गरुडपुराण सारोद्धार अध्याय १३ || Garud Puran Saroddhar Adhyay 13 || सपिण्डनादि-सर्वकर्मनिरुपण

0

गरुडपुराण-सारोद्धार (प्रेतकल्प) में आपने इससे पूर्व में गरुडपुराण सारोद्धार अध्याय १२ को पढ़ा। अब आगे इस गंथ के मूल पाठ को भावार्थ सहित गरुडपुराण सारोद्धार अध्याय १३ पढेंगे, इस अध्याय में अशौचकाल का निर्णय, अशौच में निषिद्ध कर्म, सपिण्डीकरण श्राद्ध, पिण्डमेलन की प्रक्रिया, शय्यादान, पददान तथा गया श्राद्ध की महिमा का वर्णन है।

गरुडपुराण सारोद्धार अध्याय १३- मूल पाठ

गरुड उवाच

सपिण्डनविधिं ब्रूहि सूतकस्य च निर्णयम् । शय्यापदानां सामग्री तेषां च महिमां प्रभो॥१॥

श्रीभगवानुवाच

श्रृणु तार्क्ष्य प्रवक्ष्यामि सापिण्ड्याद्यखिलां क्रियाम् । प्रेतनाम परित्यज्य यया पितृगणे विशेत्॥२॥

न पिण्डो मिलितो ह्येषां पितामहशिवादिष । नोपतिष्ठन्ति दानानि पुत्रैर्दत्तान्यनेकधा॥३॥

अशुद्धः स्यात्सदा पुत्रो न शुद्धयति कदाचन । सूतकं न निवर्तेत सपिण्डीकरणं विना॥४॥

तस्मात्पुत्रेण कर्तव्यं सूतकान्ते सपिण्डनम् । सूतकान्तं प्रवक्ष्यामि सर्वेषां च यथोचितम्॥५॥

ब्राह्मणस्तु दशाहेन क्षत्रियो द्वादशेऽहनि। वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति॥६॥

दशाहेन सपिण्डास्तु शुद्धयन्ति प्रेतसूतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुद्धयन्ति गोत्रजाः॥७॥

चतुर्थे दशरात्रं स्यात्षण्निशाः पुंसि पञ्चमे । षष्ठे चतुरहः प्रोक्तं सप्तमे च दिनत्रयम्॥८॥

अष्टमे दिनमेकं तु नवमे प्रहरद्वयम् । दशमे स्नानमात्रं हि मृतकं जन्मसूतकम्॥९॥

देशान्तरगतः कश्चिच्छृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्॥१०॥

अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्नानमात्राद्विशुद्ध्यति॥११॥

आद्यभागद्वयं यावन्मृतकस्य च सूतके । द्वितीये पतिते चाद्यात्सूतकाच्छुद्धिरिष्यते॥१२॥

आदन्तजननात्सद्य आचौलान्नैशिकी स्मृता । त्रिरात्रमाव्रतादेशाद् दशरात्रमतः परम्॥१३॥

आजन्मनस्तु चौलान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः॥१४॥

ततो वाग्दानपर्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः॥१५॥

वाक्प्रदाने कृते त्वत्र ज्ञेयं चोभयतस्त्र्यहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ॥१६॥

षण्मासाभ्यन्तरे यावद् गर्भस्रावो भवेद्यदि। तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते॥१७॥

अत ऊर्ध्वं स्वजात्युक्तमाशौचं तासु विद्यते । सद्यः शौचं सपिण्डानां गर्भस्य पतने सति॥१८॥

सर्वेषामेव वर्णानां सूतके मृतकेऽपि वा । दशाहाच्छुद्धिरित्येष कलौ शास्त्रस्य निश्चयः॥१९॥

आशीर्वादं देवपूजां प्रत्युत्थानाभिवन्दनम् । पर्यङ्के शयनं स्पर्श न कुर्यान्मृतसूतके ॥२०॥

सन्ध्यां दानं जपं होमं स्वाध्यायं पितृतर्पणम् । ब्रह्मभोज्यं व्रतं नैव कर्तव्यं मृतसूतके ॥२१॥

नित्यं नैमित्तिकं काम्यं सूतके यः समाचरेत् । तस्य पूर्वकृतं नित्यादिकं कर्म विनश्यति॥२२॥

व्रतिनो मन्त्रपूतस्य साग्निकस्य द्विजस्य च । ब्रह्मनिष्ठस्य यतिनो न हि राज्ञां च सूतकम्॥२३॥

विवाहोत्सवयज्ञेषु जाते च मृतसूतके । तस्य पूर्वकृतं चान्नं भोज्यं तन्मनुरब्रवीत्॥२४॥

सूतके यस्तु गृह्णाति तदज्ञानान्न दोषभाक् । दाता दोषमवाप्नोति याचकाय ददन्नपि॥२५॥

प्रच्छाद्य सूतकं यस्तु ददात्यन्नं द्विजाय च । ज्ञात्वा गृह्णन्ति ये विप्रा दोषभाजस्तु एव हि॥२६॥

तस्मात् सूतकशुद्धयर्थं पितुः कुर्यात्सपिण्डनम् । ततः पितृगणैः सार्धं पितृलोकं स गच्छति॥२७॥

द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा। सपिण्डीकरणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः॥२८॥

मया तु प्रोच्यते तार्क्ष्य शास्त्रधर्मानुसारतः। चतुर्णामेव वर्णानां द्वादशाहे सपिण्डनम् ॥२९॥

अनित्यत्वात्कलिधर्माणां पुंसां चैवायुषः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते॥३०॥

व्रतबन्धोत्सवादीनि व्रतस्योद्यापनानि च । विवाहादि भवेन्नैव मृते च गृहमेधिनि॥३१॥

भिक्षुर्भिक्षां न गृह्णाति हन्तकारो न गृह्यते । नित्यं नैमित्तिकं लुप्येद्यावत्पिण्डो न मेलितः॥३२॥

कर्मलोपात् प्रत्यवायी भवेत्तस्मात्सपिण्डनम् । निरग्निकः साग्निको वा द्वादशाहे समाचरेत्॥३३॥

यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । तत्फलं समवाप्नोति द्वादशाहे सपिण्डनात्॥३४॥

अतः स्नात्वा मृतस्थाने गोमयेनोपलेपिते। शास्त्रोक्तेन विधानेन सपिण्डी कारयेत् सुतः॥ ३५॥

पाद्यार्थ्याचमनीयाद्यैर्विश्वेदेवांश्च पूजयेत् । कुपित्रे विकिरं दत्त्वा पुनराप उपस्पृशेत्॥३६॥

दद्यात्पितामहादीनां त्रीन्पिण्डांश्च यथाक्रमम् । वसुरुद्रार्करूपाणां चतुर्थं मृतकस्य च ॥३७॥

चन्दनैस्तुलसीपत्रैबूंपैर्दीपैः सुभोजनैः। मुखवासैः सुवस्त्रैश्च दक्षिणाभिश्च पूजयेत्॥ ३८॥

प्रेतपिण्डं त्रिधा कृत्वा सुवर्णस्य शलाकया। पितामहादिपिण्डेषु मेलयेत्तं पृथक्पृथक् ॥ ३९॥

पितामह्या समं मातुः पितामहसमं पितुः। सपिण्डीकरणं कुर्यादिति ताशें मतं मम॥४०॥

मृते पितरि यस्याथ विद्यते च पितामहः। तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः॥४१॥

तेभ्यश्च पैतृकं पिण्डं मेलयेत्तं त्रिधा कृतम् । मातर्यग्रे प्रशान्तायां विद्यते च पितामही॥४२॥

तदा मातृकश्राद्धेऽपि कुर्यात्पैतृकवद्विधिः । यद्वा मयि महालक्ष्यां तयोः पिण्डं च मेलयेत्॥४३॥

अपुत्रायाः स्त्रियाः कुर्यात्पतिः सापिण्डनादिकम् । श्वश्र्वादिभिः सहैवाऽस्याः सपिण्डीकरणं भवेत्॥४४॥

भादिभिस्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः। नैतन्मम मतं तार्क्ष्य पत्या सापिण्ड्यमर्हति ॥४५॥

एकां चितां समारूढौ दम्पती यदि काश्यप । तृणमन्तरतः कृत्वा श्वशुरादेस्तदाचरेत्॥ ४६॥

एक एव सुतः कुर्यादादौ पिण्डादिकं पितुः । तदूर्ध्वं च प्रकुर्वीत सत्याः स्नानं पुनश्चरेत्॥४७॥

हुताशं या समारूढा दशाहाभ्यन्तरे सती। तस्या भर्तुर्दिने कार्यं शय्यादानं सपिण्डनम्॥४८॥

कृत्वा सपिण्डनं ताऱ्या प्रकुर्यात्पितृतर्पणम् । उदाहरेत्स्वधाकारं वेदमन्त्रैः समन्वितम्॥४९॥

अतिथिं भोजयेत्पश्चाद्धन्तकारं च सर्वदा । तेन तृप्यन्ति पितरो मुनयो देवदानवाः॥५०॥

ग्रासमात्रा भवेद्भिक्षा चतुर्गासं तु पुष्कलम् । पुष्कलानि च चत्वारि हन्तकारो विधीयते॥५१॥

सपिण्ड्यां विप्रचरणौ पूजयेच्चन्दनाक्षतैः। दानं तस्मै प्रदातव्यमक्षय्यतृप्तिहेतवे॥५२॥

वर्षवृत्तिं घृतं चान्नं सुवर्णं रजतं सुगाम् । अश्वं गजं रथं भूमिमाचार्याय प्रदापयेत्॥५३॥

ततश्च पूजयेन्मन्त्रैः स्वस्तिवाचनपूर्वकम् । कुङ्कुमाक्षतनैवेद्यैर्ग्रहान्देवीं विनायकम्॥५४॥

आचार्यस्तु ततः कुर्यादभिषेकं समन्त्रकम् । बद्ध्वा सूत्रं करे दद्यान्मन्त्रपूतांस्तथाक्षतान्॥५५॥

ततश्च भोजयेद्विप्रान्मिष्टान्नैर्विविधैः शुभैः। दद्यात्सदक्षिणां तेभ्यः सजलान्नान् द्विषड्घटान्॥५६॥

वार्यायुधप्रतोदस्तु दण्डस्तु द्विजभोजनात् । स्पृष्टव्याश्च ततो वर्णैः शुध्येरन् ते ततः क्रमात्॥५७॥

एवं सपिण्डनं कृत्वा क्रियावस्त्राणि सन्त्यजेत् । शुक्लाम्बरधरो भूत्वा शय्यादानं प्रदापयेत्॥५८॥

शय्यादानं प्रशंसन्ति सर्वे देवाः सवासवाः। तस्माच्छय्या प्रदातव्या मरणे जीवितेऽपि वा॥५९॥

सारदारुमयीं रम्यां सुचित्रैश्चित्रितां दृढाम् । पट्टसूत्रैर्वितनितां हेमपत्रैरलंकृताम्॥६०॥

हंसतूलीप्रतिच्छन्नां शुभशीर्षोपधानिकाम् । प्रच्छादनपटीयुक्तां पुष्पगन्धैः सुवासिताम्॥६१॥

दिव्यबन्धैः सुबद्धां च सुविशालां सुखप्रदाम् । शय्यामेवं विधां कृत्वा ह्यास्तृतायां न्यसेद्भुवि॥६२॥

छत्रं दीपालयं रौप्यं चामरासनभाजनम् । भृङ्गारं करकादर्श पञ्चवर्णवितानकम्॥६३॥

शयनस्य भवेत् किञ्चिद्यच्चान्यदुपकारकम् । तत्सर्वं परितस्तस्याः स्वे स्वे स्थाने नियोजयेत्॥६४॥

तस्यां संस्थापयेद्धमं हरिं लक्ष्मीसमन्वितम् । सर्वाभरणसंयुक्तमायुधाम्बरसंयुतम् ॥६५॥

स्त्रीणां च शयने धृत्वा कज्जलालक्तकुङ्कुमम् । वस्त्रं भूषादिकं यच्च सर्वमेव प्रदापयेत्॥६६॥

ततो विप्रं सपत्नीकं गन्धपुष्पैरलङ्कृतम् । कर्णाङ्गुलीयाभरणैः कण्ठसूत्रैश्च काञ्चनैः॥६७॥

उष्णीषमत्तरीयं च चोलकं परिधाय च । स्थापयेत सखशय्यायां लक्ष्मीनारायणाग्रत: ॥६८॥

कुङ्कुमैः पुष्पमालाभिर्हरिं लक्ष्मी समर्चयेत् । पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम्॥६९॥

उत्तराभिमुखो भूत्वा गृहीत्वा कुसुमाञ्जलिम् । उच्चारयेदिमं मन्त्रं विप्रस्य पुरतः स्थितः॥७०॥

यथा कृष्ण त्वदीयास्ति शय्या क्षीरोदसागरे। तथा भूयादशून्येयं मम जन्मनि जन्मनि॥७१॥

एवं पुष्पाञ्जलिं विप्रे प्रतिमायां हरेः क्षिपेत् । ततः सोपस्करं शय्यादानं संकल्पपूर्वकम्॥७२॥

दद्याद् व्रतोपदेष्ट्रे च गुरवे ब्रह्मवादिने । गृहाण ब्राह्मणैनां त्वं कोऽदादिति कीर्तयन्॥७३॥

आन्दोलयेद्विजं लक्ष्मी हरिं च शयने स्थितम् । ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत्॥७४॥

सर्वोपस्करणैर्युक्तं प्रदद्यादतिसुन्दरम् । शय्यायां सुखसुप्त्यर्थं गृहं च विभवे सति॥ ७५॥

जीवमानः स्वहस्तेन यदि शय्यां ददाति यः। स जीवंश्च वृषोत्सर्ग पर्वणीषु समाचरेत्॥७६॥

इयमेकस्य दातव्या बहूनां न कदाचन। सा विभक्ता च विक्रीता दातारं पातयत्यधः॥७७॥

पात्रे प्रदाय शयनं वाञ्छितं फलमाप्नुयात्। पिता च दाता तनयः परत्रेह च मोदते॥७८॥

पुरन्दरगृहे दिव्ये सूर्यपुत्रालयेऽपि च । उपतिष्ठेन्न सन्देहः शय्यादानप्रभावतः॥७९॥

विमानवरमारूढः सेव्यमानोऽप्सरोगणैः। आभूतसम्प्लवं यावत्तिष्ठत्यातङ्कवर्जितः॥८०॥

सर्वतीर्थेषु यत्पुण्यं सर्वपर्वदिनेषु च। तेभ्यश्चाप्यधिकं पुण्यं शय्यादानोद्भवं भवेत्॥८१॥

एवं दत्त्वा सुतः शय्यां पददानं प्रदापयेत् । तच्छृणुष्व मयाऽऽख्यातं यथावत् कथयामि ते॥८२॥

छत्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः। आसनं पञ्चपात्राणि पदं सप्तविधं स्मृतम्॥८३॥

दण्डेन ताम्रपात्रेण ह्यामान्नै जनैरपि । अर्घ्ययज्ञोपवीतैश्च पदं सम्पूर्णतां व्रजेत्॥८४॥

त्रयोदशपदानीत्थं यथाशक्त्या विधाय च । त्रयोदशेभ्यो विप्रेभ्यः प्रदद्याद् द्वादशेऽहनि॥८५॥

अनेन पददानेन धार्मिका यान्ति सद्गतिम् । यममार्गं गतानां च पददानं सुखप्रदम्॥८६॥

आतपस्तत्र वै रौद्रो दह्यते येन मानवः। छत्रदानेन सुच्छाया जायते तस्य मूर्द्धनि॥८७॥

अतिकण्टकसंकीर्णे यमलोकस्य वर्त्मनि । अश्वारूढाश्च ते यान्ति ददन्ते यद्यपानहौ॥८८॥

शीतोष्णवातदुःखानि तत्र घोराणि खेचर । वस्त्रदानप्रभावेण सुखं निस्तरते पथि॥८९॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः। न पीडयन्ति तं मार्गे मुद्रिकायाः प्रदानतः॥९०॥

बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते । कमण्डलुप्रदानेन तृषितः पिबते जलम्॥९१॥

मृतोद्देशेन यो दद्याज्जलपात्रं च ताम्रजम् । प्रपादानसहस्रस्य यत्फलं सोऽश्नुते ध्रुवम्॥९२॥

आसने भोजने चैव दत्ते सम्यग्द्विजातये । सुखेन भुङ्क्ते पाथेयं पथि गच्छञ्छनैः शनैः॥९३॥

एवं सपिण्डनदीने दत्त्वा दानं विधानतः। बहून् सम्भोजयेद्विप्रान् य: श्वपाकादिकानपी ॥९४॥

ततः सपिण्डनादूर्ध्वमक्संवत्सरादपि । प्रतिमासं प्रदातव्यो जलकुम्भः सपिण्डकः॥९५॥

कृतस्य करणं नास्ति प्रेतकार्यादृते खग । प्रेतार्थं तु पुनः कुर्यादक्षय्यतृप्तिहेतवे॥९६॥

अतो विशेषं वक्ष्यामि मासिकस्याब्दिकस्य च । पाक्षिकस्य विशेषं च विशेषतिथिसंस्थिते॥९७॥

पौर्णमास्यां मृतो यस्तु चतुर्थी तस्य ऊनिका । चतुर्थ्यां तु मृतो यस्तु नवमी तस्य ऊनिका॥९८॥

नवम्यां तु मृतो यस्तु रिक्ता तस्य चतुर्दशी। इत्येवं पाक्षिकं श्राद्धं कुर्याविंशतिमे दिने॥९९॥

एक एव यदा मासः संक्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं मलमासे हि शस्यते॥१००॥

एकस्मिन्मासि मासौ द्वौ यदि स्यातां तयोर्द्वयोः। तावेव पक्षौ ता एव तिथयस्त्रिंशदेव हि ॥१०१॥

तिथ्यर्धे प्रथमे पूर्वो द्वितीयाऽर्धे तदुत्तरः। मासाविति बुधैश्चिन्त्यौ मलमासस्य मध्यगौ॥१०२॥

असंक्रान्ते च कर्तव्यं सपिण्डीकरणं खग । तथैव मासिकं श्राद्धं वार्षिकं प्रथमं तथा॥१०३॥

संवत्सरस्य मध्ये तु यदि स्यादधिमासिकः। तदा त्रयोदशे मासि क्रिया प्रेतस्य वार्षिकी॥१०४॥

पिण्डवय॑मसंक्रान्ते संक्रान्ते पिण्डसंयुतम् । प्रतिसंवत्सरं श्राद्धमेवं मासद्वयेऽपि च॥१०५॥

एवं संवत्सरे पूर्णे वार्षिकं श्राद्धमाचरेत् । तस्मिन्नपि विशेषेण भोजनीया द्विजातयः॥१०६॥

कुर्यात् संवत्सरादूर्ध्वं श्राद्धे पिण्डत्रयं सदा। एकोद्दिष्टं न कर्तव्यं तेन स्यात्पितृघातकः॥१०७॥

तीर्थश्राद्धं गयाश्राद्धं गजच्छायां च पैतृकम् । अब्दमध्ये न कुर्वीत ग्रहणे न युगादिषु॥१०८॥

