श्री गंगा महिमा स्तोत्र || Ganga Mahimna Stotram
श्री गंगा महिमा स्तोत्र || Shri Ganga Mahimna Stotram
महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः ।
तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥
समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता ।
पुनः शम्भोश्चूडासितकुसुममालायिततनुः सुरान्त्रीन्सत्कर्त्तुं किल जगति जागर्षि जननि ॥ २ ॥
तवैश्वर्यं स्वर्योषिदमलशिरोगुच्छविगल-त्प्रसूनव्यालोलन्मधुकरसमुद्गीतचरिते ।
न चेशो भूतेशः पुनरथ न शेषो न च गुरुः परिज्ञातुं वक्तुं जननि मम धृष्टा मुखरता ॥ ३ ॥
अनङ्गारेरङ्गे कृतरमणरङ्गे शुचितया समाभग्नासङ्गे विहितभवभङ्गे तु भजताम् ।
विनश्यद्व्यासङ्गे प्रणतजनतायाः स्वपयसा तरङ्गप्रोत्तुङ्गे ननु जगति गङ्गे विजयसे ॥ ४ ॥
हरन्ती सन्तापं त्रिविधमथ पापं जलजुषां दिशन्ती सन्देशं क्षपितभवलेशं सुकृतिनाम् ।
तुदन्ती नैराश्यं कलुषमथ दास्यं प्रददती विलोलत्कल्लोले विबुधवरवीथिर्विजयसे ॥ ५ ॥
ददाना वात्सल्यं शमितशमशल्यं स्वपयसा दधाना तारुण्यं तरुणकरुणापूर्णहृदया ।
वसाना कौशेयं शशिनिभममेयं भगवति पुनाना त्रैलोक्यं जयसि ननु भागीरथि शुभे ॥ ६ ॥
निराकारं केचित्प्रणिदधत आवर्जितधियो नराकारं चान्ये प्रणतिरतिधन्ये स्वमनसि ।
त्रिभिस्तापैस्तप्ताः पुनरथ परं केचन वयं सदा नीराकारं सुरनदि भजामस्तव पदम् ॥ ७ ॥
न जाने वागीशं नहि किल शचीशं न च गुहम् न जाने गौरीशं नहि किल गणेशं नहि गुरुम् ।
न चैवान्यान्देवान् प्रियविविधसेवान् त्रिपथगे सदा रामाभिन्नं ननु जननि जाने तव जलम् ॥ ८ ॥
पचत्कायक्लेशं विविधविधकर्मभ्रममलं हरन्मायालेशं रविसुतनिदेशं विफलयन् ।
द्रुतं विघ्नद्विघ्नान् कुटिलकलिनिघ्नान् विकलय-न्महामोहं गङ्गे जयति भुवि ते जाह्नवि जलम् ॥ ९ ॥
उदन्वन्नैराश्यं दमयितुमथाविष्कृततनो-र्मनोर्वंशं हंसार्पितविमलकीर्तिं प्रथयितुम् ।
सुधासारं सारस्वतहतविकारं श्रुतमयं तवापूर्वं पूर्वं प्रणिगदति गङ्गे जलमलम् ॥ १० ॥
किमेतत्सौन्दर्यं धृतवपुरथो बालशशिनः किमाहो माधुर्यं जनकतनयाप्रेममहितम् ।
द्रुतब्रह्मीभूतं परममथ पूतं वसुमती-विराजत्पीयूषं शुचि वहति गाङ्गं जलमहो ॥ ११ ॥
मुनीन्द्रा योगीन्द्रा यमनियमनिष्ठाः श्रुतिपरा विरक्ताः संन्यस्ताः सततमनुरक्ता दृढधियः ।
वसन्तस्त्वत्तीरे मलयजसमीरे सुमनसो लभन्ते तत्तत्त्वं सुविमलपरब्रह्ममहितम् ॥ १२ ॥
