गरुडपुराण सारोद्धार अध्याय ८ || Garud Puran Saroddhar Adhyay 8 || आतुरदाननिरूपण

0

गरुडपुराण-सारोद्धार (प्रेतकल्प) में आपने इससे पूर्व में गरुडपुराण सारोद्धार अध्याय ७ को पढ़ा। अब आगे इस गंथ के मूल पाठ को भावार्थ सहित गरुडपुराण सारोद्धार अध्याय ८ पढेंगे, इस अध्याय में आतुरकालिक (मरणकालिक) दान एवं मरणकाल में भगवन्नाम-स्मरण का माहात्म्य, अष्ट महादानों का फल तथा धर्माचरण की महिमा का वर्णन है।

गरुडपुराण सारोद्धार अध्याय ८- मूल पाठ

गरुड उवाच आमुष्मिकी क्रियां सर्वां वद सुकृतिनां मम । कर्तव्या सा यथा पुत्रैस्तथा च कथय प्रभो॥१॥

श्रीभगवानुवाच साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै । धार्मिकार्ह च यत्कृत्यं तत्सर्वं कथयामि ते॥२॥

सुकृती वार्धके दृष्ट्वा शरीरं व्याधिसंयुतम् । प्रतिकूलान् ग्रहांश्चैव प्राणघोषस्य चाश्रुतिम्॥३॥

तदा स्वमरणं ज्ञात्वा निर्भयः स्यादतन्द्रितः। अज्ञातज्ञातपापानां प्रायश्चित्तं समाचरेत्॥४॥

यदा स्यादातुरः कालस्तदा स्नानं समारभेत् । पूजनं कारयेद्विष्णोः शालग्रामस्वरूपिणः॥५॥

अर्चयेद्गन्धपुष्पैश्च कुंकुमैस्तुलसीदलैः। धूपैर्दीपैश्च नैवेद्यैर्बहुभिर्मोदकादिभिः॥६॥

दत्त्वा च दक्षिणां विप्रान्नैवेद्यादेव भोजयेत् । अष्टाक्षरं जपेन्मन्त्रं द्वादशाक्षरमेव च॥७॥

संस्मरेच्छृणुयाच्चैव विष्णोर्नाम शिवस्य च । हरेर्नाम हरेत् पापं नृणां श्रवणगोचरम्॥८॥

रोगिणोऽन्तिकमासाद्य शोचनीयं न बान्धवैः। स्मरणीयं पवित्रं मे नामधेयं मुहुर्मुहुः॥९॥

मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की तथैव च॥१०॥

एतानि दश नामानि स्मर्तव्यानि सदा बुधैः । समीपे रोगिणो ब्रूयुर्बान्धवास्ते प्रकीर्तिताः॥११॥

कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । तस्य भस्मीभवन्त्याशु महापातककोटयः॥१२॥

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन्॥१३॥

हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः॥१४॥

हरेर्नाम्नि च या शक्तिः पापनिर्हरणे द्विज । तावत्कर्तुं समर्थो न पातकं पातकी जनः॥१५॥

किङ्करेभ्यो यमः प्राह नयध्वं नास्तिकं जनम् । नैवानयत भो दूता हरिनामस्मरं नरम्॥१६॥

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥१७॥

कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे।

भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान्॥१८॥

तानानयध्वमसतो विमुखान्मुकुन्दपादारविन्दमकरन्दरसादजस्त्रम्।

निष्किञ्चनैः परमहंसकुलै रसज्ञैर्जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान्॥१९॥

जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम्।

कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान्॥२०॥

तस्मात् संकीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि पक्षीन्द्र विद्ध्यैकान्तिकनिष्कृतिम्॥ २१॥

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति दुर्बुद्धिं सुराकुम्भमिवापगाः॥२२॥

कृष्णनाम्ना न नरकं पश्यन्ति गतकिल्बिषाः। यमं च तद्भटांश्चैव स्वप्नेऽपि न कदाचन ॥२३॥

मांसास्थिरक्तवत्काये वैतरण्यां पतेन्न सः। योऽन्ते दद्याद् द्विजेभ्यश्च नन्दनन्दनगामिति॥२४॥

अतः स्मरेन्महाविष्णोर्नाम पापौघनाशनम् । गीतासहस्रनामानि पठेद्वा शृणुयादपि ॥२५॥

एकादशीव्रतं गीता गङ्गाम्बु तुलसीदलम् । विष्णोः पादाम्बुनामानि मरणे मुक्तिदानि च ॥२६॥

ततः संकल्पयेदनं सघृतं च सकाञ्चनम् । सवत्सा धेनवो देयाः श्रोत्रियाय द्विजातये॥२७॥

अन्ते जनो यद्ददाति स्वल्पं वा यदि वा बहु । तदक्षयं भवेत् तार्क्ष्य यत्पुत्रश्चानुमोदते॥२८॥

अन्तकाले तु सत्पुत्रः सर्वदानानि दापयेत् । एतदर्थं सुतो लोके प्रार्थ्यते धर्मकोविदैः॥२९॥

भूमिष्ठं पितरं दृष्ट्वा अर्धोन्मीलितलोचनम् । पुत्रैस्तृष्णा न कर्तव्या तद्धने पूर्वसंचिते॥३०॥

स तद्ददाति सत्पुत्रो यावज्जीवत्यसौ चिरम् । अतिवाहस्तु तन्मार्गे दुःखं न लभते यतः॥३१॥

आतुरे चोपरागे च द्वयं दानं विशिष्यते । अतोऽवश्यं प्रदातव्यमष्टदानं तिलादिकम्॥३२॥

तिला लोहं हिरण्यं च कार्पासो लवणं तथा । सप्तधान्यं क्षितिर्गावो ह्येकैकं पावनं स्मृतम्॥३३॥

एतदष्टमहादानं महापातकनाशनम् । अन्तकाले प्रदातव्यं शृणु तस्य च सत्फलम्॥३४॥

मम स्वेदसमुद्भूताः पवित्रास्त्रिविधास्तिलाः। असुरा दानवा दैत्यास्तृप्यन्ति तिलदानतः॥३५॥

तिलाः श्वेतास्तथा कृष्णा दानेन कपिलास्तिलाः। संहरन्ति त्रिधा पापं वाङ्मनःकायसंचितम्॥३६॥

लौहदानं च दातव्यं भूमियुक्तेन पाणिना । यमसीमां न चाजोति न इच्छेत् तस्य वर्त्मनि॥३७॥

कुठारो मुसलो दण्डः खड्गश्च छुरिका तथा । शस्त्राणि यमहस्ते च निग्रहे पापकर्मणाम्॥३८॥

यमायुधानां संतुष्ट्यै दानमेतदुदाहृतम् । तस्माद्दद्याल्लोहदानं यमलोके सुखावहम्॥ ३९॥

उरणः श्यामसूत्रश्च शण्डामर्कोऽप्यदुम्बरः। शेषम्बलो महादूता लोहदानात् सुखप्रदाः॥४०॥

शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् । दत्तेन तेन तुष्यन्ति भूर्भुवःस्वर्गवासिनः॥४१॥

ब्रह्माद्या ऋषयो देवा धर्मराजसभासदाः। स्वर्णदानेन संतुष्टा भवन्ति वरदायकाः॥४२॥

तस्माद् देयं स्वर्णदानं प्रेतोद्धरणहेतवे । न याति यमलोकं स स्वर्गतिं तात गच्छति॥४३॥

चिरं वसेत् सत्यलोके ततो राजा भवेदिह । रूपवान् धार्मिको वाग्मी श्रीमानतुलविक्रमः॥४४॥

