धनदा स्तोत्रम्, Dhanada Stotram

0

श्री शिव उवाच

अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम् |

यथोक्तं सर्वतन्त्रेषु इदानीं तत् प्रकाशितम् ||

नमः सर्वस्वरुपेण नमः कल्याणदायिके |

महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ||

महाभोगप्रदे देवि महाकामप्रपूरिते |

सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ||

ब्रह्मरुपे सदानन्दे सदानन्दस्वरुपिणि |

द्रुतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ||

उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले |

शिवतत्त्वप्रदे देवि धनदायै नमोऽस्तुते ||

विष्णुरुपे विश्वमते विश्वपालनकारिणि |

महासत्वगुणाक्रान्ते धनदायै नमोऽस्तुते ||

शिवरुपे शिवानन्दे कारणानन्द – विग्रहे |

विश्वसंहाररुपे च धनदायै नमोऽस्तुते ||

पञ्चतत्त्वस्वरुपे च पञ्चाचार – सदारते |

साधकाभीष्टदे देविधनदायै नमोऽस्तुते ||

इदं स्तोत्रं मया प्रोक्तं साधकाभिष्टदायकम् |

यः पठेत् पाठयेद्वापि स लभेत् सकल फलम् ||

त्रिसन्ध्यं यः पठेन्नित्यं स्तोत्रमेतत् समाहितः |

स सिद्धिं लभते शीघ्रं नात्र कार्या विचारणा ||

इदं रहस्यं परमं स्तोत्रं परमदुर्लभम् |

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ||

अप्रकाश्यमिदं देवि गोपनीयं परात्परम् |

प्रपठेन्नात्र सन्देहो धनवान् जायतेऽचिरात् ||

|| इति धनदास्तोत्रम् सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *