भुवनेश्वरी हृदय स्तोत्र || Bhuvaneshvari Hriday Stotra

0

इस भुवनेश्वरी हृदयस्तोत्र को एकाग्रचित्त होकर जो पढ़ता है उस पर देवी प्रसन्न होकर उसे धन, धान्य, आयुष्य तथा पुण्य देती है ।

श्रीभुवनेश्वरीहृदयम्

श्रीभुवनेश्वरीहृदयम्

श्रीगणेशाय नमः ।

श्रीउमामहेश्वराभ्यां नमः ।

देव्युवाच ।

भगवन् ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् ।

यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १॥

यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।

तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २॥

देवी बोली : हे भगवन्‌ ! आप मुझे वह स्तोत्र बताइये जो सभी इच्छाओं को पूर्ण कर सके तथा जिसके सुनने मात्र से अन्य कुछ सुनने के लिए शेष न रहे। यदि आपकी मुझ पर प्रीति है और मुझ पर आपको कृपा करनी है तो हे ब्रह्मन्‌! जो संसार में पवित्र है उसे मुझे आप बतलायें।

ईश्वर उवाच ।

श्रृणुदेवि प्रवक्ष्यामि सर्वकामप्रसाधनम् ।

हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३॥

ईश्वर बोले : हे देवि! मैं समस्त कामनाओं को पूर्ण करनेवाले, यशस्कर भुवनेश्वरी हृदय स्तोत्र को कहूंगा-

अथ श्रीभुवनेश्वरी हृदयस्तोत्रम्

विनियोगः ।

ॐ अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिऋषिः ।

गायत्री छन्दः । श्रीभुवनेश्ववरी देवता ।

हकारो बीजम् । ईकारः शक्तिः । रेफः कीलकम् ।

सकलमनोवाञ्छितसिद्धयर्थे पाठे जपे विनियोगः ॥

हृदयादिषडङ्गन्यासः

ॐ ह्रीं हृदयाय नमः ।

ॐ श्रीं शिरसे स्वाहा ।

ॐ ऐं शिखायै वषट् ।

ॐ ह्रीं कवचाय हुं ।

ॐ श्रीं नेत्रत्रयाय वौषट् ।

ॐ ऐं अस्त्राय फट् ।

इति हृदयादिषडङ्गन्यासः ॥

करन्यासः

ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।

ॐ श्रीं तर्जनीभ्यां नमः ।

ॐ ऐं मध्यमाभ्यां नमः ।

ॐ ह्रीं अनामिकाभ्यां नमः ।

ॐ श्रीं कनिष्ठिकाभ्यां नमः ।

ॐ ऐं करतलकरपृष्ठाभ्यां नमः ।

इति करन्यासः ॥

अथ ध्यानम् ।

ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं

देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीम् ।

शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातैर्मायामाद्यां

विशिष्टां भवभवभुवनां भूभवा भारभूमिम् ॥ ४॥

इति ध्यानम् ॥

श्रीभुवनेश्वरीहृदयस्तोत्रम्

यदाज्ञया यो जगदाद्यशेषं सृजत्यजः श्रीपतिरौरसं वा ।

बिभर्ति संहन्ति भवस्तदन्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५॥

जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् ।

जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६॥

हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा ।

विधिस्ततोऽन्धे विदधार यत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७॥

न विद्यते क्वापि तु जन्म यस्या न वा स्थितिः सान्ततिकीह यस्याः ।

न वा निरोधेऽखिलकर्म यस्या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८॥

कटाक्षमोक्षाचरणोग्रवित्ता निवेशितार्णा करुणार्द्रचित्ता ।

सुभक्तये एति समीप्सितं या भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९॥

यतो जगज्जन्म बभूव योनेस्तदेव मध्ये प्रतिपाति या वा ।

तदत्ति यान्तेऽखिलमुग्रकाली भजामहे श्रीभुवनेश्वरीं ताम् ॥ १०॥

सुषुप्तिकाले जनमध्ययन्त्या यया जनः स्वप्नमवैति किञ्चित् ।

प्रबुद्ध्यते जाग्रति जीव एष भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११॥

दयास्फुरत्कोरकटाक्षलाभान्नैकत्र यस्याः प्रलभन्ति सिद्धाः ।

कवित्वमीशित्वमपि स्वतन्त्रा भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२॥

लसन्मुखाम्भोरुहमुत्स्फुरन्तं हृदि प्रणिध्याय दिशि स्फुरन्तः ।

यस्याः कृपार्द्रं प्रविकाशयन्ति भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३॥

यदानुरागानुगतालिचित्राश्चिरन्तनप्रेमपरिप्लुताङ्गाः ।

सुनिर्भयाः सन्ति प्रमुद्य यस्याः भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४॥

हरिर्विरञ्चिर्हर ईशितारः पुरोऽवतिष्ठन्ति प्रपन्नभङ्गाः ।

यस्याः समिच्छन्ति सदानुकूल्यं भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५॥

मनुं यदीयं हरमग्निसंस्थं ततश्च वामश्रुतिचन्द्रसक्तम् ।

जपन्ति ये स्युर्हि सुवन्दितास्ते भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६॥

प्रसीदतु प्रेमरसार्द्रचित्ता सदा हि सा श्रीभुवनेश्ववरी मे ।

कृपाकटाक्षेण कुबेरकल्पा भवन्ति यस्याः पदभक्तिभाजः ॥ १७॥

मुदा सुपाठ्यं भुवनेश्वरीयं सदा सतां स्तोत्रमिदं सुसेव्यम् ।

सुखप्रदं स्यात्कलिकल्मषघ्नं सुश्रृण्वतां सम्पठतां प्रशस्यम् ॥ १८॥

श्रीभुवनेश्वरी हृदयस्तोत्रम् फलश्रुति:

एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।

भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९॥

ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।

नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २०॥

इस हदयस्तोत्र को एकाग्रचित्त होकर जो पढ़ता है उसकी इष्टदेवी भुवनेश्वरी प्रसन्न होकर उसे धन, धान्य, आयुष्य, पुण्य तथा पुण्यमति, नैष्ठिकी देवभक्ति तथा विशेष रूप से गुरुभक्ति देती है ।

पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।

पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१॥

पूर्णिमा को, चतुर्दशी को और विशेषरूप से मंगलवार को देवमन्दिर में इस स्तोत्र को यत्नपूर्वक पढ़ना चाहिए।

यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।

सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२॥

जहां कहीं भी इस स्तोत्र का पाठ किया जाय वहाँ अवश्य फल मिलता है। सभी स्थानों पर देवेशी के इस स्तोत्र को पवित्र होकर ही पढ़ना चाहिए।

॥ इति नीलसरस्वतीतन्त्रे भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे श्रीभुवनेश्वरी हृदयस्तोत्रं समाप्तम् ॥

इस प्रकार श्रीभुवनेश्वरी हृदय स्तोत्र समाप्त हुआ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *