BhuvanMandle Navayugamudayatu || भुवनमण्डले नवयुगमुदयतु
भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।
सुविवेकमयं स्वानन्दमयम् ॥धृ॥
तमोमयं जन जीवनमधुना निष्क्रियताऽऽलस्य ग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध लोभमोहाभिहतम् ।
भक्तिज्ञानकर्मविज्ञानै: भवतु सात्विकोद्योतमयम् ॥१॥
वह्निवायुजल बल विवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुर्वाणम् ।
दीक्षुविकीर्णं मनुजकुलमिदं घटयतुचैक कुटुम्बमयम् ॥२॥
सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥३॥
जीवे जीवे शिवस्यरूपं सदा भवयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥४॥