कार्पासस्य च दानेन दूतेभ्यो न भयं भवेत् । लवणं दीयते यच्च तेन नैव भयं यमात्॥४५॥

अयोलवणकार्पासतिलकाञ्चनदानतः ।चित्रगुप्तादयस्तुष्टा यमस्य पुरवासिनः॥४६॥

सप्तधान्यप्रदानेन प्रीतो धर्मध्वजो भवेत् । तुष्टा भवन्ति येऽन्येऽपि त्रिषु द्वारेष्वधिष्ठिताः॥४७॥

व्रीहयो यवगोधमा मदगा माषा: प्रियङ्गवः। चणकाः सप्तमा ज्ञेयाः सप्तधान्यमदाहृतम्॥४८॥

गोचर्ममानं वसुधा दत्ता पात्रे विधानतः। पुनाति ब्रह्महत्याया दृष्टमेतन्मुनीश्वरैः॥४९॥

न व्रतेभ्यो न तीर्थेभ्यो नान्यदानाद् विनश्यति । राज्ये कृतं महापापं भूमिदानाद्विलीयते॥५०॥

पृथिवीं सस्यसम्पूर्णां यो ददाति द्विजातये । स प्रयातीन्द्रभुवने पूज्यमानः सुरासुरैः॥५१॥

अत्यल्पफलदानि स्युरन्यदानानि काश्यप । पृथिवीदानजं पुण्यमहन्यहनि वर्धते॥५२॥

यो भूत्वा भूमिपो भूमिं नो ददाति द्विजातये । स नाप्नोति कुटी ग्रामे दरिद्री स्याद्भवे भवे॥५३॥

अदानाद्भूमिदानस्य भूपतित्वाभिमानतः। निवसेन्नरके यावच्छेषो धारयते धराम्॥५४॥

तस्माद्भूमीश्वरो भूमिदानमेव प्रदापयेत् । अन्येषां भूमिदानार्थं गोदानं कथितं मया॥५५॥

ततोऽन्तधेनुर्दातव्या रुद्रधेनुं प्रदापयेत् । ऋणधेनुं ततो दत्त्वा मोक्षधेनुं प्रदापयेत्॥५६॥

दद्याद्वैतरणीं धेनुं विशेषविधिना खग । तारयन्ति नरं गावस्त्रिविधाच्चैव पातकात्॥५७॥

बालत्वे यच्च कौमारे यत्पापं यौवने कृतम् । वयःपरिणतौ यच्च यच्च जन्मान्तरेष्वपि॥५८॥

यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः। सन्ध्ययोर्यत्कृतं पापं कायेन मनसा गिरा॥५९॥

दत्त्वा धेनुं सकृद्वापि कपिलां क्षीरसंयुताम् । सोपस्करां सवत्सां च तपोवृत्तसमन्विते॥६०॥

ब्राह्मणे वेदविदुषे सर्वपापैः प्रमुच्यते । उद्धरेदन्तकाले सा दातारं पापसंचयात्॥६१॥

एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोः शतम् । सहस्रं म्रियमाणस्य दत्तं चित्तविवर्जितम्॥६२॥

मृतस्यैतत् पुनर्लक्षं विधिपूतं च तत्समम् । तीर्थपात्रसमोपेतं दानमेकं च लक्षधा॥६३॥

पात्रे दत्तं च यद्दानं तल्लक्षगुणितं भवेत् । दातुः फलमनन्तं स्यान्न पात्रस्य प्रतिग्रहः॥६४॥

स्वाध्यायहोमसंयुक्तः परपाकविवर्जितः। रत्नपूर्णामपि महीं प्रतिगृह्य न लिप्यते॥६५॥

विषशीतापही मन्त्रवती किं दोषभागिनौ । अपात्रे सा च गौर्दत्ता दातारं नरकं नयेत्॥६६॥

कुलैकशतसंयुक्तं गृहीतारं तु पातयेत् । नापात्रे विदुषा देया ह्यात्मनः श्रेय इच्छता॥६७॥

