राणो जितश्रमः ।

मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१॥

हरितहयरथं दिवाकरं कनकमयाम्बुजरेणुपिञ्जरम् ।

प्रतिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥ १२२॥

न तं व्यालाः प्रबाधन्ते न व्याधिभ्योभयं भवेत् ।

न नागेभ्यो भयं चैव नच भूतभयं क्वचित् ॥ १२३॥

अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च ।

दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४॥

सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् ।

एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।

कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६॥

इदमादित्यहृदयं योऽधीते सततं नरः ।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १२७॥

नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।

प्रत्यक्षो भगवन्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥ १२८॥

नवतिर्योजनं लक्षं सहस्राणि शतानि च ।

यावद्घटीप्रमाणेन तावच्चरति भास्करः ॥ १२९॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।

तत्फलं लभते विद्वाञ्शान्तात्मा स्तौति यो रविम् ॥ १३०॥

योऽधीते सूर्यहृदयं सकलं सफलं भवेत् ।

अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१॥

ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा ।

जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२॥

अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।

सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥ १३३॥

विवस्वते ज्ञानमृदन्तरात्मने जगत्प्रदीपाय गजद्धितैषिणे ।

स्वयम्भुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १३४॥

सुरैरनेकैः परिषेविताय हिरण्यगर्भाय हिरण्मयाय ।

महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५॥

आदित्यश्चार्चितो देव आदित्यः परमं पदम् ।

आदित्यो मातृको भूत्वा आदित्यो वाङ्मय जगत् ॥ १३६॥

आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।

नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७॥

त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः ।

त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८॥

नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।

त्रयीमथाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ १३९॥

यस्योदयेनेह जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये ।

ब्रह्मेन्द्रनारायणरुद्रवन्दितः स नः सदा यच्छतु मङ्गलं रविः ॥ १४०॥

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने ।

सहस्रयोगोद्भवभावभागिने सहस्रसङ्ख्यायुगधारिणे नमः ॥ १४१॥

यत्मण्डलं दीतिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२॥

यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतम्भावनमुक्तिकोविदम् ।

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३॥

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।

समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४॥

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।

यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५॥

यन्मण्डलं व्याधि विनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् ।

प्रकाशितं येन च भूर्भुवःस्वः पुनातु मां तत्सवितुवरेण्यम् ॥ १४६॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः ।

यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७॥

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।

यत्कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८॥

यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहारं जनानाम् ।

यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९॥

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाम्प्रलयप्रगल्भम् ।

यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५०॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।

सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१॥

यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः ।

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथातुगम्यम् ।

तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३॥

मण्डलाष्टमिदं पुण्यं यः पठेत्सततं नरः ।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४॥

ध्येयः सदासवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः ।

केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १५५॥

सशङ्खचक्रं रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् ।

भजामि बुद्धया तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।

कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं बिभुव ॥ १५७॥

वेदवेदाङ्गशरीरं दिव्यदीप्तिकरं परम् ।

रक्षोश्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८॥

एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।

स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९॥

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६०॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।

सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ १६१॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।

एकादशं त्रयीमुर्तिर्द्वादशं सूर्य एव च ॥ १६२॥

द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।

दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३॥

दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।

सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥ १६४॥

यः पठेत्मातरुत्थाय भक्त्या नित्यमिदं नरः ।

सौख्यमायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥ १५॥

अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे ।

अग्र आयाहि पीतस्त्वं नमस्ते ज्योतिषां पते ॥ १६६॥

शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।

पञ्चमायोपवेदाय नमस्तुभ्यं नमोनमः ॥ १६७॥

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।

सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८॥

आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने ।

जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ १६९॥

(नमो धर्मनिधानाय नमः सुकृतसाक्षिणे ।

नमः प्रत्यक्षदेवाय भास्कराय नमोनमः ॥

अपरः शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्यभावेन रक्ष रक्ष दिवाकर ॥

पौरोहित्यं रजनिचरणं ग्रामणीत्वं निः योगो

माठापत्यं वितथवचनं साक्षिवादः परान्नम् ।

ब्रह्मद्वेष खलजनरतिः प्राणिषु निर्दयत्वं

माभूदेतन्मम दिनपते जन्मजन्मान्तरेऽपि ॥

उदयंस्तु महाभानुस्तेजसा चाभयङ्करः ।

सहस्ररश्मिदीप्तश्चत्वादित्यः प्रीयतां मम ॥)

उदयगिरिमुपेतं भास्करं पद्महस्तं

निखिलभुवननेत्रं रत्नंरत्नोपमेयम् ।

तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां

सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥ १७०॥

इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयम् स्तोत्रम् सम्पूर्णम् ॥

मैं एक पत्नी होने के साथ साथ गृहिणी एवं माँ भी हुँ । लिखने का हुनर... ब्लॉग लिखती रहती हु... सनातन ग्रुप एक सकारात्मक ऊर्जा, आत्मनिर्भर बनाने की प्रेरणा देती जीवनी, राष्ट्रभक्ति गीत एवं कविताओं की माला पिरोया है । आग्रह :आपको पसन्द आये तो ऊर्जा देने के लिए शेयर एवं अपने सुझाव दीजिए ।

शालू सिंह

🙏 सकारात्मक जानकारी को फेसबुक पर पाने के लिए लाइक करें 👇

Leave a Reply