यदा पुत्रेण वै कार्यं गयाश्राद्धं खगेश्वर । तदा संवत्सरादूर्ध्वं कर्तव्यं पितृभक्तितः॥१०९॥

गयाश्राद्धात् प्रमुच्यन्ते पितरो भवसागरात् । गदाधरानुग्रहेण ते यान्ति परमां गतिम्॥११०॥

तुलसीमञ्जरीभिश्च पूजयेद् विष्णुपादुकाम् । तस्यानवालतीर्थेषु पिण्डान् दद्याद्यथाक्रमम्॥१११॥

उद्धरेत् सप्त गोत्राणि कुलमेकोत्तरं शतम् । शमीपत्रप्रमाणेन पिण्डं दद्याद् गयाशिरे॥११२॥

गयामुपेत्य यः श्राद्धं करोति कुलनन्दनः। सफलं तस्य तज्जन्म जायते पितृतुष्टिदम्॥११३॥

श्रूयते चापि पितृभिर्गीता गाथा खगेश्वर । इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने सुरैः॥११४॥

अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः। गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात्॥११५॥

एवमामुष्मिकी तार्थ्य यः करोति क्रियां सुतः। स स्यात् सुखी भवेन्मुक्तः कौशिकस्यात्मजा यथा॥११६॥

भरद्वाजात्मजाः सप्त भुक्त्वा जन्मपरम्पराम् । कृत्वापि गोवधं तार्क्ष्य मुक्ताः पितृप्रसादतः॥११७॥

सप्तव्याधाः दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे॥११८॥

तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। पितृभक्त्या च ते सर्वे गता मुक्तिं द्विजात्मजाः॥११९॥

तस्मात् सर्वप्रयत्नेन पितृभक्तो भवेन्नरः । इह लोके परे वापि पितृभक्त्या सुखी भवेत्॥ १२०॥

एतत्तार्क्ष्य मयाऽऽख्यातं सर्वमेवौवंदैहिकम् । पुत्रवाञ्छाप्रदं पुण्यं पितुर्मुक्तिप्रदायकम्॥ १२१॥

निर्धनोऽपि नरः कश्चिद् यः शृणोति कथामिमाम् । सोऽपि पापविनिर्मुक्तो दानस्य फलमाप्नुयात्॥१२२॥

विधिना कुरुते यस्तु श्राद्धं दानं मयोदितम् । शृणुयाद् गारुडं चापि शृणु तस्यापि यत्फलम्॥१२३॥

पिता ददाति सत्पुत्रान् गोधनानि पितामहः। धनदाता भवेत्सोऽपि यस्तस्य प्रपितामहः॥१२४॥

दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः। तृप्ताः श्राद्धेन ते सर्वे दत्त्वा पुत्रस्य वाञ्छितम् ॥ १२५॥

गच्छन्ति धर्ममार्गश्च धर्मराजस्य मन्दिरम् । तत्र धर्मसभायां ते तिष्ठन्ति परमादरात्॥१२६॥

सूत उवाच

एवं श्रीविष्णुना प्रोक्तमौलदानसमुद्भवम्। श्रुत्वा माहात्म्यमतुलं गरुडो हर्षमागतः॥१२७॥

इति गरुडपुराणे सारोद्धारे सपिण्डनादिसर्वकर्मनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥

 

गरुडपुराण सारोद्धार अध्याय १३ -भावार्थ

गरुड़जी ने कहा – हे प्रभो! सपिण्डन की विधि, सूतक का निर्णय और शय्यादान तथा पददान की सामग्री एवं उनकी महिमा के विषय में कहिए।

श्रीभगवान ने कहा – हे तार्क्ष्य! सपिण्डीकरण आदि सम्पूर्ण क्रियाओं के विषय में बतलाता हूँ, जिसके द्वारा मृत प्राणी प्रेत नाम को छोड़कर पितृगण में प्रवेश करता है, उसे सुनो। जिनका पिण्ड रुद्रस्वरुप पितामह आदि के पिण्डों में नहीं मिला दिया जाता, उनकों पुत्रों के द्वारा दिये गये अनेक प्रकार के दान प्राप्त नहीं होते। उनका पुत्र भी सदा अशुद्ध रहता है कभी शुद्ध नहीं होता क्योंकि सपिण्डीकरण के बिना सतक की निवृत्ति अर्थात समाप्ति नहीं होती। इसलिए पुत्र के द्वारा सूतक के अन्त में सपिण्डन किया जाना चाहिए।

मैं सभी के लिए सूतकान्त का यथोचित काल कहूँगा। ब्राह्मण दस दिन में, क्षत्रिय बारह दिन में, वैश्य पन्द्रह दिन और शूद्र एक मास में शुद्ध होता है। प्रेत संबंधी सूतक में सपिण्डी दस दिन में शुद्ध होते हैं। सकुल्या (कुल के लोग) तीन रात में शुद्ध होते हैं और गोत्रज स्नान मात्र से शुद्ध हो जाते हैं। चौथी पीढ़ी तक के बान्धव दस रात में, पाँचवीं पीढ़ी के लोग छ: रात में, छठी पीढ़ी के चार दिन में और सातवीं पीढ़ी के तीन दिन में, आठवीं पीढ़ी के एक दिन में, नवीं पीढ़ी के दो प्रहर में तथा दसवीं पीढ़ी के लोग स्नान मात्र से मरणाशौच और जननाशौच से शुद्ध हो जाते हैं।

देशान्तर में गया हुआ कोई व्यक्ति अपने कुल के जननाशौच या मरणाशौच के विषय का समाचार दस दिन के अंदर सुनता है तो दस रात्रि बीतने में जितना समय शेष रहता है, उतने समय के लिए उसे अशौच होता है। दस दिन बीत जाने के बाद और एक वर्ष के पहले तक ऎसा समाचार मिलने पर तीन रात तक अशौच रहता है। संवत्सर अर्थात एक वर्ष बीत जाने पर समाचार मिले तो स्नान मात्र से शुद्धि हो जाती है।

मरणाशौच के आदि के दो भागों के बीतने के पूर्व अर्थात छ: दिन तक यदि कोई दूसरा अशौच आ पड़े तो आद्य अशौच की निवृति के साथ ही दूसरे अशौच की भी निवृत्ति अर्थात शुद्धि हो जाती है। किसी बालक की दाँत निकलने से पूर्व मृत्यु होने पर सद्य: अर्थात उसके अन्तिम संस्कार के बाद स्नान करने पर, चूडाकरण अर्थात मुण्डन हो काने पर एक रात, व्रतबन्ध होने पर तीन रात और व्रतबन्ध के पश्चात मृत्यु होने पर दस रात का अशौच होता है। जब किसी भी वर्ण की कन्या की मृत्यु जन्म से लेकर सत्ताईस मास की अवस्था तक हो जाए तो सभी वर्णों में समान रुप से सद्य: अशौच की निवृत्ति हो जाती है।