एका टेकस्य दातव्या बहूनां न कदाचन। सा विक्रीता विभक्ता वा दहत्यासप्तमं कुलम्॥६८॥

कथिता या मया पूर्वं तव वैतरणी नदी । तस्या युद्धरणोपायं गोदानं कथयामि ते ॥६९॥

कृष्णां वा पाटलां वाऽपि धेनुं कुर्यादलंकृताम् । स्वर्णशृङ्गी रौप्यखुरीं कांस्यपात्रोपदोहिनीम्॥७०॥

कृष्णवस्त्रयुगच्छन्नां कण्ठघण्टासमन्विताम् । कार्पासोपरि संस्थाप्य ताम्रपात्रं सचैलकम्॥७१॥

यमं हैमं न्यसेत् तत्र लौहदण्डसमन्वितम् । कांस्यपात्रे घृतं कृत्वा सर्वं तस्योपरि न्यसेत्॥७२॥

नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् । गर्तं विधाय सजलं कृत्वा तस्मिन् क्षिपेत्तरीम्॥७३॥

तस्योपरि स्थितां कृत्वा सूर्यदेहसमुद्भवाम् । धेनुं संकल्पयेत् तत्र यथाशास्त्रविधानतः॥७४॥

सालङ्काराणि वस्त्राणि ब्राह्मणाय प्रकल्पयेत् । पूजां कुर्याद्विधानेन गन्धपुष्पाक्षतादिभिः॥७५॥

पुच्छं संगृह्य धेनोस्तु नावमाश्रित्य पादतः। पुरस्कृत्य ततो विप्रमिमं मन्त्रमुदीरयेत्॥७६॥

भवसागरमग्नानां शोकतापोर्मिदुःखिनाम् । त्राता त्वं हि जगन्नाथ शरणागतवत्सल॥७७॥

विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर । सदक्षिणां मया दत्तां तुभ्यं वैतरणी नमः॥७८॥

यममार्गे महाघोरे तां नदीं शतयोजनाम् । ततुकामो ददाम्येतां तुभ्यं वैतरणी नमः॥७९॥

धेनुके मां प्रतीक्षस्व यमद्वारमहापथे । उत्तारणार्थं देवेशि वैतरण्ये नमोऽस्तु ते॥८०॥

गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्॥८१॥

या लक्ष्मीः सर्वभूतानां या च देवे प्रतिष्ठिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु॥८२॥

इति मन्त्रैश्च सम्प्रार्थ्य साञ्जलिर्धेनुकां यमम् । सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत्॥८३॥

एवं दद्याद्विधानेन यो गां वैतरणी खग। स याति धर्ममार्गेण धर्मराजसभान्तरे॥८४॥

स्वस्थावस्थशरीरे तु वैतरण्यां व्रतं चरेत् । देया च विदुषा धेनुस्तां नदी तर्तुमिच्छता॥८५॥

सा नायाति महामार्गे गोदानेन नदी खग। तस्मादवश्यं दातव्यं पुण्यकालेषु सर्वदा॥८६॥

गङ्गादिसर्वतीर्थेषु ब्राह्मणावसथेषु च । चन्द्रसूर्योपरागेषु संक्रान्तौ दर्शवासरे॥८७॥

अयने विषुवे चैव व्यतीपाते युगादिषु । अन्येषु पुण्यकालेषु दद्याद्गोदानमुत्तमम्॥८८॥

यदैव जायते श्रद्धा पात्रं सम्प्राप्यते यदा । स एव पुण्यकालः स्याद्यतः सम्पत्तिरस्थिरा॥८९॥

अस्थिराणि शरीराणि विभवो नैव शाश्वतः। नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंचयः॥९०॥

आत्मवित्तानुसारेण तत्र दानमनन्तकम् । देयं विप्राय विदुषे स्वात्मनः श्रेय इच्छता॥९१॥