विरक्ता वैराग्यं परममथ भाग्यं सुकृतिनः सुसन्तस्सन्तोषं विमलगुणपोषं मुनिगणा ।
नृपा राज्यं प्राज्यं गृहिण इतरे भूरिविभवं लभन्ते वै त्वत्तस्त्वमसि सुरधेनुस्तनुभृताम् ॥ १३ ॥
गतैश्वर्यान् दीनान् कपिलमुनिकोपाग्निशलभान् निमग्नाञ्छोकाब्धौ सगरनृपतेर्वीक्ष्य तनयान् ।
कृपासिन्धुर्भागीरथविनतभावोग्रतपसा द्रुतायाता गङ्गा ननु सकरुणं मातृहृदयम् ॥ १४ ॥
मुरारेः पादाब्जस्स्रुतपरममारन्दममलं द्रुतं व्योम्नो वेगान्मधुमथनपादोदकमिति ।
दधौ मूर्ध्ना शर्वो विलुलितजटाजूटचषके ततो लोके ख्यातस्त्रिदशनदि गङ्गाधर इति ॥ १५ ॥
पतन्ती पातित्यं क्षपयितुमहो गाञ्च गगना-द्गता गङ्गेत्येवं जननि भुवने ख्यातिमगमः ।
ततः पीत्वोन्मुक्ता परमयमिना जह्नुमुनिना अतस्त्वां वै प्राहुर्विबुधनिकरा जह्नुतनयाम् ॥ १६ ॥
सुधाधारा धाराहतभवविकारा प्रतिपृष-द्वहन्ती राजन्ती रजतसुममालेव धरणेः ।
सुवत्से श्रीवत्साम्बुजचरणसौन्दर्यसुषमा जयत्येषा गङ्गा तरलिततरङ्गा त्रिपथगा ॥ १७ ॥
क्वचिद्विष्णोः पार्श्वे कृतकमनकन्यावपुरहो क्वचिद्धातुः पात्रे गुणगरिमसर्वस्वममलम् ।
क्वचित्कान्ता शान्ता पुरहरजटाजूटलसिता विधत्से सौभाग्यं त्रिषु त्रिविधरूपा त्रिपथगे ॥ १८ ॥
द्रवन्ती त्वं वेगादभिजलनिधिं गोमुखतला-त्सहस्रैर्धाराणां निहतशतशैलेन्द्रशिखरा ।
समुद्धर्तुं मातर्निरयपतितान् राजतनयान् स्ववत्सान् वात्सल्यात् किल गवसि गौरीसहचरी ॥ १९ ॥
प्रयाता शैलेन्द्राद्विमलितहरिद्वारधरणी प्रयागे सद्रागे समगतमुदा सूर्यसुतया ।
ततोऽकार्षीः काशीं सुकृतसुखराशिं स्वपयसा महीयांसं मातस्तव च महिमा कं न कुरुते ॥ २० ॥
महापापास्तापापहतमनसो मन्दमतयः क्षपाटा वाचाटाः पतितपतिता मोहमलिनाः ।
त्वयि स्नात्वा शुद्धा विमलवपुषो विष्णुसदनं व्रजन्त्येतेऽगम्योऽमरनदि तव स्नानमहिमा ॥ २१ ॥
रटन्तः साम्रेडं हरहरहरेतिध्वनिमहो कटन्तः कारुण्यं क्षपितनिजभक्ताघनिकराः ।
वटन्तो वात्सल्यं तुलितरघुनाथैकयशसो जयन्त्येते गाङ्गा दिशि दिशि तरङ्गास्तरलिताः ॥ २२ ॥
वसन्गङ्गातीरे कृततृणकुटीरे प्रतिदिनं निमज्जंस्त्वत्तीरे शिशिरितसमीरेऽमृतजलम् ।
मुदाचामन्सीतापतिपदसरोजार्चनपरो यमाद्रामानन्दः कथमुपरि भीतो भुवि भवेत् ॥ २३ ॥
तवाद्भिः स्यां विष्णुर्नहि नहि तदा स्यान्मम पदे अथो शम्भुश्चेन्नो शिवसमतया स्यामहमघी ।
