अथ ऋग्वेदोक्तं देवीसूक्तं मंत्र Ath Rigvedoktam Devisuktam Mantra

1

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमि॓न्द्राग्नी अहमश्विनोभा ॥1॥

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमु॒त पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ये॑ ‍ यजमानाय सुन्वते ॥2॥

अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भू~र्या॓वेशयन्तीम् ॥3॥

मया सो अन्नमत्ति यो विपश्य॑ति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधि श्रुतं श्रद्धिवं ते वदामि ॥4॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥5॥

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥6॥

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥7॥

अहमेव वात इव प्रवा॓म्या-रभ॑माणा भुवनानि विश्वा॓ ।
परो दिवापर एना पृथिव्यै-तावती महिना सम्बभूव ॥8॥

ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
॥तत् सत् ॥

1 thought on “अथ ऋग्वेदोक्तं देवीसूक्तं मंत्र Ath Rigvedoktam Devisuktam Mantra

Leave a Reply

Your email address will not be published. Required fields are marked *