इसके बाद वाग्दानपर्यन्त एक दिन का और इसके बाद अथवा बिना वाग्दान के भी सयानी कन्याओं की मृत्यु होने पर तीन रात्रि का अशौच होता है, यह निश्चित है। वाग्दान के अनन्तर कन्या की मृत्यु होने पर पितृकुल और वरकुल दोनों को तीन दिन का तथा कन्यादान हो जाने पर केवल पति के कुल में अशौच होता है। छ: मास के अंदर गर्भस्त्राव हो जाने पर जितने माह का गर्भ होता है, उतने ही दिनों में शुद्धि होती है।

इसके बाद अर्थात छ: माह के बाद गर्भस्त्राव हो तो उस स्त्री को अपनी जाति के अनुरुप अशौच होता है। गर्भपात होने पर सपिण्ड की सद्य: (स्नानोत्तर) शुद्धि हो जाती है। कलियुग में जननाशौच और मरणाशौच से सभी वर्णों की दस दिन में शुद्धि हो जाती है, ऎसा शास्त्र का निर्णय है। मरणाशौच में आशीर्वाद, देवपूजा, प्रत्युत्थान (आगन्तुक के स्वागतार्थ उठना) अभिवादन, पलंग पर शयन अथवा किसी अन्य का स्पर्श नहीं करना चाहिए।

इसी प्रकार मरणाशौच में संध्या, दान, जप, होम, स्वाध्याय, पितृतर्पन, ब्राह्मणभोजन तथा व्रत नहीं करना चाहिए। जो व्यक्ति सूतक में नित्य-नैमित्तिक अथवा काम्य कर्म करता है, उसके द्वारा पहले किये गये नित्य-नैमित्तिक आदि कर्म विनष्ट हो जाते हैं। व्रती, मन्त्रपूत, अग्निहोत्री ब्राह्मण, ब्रह्मनिष्ठ, यती और राजा – इन्हें सूतक नहीं लगता।

विवाह, उत्सव अथवा यज्ञ में मरणाशौच हो जाने पर उस अशौच की प्रवृत्ति के पूर्व बनाया हुआ अन्न भोजन करने योग्य होता है – ऎसा मनु ने कहा है। सूतक ना जानने के कारन जो व्यक्ति सूतक वाले घर से अन्नादि कुछ ग्रहण करता है, वह दोषी नहीं होता, किंतु याचक को देने वाला दोष का भागी होता है। जो सूतक को छिपाकर ब्राह्मण को अन्न देता है, वह दाता तथा सूतक को जानकर भी जो ब्राह्मण सूतकान्न का भोजन करता है, वे दोनों ही दोषी होते हैं।

इसलिए सूतक से शुद्धि प्राप्त करने के लिए पिता का सपिण्डन-श्राद्ध करना चाहिए तभी वह मृतक पितृगणों के साथ पितृलोक में जाता है। तत्त्वदर्शी मुनियों ने बारहवें दिन, तीन पक्ष में, छ: मास में अथवा एक वर्ष पूर्ण होने पर सपिण्डीकरन करने के लिए कहता हूँ।कलियुग में धार्मिक भावना के अनित्य होने से, पुरुषों की आयु क्षीण होने से और शरीर की अस्थिरता के कारण बारहवें दिन ही सपिण्डीकरण कर लेना प्रशस्त है। गृहस्थ के मरने पर व्रतबन्ध, उत्सव आदि, व्रत, उद्यापन तथा विवाहादि कृत्य नहीं होते। जब तक पिण्डमेलन नहीं होता अर्थात पितरों में पिण्ड मिला नहीं दिया जाता या सपिण्डीकरण-श्राद्ध नहीं हो जाता तब तक उसके यहाँ से भिक्षु भिक्षा भी नहीं ग्रहण करता, अतिथि उसके यहाँ सत्कार नहीं ग्रहण करता और नित्य-नैमित्तिक कर्मों का भी लोप रहता है।

कर्म का लोप होने से दोष का भागी होना पड़ता है इसलिए चाहे निरग्निक हो या सार्ग्निक (अग्निहोत्री) बारहवें दिन सपिण्डन कर देना चाहिए। सभी तीर्थों में स्नान आदि करने और सभी यज्ञों का अनुष्ठान करने से जो फल प्राप्त होता है, वही फल बारहवें दिन सपिण्डन करने से प्राप्त होता है। अत: स्नान करके मृतावस्था में गोमय से लेपन करके पुत्र को शास्त्रोक्त विधि से सपिण्डन श्राद्ध करना चाहिए। पाद्य, अर्घ्य, आचमनीय आदि से विश्वे देवों का पूजन करे और असद्गति के पितरों के लिए भूमि में विकिर देकर हाथ-पाँव धोकर पुन: आचमन करें तब वसु, रुद्र और आदित्यस्वरूप पिता, पितामह तथा प्रपितामह को क्रमश: एक-एक अर्थात तीन पिण्ड प्रदान करें और चौथा पिण्ड मृतक को प्रदान करें। चन्दन, तुलसीपत्र, धूप-दीप, सुन्दर भोजन, ताम्बूल, सुन्दर वस्त्र तथा दक्षिणा आदि से पूजन करें।

तदनन्तर सुवर्ण की शलाका से प्रेत के पिण्ड को तीन भागों में विभक्त करके पितामह आदि के पिण्डों में पृथक-पृथक उसका मेलन करें अर्थात एक भाग पितामह के पिण्ड में, दूसरा भाग प्रपितामह के पिण्ड में तथा तीसरा भाग वृद्ध प्रपितामह के पिण्ड में मिलाएँ। हे तार्क्ष्य ! मेरा मत है कि माता के पिण्ड का मेलन पितामही आदि के पिण्ड के साथ और पिता के पिण्ड का मेलन पितामह आदि के पिण्ड के साथ करके सपिण्डीकरण-श्राद्ध संपन्न करना चाहिए।

जिसके पिता की मृत्यु हो गई हो और पितामह जीवित हों, उसे प्रपितामहादि पूर्व पुरुषों को तीन पिण्ड प्रदान करना चाहिए और पितृपिण्ड को तीन भागों में विभक्त करके (प्रपितामह आदि) उन्हीं के साथ मेलन करें। माता की मृत्यु हो जाने पर पितामही जीवित हो तो माता के सपिण्डन-श्राद्ध में भी पितृ-सपिण्डन की भाँति प्रपितामही आदि मे मातृपिण्ड का मेलन करना चाहिए अथवा पितृपिण्ड को मेरे पिण्ड (विष्णु जी के) में और मातृपिण्ड को महालक्ष्मी पिण्ड में मिलाएँ। पुत्रहीन स्त्री का सपिण्डनादि श्राद्ध उसके पति को करना चाहिए और उसका सपिण्डीकरण उसकी सास आदि के साथ होना चाहिए। एक मतानुसार विधवा स्त्री का सपिण्डीकरण पति, श्वसुर और वृद्ध श्वसुर के साथ करना चाहिए। हे तार्क्ष्य ! यह मेरा मत नहीं है। विधवा स्त्री का सपिण्डन पति के साथ होने योग्य है। हे काश्यप ! यदि पति और पत्नी एक ही चिता पर आरुढ़ हुए हों तो तृण को बीच में रखकर शवसुरादि के पिण्ड के साथ स्त्री के पिण्ड का मेलन करना चाहिए।

एक चिता पर माता-पिता का दाह संस्कार किये जाने पर एक ही पुत्र पहले पिता के उद्देश्य से पिण्डदान करके स्नान करे, तदनन्तर अपनी सती माता का पिण्डदानन करके पुन: स्नान करे। यदि दस दिन के अन्तर्गत किसी सती ने अग्नि प्रवेश किया है तो उसका शय्यादान और सपिण्डन आदि कृत्य उसी दिन करना चाहिए, जिस दिन पति का किया जाए। हे गरुड़ ! सपिण्डिकरण करने के अनन्तर पितरों का तर्पण करे और इस क्रिया में वेदमन्त्रों से समन्वित स्वधाकार का उच्चारण करे।

इसके पश्चात अतिथि को भोजन कराएँ और हन्तकार प्रदान करें। ऎसा करने से पितर, मुनिगण, देवता तथा दानव तृप्त होते हैं। भिक्षा एक ग्रास के बराबर होती है, पुष्कल चार ग्रास के बराबर होता है और चार पुष्कलों (सोलह ग्रास) का एक हन्तकार होता है। सपिण्डीकरण में ब्राह्मणों के चरणों की पूजा चन्दन-अक्षत से करनी चाहिए और पितरों की अ़ायतृप्ति के लिये ब्राह्मण को दान देना चाहिए।

वर्ष भर जीविका का निर्वाह करने योग्य घृत, अन्न, सुवर्ण, रजत, सुन्दर गौ, अश्व, गज, रथ और भूमिका आचार्य को दान करना चाहिए। इसके बाद स्वस्तिवाचनपूर्वक मन्त्रों से कुंकुम, अक्षत और नैवेद्यादि के द्वारा ग्रहों, देवी और विनायक की पूजा करनी चाहिए। इसके बाद आचार्य मन्त्रोच्चारण करते हुए यजमान का अभिषेक करे और हाथ में रक्षासूत्र बाँधकर मन्त्र से पवित्र अक्षत प्रदान करें।

तदनन्तर विविध प्रकार के सुस्वादु मिष्टान्नों से ब्राह्मणों को भोजन कराएँ और फिर दक्षिणा सहित अन्न एवं जलयुक्त बारह घट प्रदान करें” तदनन्तर ब्राह्माणि को वर्ण क्रम से अपनी शुद्धि हेतु क्रमश: जल, शस्त्र, कोड़े फर डण्डे का स्पर्श करना चाहिए अर्थात ब्राह्मण जल का, क्षत्रिय शस्त्र का, वैश्य कोड़े का तथा शूद्र डण्डे का स्पर्श करे। ऎसा करने से वे शुद्ध हो जाते हैं। इस प्रकार सपिण्डन-श्राद्ध करके क्रिया करते समय पहने गये वस्त्रों का त्याग कर दें। इसके बाद श्वेत वर्ण के वस्त्र को धारण करके शय्यादान करें।

इन्द्र सहित सभी देवता शय्यादान की प्रशंसा करते हैं, अत: मृतक के उद्देश्य से उसकी मृत्यु के बाद अथवा जीवनकाल में भी शय्या प्रदान करनी चाहिए। शय्या सुदृढ़ काष्ठ की सुन्दर एवं विचित्र चित्रों से चित्रित, दृढ़, रेशमी सूत्रों से बनी हुई तथा स्वर्णपत्रों से अलंकृत हो। श्वेत रुई के गद्दे, सुन्दर तकिये तथा चादर से युक्त हो तथा पुष्प, गन्ध आदि द्रव्यों से सुवासित हो। वह सुन्दर बन्धनों से भली भाँति बँधी हुई हो और पर्याप्त विशाल हो तथा सुख प्रदान करने वाली हो – ऎसी शय्या को बनाकर आस्तरणयुक्त (कुश या दरी-चादरयुक्त) भूमि पर रखें। उस शय्या के चारों ओर छाता, चाँदी का दीपालय, चँवर, आसन और पात्र, झारी या कलश, गड़ुआ, दर्पण, पाँच रंगों वाला चँदवा तथा शयनोपयोगी और सभी सामग्रियों को यथास्थान स्थापित करें। उस शय्या के ऊपर सभी प्रकार के आभूषण, आयुध तथा वस्त्र से युक्त स्वर्ण की श्रीलक्ष्मी-नारायण की मूर्त्ति स्थापित करें।

सौभाग्यवती स्त्री के लिये दी जाने वाली शय्या के साथ पूर्वोक्त वस्तुओं के अतिरिक्त कज्जल, महावर, कुंकुम, स्त्रियोचित वस्त्र, आभूषण तथा सौभाग्य-द्रव्य आदि सब कुछ प्रदान करें। तदनन्तर सपत्नीक ब्राह्मण को गन्ध-पुष्पादि से अलंकृत करके ब्राह्मणी को कर्णाभरण, अंगूठी और सोने के कण्ठ सूत्र से विभूषित करें। उसके बाद ब्राह्मण को साफा, दुपट्टा और कुर्ता पहनाकर श्रीलक्ष्मी-नारायण मूर्ति के आगे सुख शय्या पर बिठाए।