अतो याचे भागीरथि पुनरहं देवि भवतीं वसन् त्वत्तीरेषु स्वमनसि भजेयं रघुपतिम् ॥ २४ ॥
कदा गङ्गातीरे मलयजसमीरे किल वसन् स्मरन्सीतारामौ पुलकिततनुः साश्रुनयनः ।
अये मातर्गङ्गे रघुपतिपदाम्भोरुहरतिं प्रदेहीत्यायाचे ननु निमिषमेष्यामि ससुखम् ॥ २५ ॥
विशेष्यं सोद्देश्यं यदनघमनन्तं चिदचिदो विशिष्टं यत्ताभ्यां श्रुतिगणगिरा गीतचरितम् ।
यदद्वैतं ब्रह्म प्रथितमथ यद्व्यापकमिदं सदेतत्तत्तत्त्वं त्वमसि किल गङ्गे भगवति ॥ २६ ॥
त्वमग्निस्त्वं वायुस्त्वमसि रविचन्द्रौ त्वमसि भू-स्त्वमापस्त्वं व्योम त्वमसि शुचिबुद्धिस्त्वमु मनः ।
त्वमात्मा त्वं चित्तं त्वमसि मम गौस्त्वं किल पर-स्त्वमेतत्सर्वं मे भगवति सतत्त्वं जगदहो ॥ २७ ॥
विलोलत्कल्लोलां हृतकुमतिदोलां शुचिपयः पवित्रत्पातालां क्षपितजनकालां कलजलाम् ।
द्रवब्रह्मीभूतां सगरसुतसंसारतरणीं नमामि त्वां गङ्गां तरलिततरङ्गां स्वजननीम् ॥ २८ ॥
नमो धर्मिष्ठायै निरुपममहिम्नेऽस्तु च नमो नमो नर्मिष्ठायै नरपतिनरिम्णेऽस्तु च नमः ।
नमो नेदिष्ठायै लघुमतिलघिम्नेऽस्तु च नमो नमस्ते गङ्गायै गिरिगतिगरिम्णेऽस्तु च नमः ॥ २९ ॥
विबुधसरिते नित्यख्यात्यै नमोऽस्तु नमोऽस्तु ते विमलरजसे वेदस्तुत्यै नमोऽस्तु नमोऽस्तु ते ।
धवलमहसे विद्याभूत्यै नमोऽस्तु नमोऽस्तु ते अमृतपयसे गङ्गादेव्यै नमोऽस्तु नमोऽस्तु ते ॥ ३० ॥
क्व च कलिमललीना पापपीना मतिर्मे क्व च परमपवित्रं जाह्नवीसच्चरित्रम् ।
त्वदनु चरितभक्तिः प्रैरयन्मां हि रातुं जननि तव पदाब्जे पद्यपुष्पोपहारम् ॥ ३१ ॥
हरिचरणसरोजस्यन्दभूताञ्च भूयः श्रितविधिजलपात्रां चन्द्रचूडार्यमौलिम् ।
नृपरतिरथ भूमौ दर्शमायास गङ्गा-मनुयुगमिह यत्नो भाति भागीरथोऽयम् ॥ ३२ ॥
वन्दे भगीरथं भूपं भग्नसंसारकूपकम् ।
यश्चानिनाय गङ्गाख्यं वसुधायां सुधारसम् ॥ ३३ ॥
गङ्गास्नानात्परं स्नानं नास्ति नास्तीह भूतले ।
नास्ति कापि स्तुतिर्गङ्गामहिम्नस्तोत्रतः परा ॥ ३४ ॥
यः पठेच्छृणुयाद्वापि गङ्गाग्रे श्रद्धयान्वितः ।
सर्वपापैर्विनिर्मुक्तो व्रजेद्विष्णोः परं पदम् ॥ ३५ ॥
षडर्णान्न परो मन्त्रो महिम्नो न परा स्तुतिः ।
श्रीरामान्न परो देवो गङ्गाया न परा नदी ॥ ३६ ॥
श्रीरामचन्द्रगुणगायकरामभद्रा- चार्येण देवगिरि गीतमनुस्मरेद्यः ।
स्तोत्रं सुभक्तिकलितस्तनुतां प्रसन्ना गङ्गामहिम्नमिति तस्य सुखानि गङ्गा ॥ ३७ ॥