अघोरकवचम् || Aghorakavcham
श्रीरुद्रयामलतन्त्र में लिखित इस अघोरकवचम् जिसे की अघोरमूर्तिकवचम् के नाम से भी जाता है , कहा गया है कि जिस घर में यह अघोरकवचं रहता है या पाठ होता है वह घर मन्दिर के समान है तथा वहां पर विद्या, कीर्ति, धन, आरोग्य, स्थिर लक्ष्मी अर्थात् लक्ष्मी की वृद्धि हमेशा विद्यमान रहता है तथा भगवान श्री शिव जी की कृपा सदा ही बना रहता है इसमे संशय नहीं है ऐसा भैरव ने भैरवी से कहा है।
|| अघोरकवचम् अघोरमूर्तिकवचम् ||
भैरवी उवाच –
भगवन्करुणाम्भोधे शास्त्राम्भोनिधिपारग ।
पुराऽस्माकं वरो दत्तः तं दातुं मे क्षमो भव ॥ १॥
भैरव उवाच –
सत्यं पुरा वरो दत्तो वरं वरय पार्वति ।
यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥
देवी उवाच –
अघोरस्य महादेव कवचं देवदुर्लभम् ।
शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥
भैरव उवाच –
अघोरकवचं वक्ष्ये महामन्त्रमयं परम् ।
रहस्यं परमं तत्त्वं न चाख्येयं दुरात्मने ॥ ४॥
|| अथ अघोरकवचम् प्रारंभ ||
अस्य श्री अघोरकवचस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीकालाग्निरुद्रो देवता ।
क्ष्मीं बीजं क्ष्मां शक्तिः क्ष्मः कीलकं श्री अघोर विद्यासिद्ध्यर्थं कवचपाठे विनियोगः ॥
अथ मन्त्रः
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥
ॐ अघोरो मे शिवः पातु श्री मेऽघोरो ललाटकम् ।
ह्रीं घोरो मेऽवतां नेत्रे क्लीं घोरो मेऽवताच्छती ॥ ५॥
सौःतरेभ्योऽवताङ्गडौक्षी नासां पातु सर्वतः क्षं ।
मुखं पातु मे शर्वोऽघोरः सर्वोऽवताङ्गलम् ॥ ६॥
घोरश्च मेऽवतात्स्कन्धौ हस्तौ ज्वलन्नमोऽवतु ।
ज्वलनः पातु मे वक्षः कुक्षिं प्रज्वलरुद्रकः ॥ ७॥
पार्श्वौ प्रज्वलरूपेभ्यो नाभिं मेऽघोररूपभृत् ।
शिश्नं मे शूलपाणिश्च गुह्यं रुद्रः सदावतु ॥ ८॥
कटिं मेऽमृतमूर्तिश्च मेढ्रेऽव्यान्नीलकण्ठकः ।
ऊरू चन्द्रजटः पातु पातु मे त्रिपुरान्तकः ॥ ६॥
जङ्घे त्रिलोचनः पातु गुल्फौ याज्ञियरूपवान् ।
अघोरोऽङ्घ्री च मे पातु पादौ मेऽघोरभैरवः ॥ १०॥
पादादिमूर्धपर्यन्तमघोरात्मा शिवोऽवतु ।
शिरसः पादपर्यन्तं पायान्मेऽघोरभैरवः ॥ ११॥
प्रभाते भैरवः पातु मध्याहे वटुकोऽवतु ।
सन्ध्यायां च महाकालो निशायां कालभैरवः ॥ १२॥
अर्द्धरात्रे स्वयं घोरो निशान्तेऽमृतरूपधृत् ।
पूर्वे मां पातु ऋग्वेदो यजुर्वेदस्तु दक्षिणे ॥ १३॥
पश्चिमे सामवेदोऽव्यादुत्तरेऽथर्ववेदकः ।
आग्नेय्यामग्निरव्यान्मां नैरृत्यां नित्यचेतनः ॥ १४॥
वायव्यां रौद्ररूपोऽव्यादैशान्यां कालशासनः ।
ऊर्ध्वोऽव्यादूर्ध्वरेताश्च पाताले परमेश्वरः ॥ १५॥
दशदिक्षु सदा पायाद्देवः कालाग्निरुद्रकः ।
अग्नेर्मां पातु कालाग्निर्वायोर्मां वायुभक्षकः ॥ १६॥
जलादौर्वामुखः पातु पथि मां शङ्करोऽवतु ।
निषण्णं योगध्येयोऽव्याद्गच्छन्तं वायुरूपभृत् ॥ १७॥
गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः ।
सर्वत्र सर्वदा पातु मामघोरोऽथ घोरकः ॥ १८॥
रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि ।
द्यूते मारीभये राष्ट्रे प्रलये वादिना कुले ॥ १६॥
अघोरेभ्योऽथ घोरेभ्योऽवतान्मां घोरभैरवः ।
घोरघोरतरेभ्यो मां पायान्मन्मथसङ्गरे ॥ २०॥
सर्वतः सर्वसर्वेभ्यो भोजनावसरेऽवतु ।
नमस्ते रुद्ररूपेभ्योऽवतु मां घोरभैरवः ॥ २१॥
सर्वत्र सर्वदाकालं सर्वाङ्गं सर्वभीतिषु ।
हं यं रं लं वं शं षं सं हं लं क्षः अघोरकः ॥ २२॥
अघोरास्त्राय फट् पातु अघोरो मां सभैरवः ।
विस्मारितं च यत्स्थानं स्थलं यन्नामवर्जितम् ॥ २३॥
तत्सर्वं मामघोरोऽव्यान्मामथाघोरः सभैरवः ।
भार्यान्पुत्रान्सुहृद्वर्गान्कन्यां यद्वस्तु मामकम् ॥ २४॥
तत्सर्वं पातु मे नित्यं अघोरो माथ घोरकः ।
स्नाने स्तवे जपे पाठे होमेऽव्यात्क्षः अघोरकः ॥ २५॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ २६॥
ॐ श्रीं ह्रीं क्लीं सौः क्ष्मं पातु नित्यं मां श्री अघोरकः ।
इतीदं कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २७॥
मूलमन्त्रमयं दिव्यं त्रैलोक्ये सारमुत्तमम् ।
अदातव्यमवाच्यं च कवचं गुह्यमीश्वरि ॥ २८॥
अप्रष्टव्यमस्तोतव्यं दीक्षाहीनेन मन्त्रिणा ।
अदीक्षिताय शिष्याय पुत्राय शरजन्मने ॥ २६॥
न दातव्यं न श्रोतव्यमित्याज्ञां मामकां श्रृणु ।
परं श्रीमहिमानं च श्रृणु चास्य सुवर्मणः ॥ ३०॥
अदीक्षितो यदा मन्त्री विद्यागृध्नुः पठेदिदम् ।
सदीक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ ३१॥
यः पठेन्मनसा तस्य रात्रौ ब्राह्मे मुहूर्त्तके ।
पूजाकाले निशीथे च तस्य हस्तेऽष्टसिद्धयः ॥ ३२॥
दुःस्वप्ने बन्धने धीरे कान्तारे सागरे भये ।
पठेत् कवचराजेन्द्रं मन्त्री विद्यानिधिं प्रिये ॥ ३३॥
सर्वं तत्प्रशमं याति भयं कवचपाठनात् ।
रजः-सत्त्व-तमोरूपमघोरकवचं पठेत् ॥ ३४॥
वाञ्छितं मनसा यद्यत्तत्तत्प्राप्नोति साधकः ।
कुङ्कुमेन लिखित्वा च भूर्जत्वचि रवौ शिवे ॥ ३५॥
केवलेन सुभक्ष्ये च धारयेन्मूर्ध्नि वा भुजे ।
यद्यदिष्टं भवेत् तत्तत्साधको लभतेऽचिरात् ॥ ३६॥
यद्गृहे अघोरकवचं वर्तते तस्य मन्दिरे ।
विद्या कीर्तिर्धनारोग्यलक्ष्मीवृद्धिर्न संशयः ॥ ३७॥
जपेच्चाघोरविद्यां यो विनानेनैव वर्मणा ।
तस्य विद्या जपं हीनं तस्माद्धर्मं सदा पठेत् ॥ ३८॥
अघोरमन्त्रविद्यापि जपन् स्तोत्रं तथा मनुम् ।
सद्यः सिद्धिं समायाति अघोरस्य प्रसादतः ॥ ३९॥
इति श्रीदेवदेवेशि अघोरकवचं स्मरेत् ।
गोप्यं कवचराजेन्द्रं गोपनीयं स्वयोनिवत् ॥ ४०॥
॥ इति श्रीरुद्रयामले तन्त्रेविश्वसारोद्धारे तन्त्रेऽघोरसहस्रनामाख्ये कल्पे अघोरकवचं समाप्तम् ॥