कुंकुम और पुष्पमाला आदि से श्रीलक्ष्मी-नारायण की भली भाँति पूजा करें। तदनन्तर लोकपाल, नवग्रह, देवी और विनायक की पूजा करें। उत्तराभिमुख होकर अंजलि में पुष्प लेकर ब्राह्मण के सामने स्थित होकर इस मन्त्र का उच्चारण करें – हे कृष्ण ! जैसे क्षीरसागर में आपकी शय्या है, वैसे ही जन्म-जन्मान्तर में भी मेरी शय्या सूनी न हो। इस प्रकार प्रार्थना करके विप्र और श्रीलक्ष्मी-नारायण को पुष्पांजलि चढ़ाकर संकल्पपूर्वक उपस्कर (सभी सामग्रियों) के साथ व्रतोपदेशक, ब्रह्मवादी गुरु को शय्या का दान दे और कहे – “हे ब्राह्मण ! इस शय्या को ग्रहण करो” – ब्राह्मण को ‘कोSदात्कस्मा अदात्कामोSदात्कामायादात् । कामो दाता काम: प्रतिग्रहीता कामैतत्ते ।।’ (यजु. ७।४८), यह मन्त्र कहते हुए ग्रहण करें। इसके बाद शय्या पर स्थित ब्राह्मण को, लक्ष्मी और नारायण की प्रतिमा को हिलाएँ, तदनन्तर प्रदक्षिणा और प्रणाम करके उन्हें विसर्जित करें।

यदि पर्याप्त धन-संपत्ति हो तो शय्या में सुखपूर्वक शयन करने के लिए सभी प्रकार के उपकरणों से युक्त अत्यन्त सुन्दर गृहदान भी करें। जो जीवितावस्था में अपने हाथ से शय्यादान करता है, वह जीते हुए ही पर्वकाल में वृषोत्सर्ग भी करे। एक शय्या एक ही ब्राह्मण को देनी चाहिए। बहुत ब्राह्मणों को एक शय्या कदापि नहीं देनी चाहिए। यदि वह शय्या विभक्त अथवा विक्रय करने के लिए दी जाती है तो वह दाता के अध:पतन का कारण बनती है।

सत्पात्र को शय्यादान करने से वांछित फल की प्राप्ति होती है और पिता तथा दान देने वाला पुत्र – दोनों इस लोक और परलोक में मुदित होते हैं। शय्यादान के प्रताप से दाता दिव्य इन्द्रलोक में अथवा सूर्यपुत्र यम के कोल में पहुँचता है, इसमें संशय नहीं है। श्रेष्ठ विमान पर आरुढ़ होकर अप्सरागणों से सेवित दाता प्रलयपर्यन्त आतंकरहित होकर स्वर्ग में स्थित रहता है। सभी तीर्थों में तथा सभी पर्व दिनों में जो भी पुण्यकार्य किये जाते हैं, उन सभी से अधिक पुण्य शय्यादान के द्वारा प्राप्त होता है। इस प्रकार पुत्र को शय्यादान करके पददान देना चाहिए। पददान के विषय में मैं तुम्हें यथावत बतलाता हूँ, सुनो। छाता, जूते, वस्त्र, अँगूठी, कमण्डलु, आसन तथा पंचपात्र – ये सात वस्तुएँ पद कही गई हैं।

दण्ड, ताम्रपत्र, आमान्न (कच्चा अन्न), भोजन, अर्घ्यपात्र और यज्ञोपवीत को मिलाकर पद की सम्पूर्णता होती है। इस प्रकार शक्ति के अनुसार तेरह पददानों की व्यवस्था करके बारहवें दिन तेरह ब्राह्मणों को पददान करना चाहिए। इस पददान से धार्मिक पुरुष सद्गति को प्राप्त होते हैं। यममार्ग में गये हुए जीवों के लिए पददान सुख प्रदान करने वाला होता है। वहाँ यममार्ग में अत्यन्त प्रचण्ड आतप होता है, जिससे अम्नुष्य जलता है। छाता दान करने से उसके सिर पर सुन्दर छाया हो जाती है। जो जूता दान करते हैं, वे अत्यन्त कण्टकाकीर्ण यमलोक के मार्ग में अश्व पर चढ़कर जाते हैं। हे खेचर! वहाँ यममार्ग में शीत, गरमी और वायु से अत्यन्त घोर कष्ट मिलता है। वस्त्रदान के प्रभाव से जीव सुखपूर्वक उस मार्ग को तय कर लेता है।

यम के मार्ग में माहभयंकर और विकराल तथा काले और पीले वर्ण के यमदूत मुद्रिका प्रदान करने से जीव को पीड़ा नहीं देते हैं। कमण्डलु का दान करने से अत्यन्त धूप से परिपूर्ण, वायुरहित और जलविहीन यममार्ग में जाने वाला वह प्यासा जीव प्यास लगने पर जल पीता है। मृत व्यक्ति के उद्देश्य से जो ताम्र का जल पात्र देता है, उसे एक हजार प्रपादान का फल अवश्य ही प्राप्त होता है। ब्राह्मण को सम्यक्-रूप से आसन और भोजन देने पर यममार्ग में चलता हुआ जीव धीरे-धीरे सुखपूर्वक पाथेय (भोज्य-पदार्थों) का उपभोग करता है।

इस प्रकार सपिण्डन के दिन विधानपूर्वक दान दे करके बहुत-से ब्राह्मणों को तथा चाण्डाल आदि को भी भोजन देना चाहिए। इसके बाद वर्ष के पूर्व ही बारहवें दिन सपिण्डन करने पर भी प्रत्येक मास जलकुम्भ और पिण्डदान करना चाहिए।

हे खग ! प्रेत कार्य को छोड़कर अन्य किसी कर्म का पुन: अनुष्ठान नहीं किया जाता, किंतु प्रेत की अक्षयतृप्ति के लिये पुन:-पुन: पिण्डदानादि करना चाहिए। अत: मैं विशेष तिथि पर म्रत्यु होने वाले जीव के मासिक, वार्षिक और पाक्षिक श्राद्ध के विषय में कुछ विशेष बात कहूँगा। पूर्णमासी तिथि पर जो मरता है उसका ऊनमासिक श्राद्ध चतुर्थी तिथि को होता है और जिसकी मृत्यु चतुर्थी तिथि को हुई है, उसका ऊनमासिक श्राद्ध नवमी तिथि को होता है। नवमी तिथि को जिसकी म्रत्यु हुई है, उसका ऊनमासिक श्राद्ध रिक्ता तिथि – चतुर्दशी को होता है। इस प्रकार पाक्षिक श्राद्ध बीसवें दिन करना चाहिए।

यदि एक ही मास में दो संक्रांतियाँ हों तो दो महीनों का श्राद्ध मलमास में ही करना चाहिए। यदि एक ही मास में दो मास हों तो उस मास के ही वे दोनों पक्ष और वे ही तीस तिथियाँ उन दोनों महीनों की मानी जाएगी। मलमास में पड़ने वाले उन दोनों मासों के मासिक श्राद्ध के विषय में विद्वानों को यह व्यवस्था सोचनी चाहिए कि श्राद्ध-तिथि के दिन पूर्वार्द्ध में प्रथम मास का श्राद्ध करें और द्वितीयार्द्ध में दोपहर के बाद दूसरे मास का श्राद्ध करें। हे खग ! संक्रान्ति रहित मास (मलमास) में भी सपिण्डीकरण तथा मासिक और प्रथम वार्षिक श्राद्ध करना चाहिए। यदि वर्ष पूर्ण होने के मध्य में अधिमास आता है तो तेरह महीने पूर्ण होने के अनन्तर प्रेत का वार्षिक श्राद्ध करना चाहिए।

संक्रांति रहित मास में पिण्ड रहित श्राद्ध (आम श्राद्ध) और संक्रांतियुक्त मास में पिण्डयुक्त श्राद्ध करना चाहिए। इस प्रकार प्रथम वार्षिक श्राद्ध को (मलमास तथा उसके बाद आने वाले शुद्ध मास – तेरहवें मास) दोनों ही मासों में करना चाहिए। इस प्रकार वर्ष पूर्ण होने पर वार्षिक श्राद्ध करना चाहिए और वार्षिक श्राद्ध की तिथि को विशेष रूप से ब्राह्मणों को भोजन कराना चाहिए।

एक वर्ष पूर्ण हो जाने पर श्राद्ध में हमेशा तीन पिण्ड दान करना चाहिए। एकोद्दिष्ट श्राद्ध नहीं करना चाहिए। ऎसा करने वाला पितृघातक होता है। तीर्थश्राद्ध, गयाश्राद्ध तथा गजच्छाया योग में, युगादि तिथियों तथा ग्रहण में किया जाने वाला पितृश्राद्ध वर्ष के अंदर नहीं करना चाहिए। हे खगेश्वर ! पितृभक्ति से प्रेरित हो करके पुत्र को एक वर्ष के अनन्तर ही गया श्राद्ध करना चाहिए। गया श्राद्ध करने से पितर भवसागर से मुक्त हो जाते हैं और भगवान गदाधर की कृपा से वे परम गति को प्राप्त होते हैं। गया के विष्णुपद तीर्थ में तुलसी की मंजरी से भगवान विष्णु की पादुका का पूजन करना चाहिए और उसके आलवाल आदि तीर्थों में यथाक्रम पिण्डदान करना चाहिए।

जो व्यक्ति गयाशिर में शमी के पत्ते के समान प्रमाण वाले पिण्ड को देता है, वह सातों गोत्रों के अपने एक – सौ – एक पुरुषों का उद्धार करता है। कुल को आनन्दित करने वाला जो पुत्र गया में जाकर श्राद्ध करता है, पितरों को तुष्टि देने के कारण उसका जन्म सफल हो जाता है। हे खगेश्वर ! यह सुना जाता है कि देव-पितरों ने मनु के पुत्र इक्ष्वाकु को कलापवन में यह गाथा सुनाई थी – क्या हमारे कुल में ऎसे कोई सन्मार्गगामी पुत्र होगें, जो गया में जाकर आदरपूर्वक हम लोगों को पिण्ड प्रदान करेगें? हे तार्क्ष्य ! इस प्रकार जो पुत्र पितरों की आमुष्मिक (परलोक संबंधी) क्रिया करता है, वह सुखी होकर कौशिक के पुत्रों (कौशिक के सात पुत्रों की कथा मत्स्यपुराण, हरिवंशपुराण तथा पद्मपुराण आदि में विस्तार से दी गई है) की भाँति मुक्त हो जाता है। हे तार्क्ष्य ! भरद्वाज के सात पुत्र पितृश्राद्ध के हेतु गोवध करके भी सात जन्मपंपराओं को भोग करके पितरों के प्रसाद से मुक्त हो गये।

कौशिक के वे सातों पुत्र प्रथम जन्म में दशार्ण देश में सात व्याधों के रूप में उत्पन्न हुए थे। इसके बाद अगले जन्म में वे कालंजर पर्वत पर मृग के रूप में उत्पन्न हुए। फिर शरद्द्वीप में चक्रवात के रुप में उनकी उत्पत्ति हुई, अगले जन्म में मानसरोवर में हंस के रूप में उत्पन्न हुए। वे ही कुरुक्षेत्र में वेदपारगामी ब्राह्मण के रुप में उत्पन्न हुए और पितरों के प्रति भक्तिभाव रखने के कारण वे ब्राह्मणपुत्र मुक्त हो गये। इसलिए पूरे प्रयत्न से मनुष्य को पितृभक्त होना चाहिए। पितृभक्ति के कारण मनुष्य इस लोक तथा परलोक में भी सुखी होता है। हे तार्क्ष्य ! यह सब और्ध्वदैहिक क्रिया हमने तुमसे कही। यह कृत्य पुत्र की कामना को पूर्ण करने वाला, पुण्यप्रद तथा पिता को मुक्ति प्रदान करने वाला है। जो कोई निर्धन मनुष्य भी इस कथा को सुनता है, वह भी पाप से मुक्त होकर पितरों के निमित्त दिये जाने वाले दान का फल प्राप्त करता है। जो मनुष्य मेरे द्वारा कहे गये श्राद्धों एवं दानों को विधिपूर्वक करता है और गरुड़ पुराण की कथा को सुनता है, उसके फल को सुनो –

पिता उसको सत्पुत्र प्रदान करता है, पितामह उसे गोधन देते हैं, उसके प्रपितामह उसे बहुविध धन-संपत्ति प्रदान करते हैं और वृद्ध प्रपितामह तृप्त होकर विपुल अन्न आदि प्रदान करते हैं। इस प्रकार श्राद्ध से तृप्त होकर सभी पितर पुत्र को वांछित फल देते हैं और धर्ममार्ग से धर्मराज के प्रासाद में जाकर वे धर्मराज की सभा में आदरपूर्वक विराजमान रहते हैं।

सूतजी ने कहा – इस प्रकार श्रीविष्णु जी से और्ध्वदैहिक श्राद्ध-दानादिविषयक माहात्म्य सुनकर गरुड़जी को अपार हर्ष हुआ।

।।इस प्रकार गरुड़पुराण के अन्तर्गत सारोद्धार में “सपिण्डनादि-सर्वकर्मनिरुपण” नामक तेरहवाँ अध्याय पूरा हुआ।।

Leave a Reply

Your email address will not be published. Required fields are marked *