चतुःश्लोकी भगवत | Chatuhshloki Bhagvatam

0

|| श्रीभगवानुवाच ||

ज्ञानं परमगुह्यं में यद्विज्ञानसमन्वितम् |

सरहस्यं तदङ्गं च गृहाण गदितं मया ||

यावानहं यथाभावो यद्रूपगुणकर्मकः |

तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ||

अहमेवासमेवाग्रे नान्यद्यन्नदसत्परम् |

पश्चादहं यदेतच्च योऽवशिष्येन सोऽस्म्यहम् ||

ऋतेऽर्थं यत्प्रतीयेन न प्रतीयेन चात्मनि |

तद्विद्यादान्मनो मायां यथाऽऽभासो यथा तमः ||

यथा महान्ति भूतानि भूतेषुच्चावचेष्वनु |

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ||

एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः |

अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ||

एतन्मतं समातिष्ठ परमेण समाधिना |

भवान कल्पविकल्पेषु न विमुह्यति कर्हिचित् ||

|| इति श्रीमद्भागवते महापुराणे अष्टादशसाहस्र्यां संहितायां वैयासिक्या दितीयस्कन्धे नवमे अध्याये भग्वद्ब्रह्म सम्वादे चतुःश्लोकी भागवतं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *