चन्द्र अष्टाविंशति नाम स्तोत्रम् || Chandra Ashtavinshati Naam Stotram
चन्द्र देव के इस चन्द्राष्टाविंशतिनामस्तोत्रम् अर्थात् २८ नाम के जाप से चन्द्र से सम्बंधित कष्टों का निवारण होता है और सभी सुखों कि प्राप्ति के साथ ही साधक कि समस्त मनोकामना सिद्ध होती है। यहाँ इस स्तोत्र के साथ ही इनकी नामावली भी पाठकों के लाभार्थ दिया जा रहा है।
|| चन्द्राष्टाविंशतिनामस्तोत्रम् ||
अस्य श्रीचन्द्राष्टाविंशतिनामस्तोत्रस्य गौतम ऋषिः,
सोमो देवता, विराट् छन्दः, चन्द्रप्रीत्यर्थे जपे विनियोगः ॥
चन्द्रस्य श्रृणु नामानि शुभदानि महीपते ।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १॥
सुधाकरश्च सोमश्च ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २॥
शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥ ३॥
जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुशिरश्चूडामणिर्विभुः ॥ ४॥
तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥ ५॥
तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६॥
॥ इति श्रीचन्द्राष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥
|| चन्द्राष्टाविंशतिनामावलिः ||
ॐ सुधाकराय नमः । ॐ सोमाय नमः । ॐ ग्लावे नमः ।
ॐ अब्जाय (अजाय) नमः । ॐ कुमुदप्रियाय नमः । ॐ लोकप्रियाय नमः ।
ॐ शुभ्रभान्वे नमः । ॐ चन्द्रमाय नमः । ॐ रोहिणीपतये नमः ।
ॐ शशिने नमः । ॐ हिमकराय नमः । ॐ राजसे नमः ।
ॐ द्विजराजसे नमः । ॐ निशाकराय नमः । ॐ आत्रेयाय नमः ।
ॐ इन्दवे नमः । ॐ शीतांशवेउ नमः । ॐ ओषधीशाय नमः ।
ॐ कलानिधये नमः । ॐ जैवातृकाय नमः । ॐ रमाभ्रात्रे नमः ।
ॐ क्षीरोदार्णवसम्भवाय नमः । ॐ नक्षत्रनायकाय नमः ।
ॐ शम्भुशिराय नमः । ॐ चूडामणये नमः । ॐ विभवे नमः ।
ॐ तापहर्त्रे नमः । ॐ नभोदीपाय नमः । २८
॥ इति श्रीचन्द्राष्टाविंशतिनामावलिः समाप्ता ॥
चन्द्राष्टाविंशतिनामस्तोत्रम् समाप्त ॥