अल्पेनापि हि वित्तेन स्वहस्तेनात्मने कृतम् । तदक्षय्यं भवेद्दानं तत्कालं चोपतिष्ठति ॥ ९२॥

गृहीतदानपाथेयः सुखं याति महाध्वनि। अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि॥ ९३॥

यानि यानि च दानानि दत्तानि भुवि मानवैः। यमलोकपथे तानि घुपतिष्ठन्ति चाग्रतः॥९४॥

महापुण्यप्रभावेण मानुषं जन्म लभ्यते । यस्तत्प्राप्य चरेद्धर्मं स याति परमां गतिम्॥९५॥

अविज्ञाय नरो धर्मं दुःखमायाति याति च । मनुष्यजन्मसाफल्यं केवलं धर्मसेवनम्॥९६॥

धनपुत्रकलत्रादि शरीरमपि बान्धवाः । अनित्यं सर्वमेवेदं तस्माद्धर्मं समाचरेत्॥९७॥

तावबन्धुः पिता तावद्यावज्जीवति मानवः। मृतानामन्तरं ज्ञात्वा क्षणात् स्नेहो निवर्तते॥९८॥

आत्मैव ह्यात्मनो बन्धुरिति विद्यान्मुहुर्मुहुः। जीवन्नपीति संचिन्त्य मृतानां कः प्रदास्यति॥९९॥

एवं जानन्निदं सर्वं स्वहस्तेनैव दीयताम् । अनित्यं जीवितं यस्मात् पश्चात् कोऽपि न दास्यति॥१००॥

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति॥१०१॥

गृहादर्था निवर्तन्ते श्मशानात्सर्वबान्धवाः। शुभाशुभं कृतं कर्म गच्छन्तमनुगच्छति॥१०२॥

शरीरं वह्निना दग्धं कृतं कर्म सहस्थितम् । पुण्यं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः ॥१०३॥

न कोऽपि कस्यचिद्वन्धुः संसारे दुःखसागरे । आयाति कर्मसम्बन्धाद्याति कर्मक्षये पुनः॥१०४॥

मातृपितृसुतभ्रातृबन्धुदारादिसङ्गमः ।प्रपायामिव जन्तूनां नद्यां काष्ठौघवच्चलः॥१०५॥

कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा । संसारे नास्ति कः कस्य स्वयं तस्मात् प्रदीयताम्॥१०६॥

आत्मायत्तं धनं यावत् तावद्विप्रं समर्पयेत् । पराधीने धने जाते न किंचिद्वक्तुमुत्सहेत्॥१०७॥

पूर्वजन्मकृताद्दानादत्र लब्धं धनं बहु । तस्मादेवं परिज्ञाय धर्मार्थं दीयतां धनम्॥१०८॥

धर्मात् प्रजायतेऽर्थश्च धर्मात् कामोऽभिजायते । धर्म एवापवर्गाय तस्माद्धर्मं समाचरेत्॥१०९॥

श्रद्धया धार्यते धर्मो बहुभिर्नार्थराशिभिः। निष्किञ्चना हि मुनयः श्रद्धावन्तो दिवंगताः॥११०॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रियमात्मनः॥१११॥

तस्मादवश्यं दातव्यं तदा दानं विधानतः। अल्पं वा बहु वेतीमां गणनां नैव कारयेत्॥११२॥

धर्मात्मा च स पुत्रो वै दैवतैरपि पूज्यते । दापयेद्यस्तु दानानि पितरं ह्यातुरं भुवि॥११३॥

पित्रोर्निमित्तं यद्वित्तं पुत्रैः पात्रे समर्पितम् । आत्मापि पावितस्तेन पुत्रपौत्रप्रपौत्रकैः॥११४॥

पितुः शतगुणं पुण्यं सहस्रं मातुरेव च । भगिनीदशसाहस्रं सोदरे दत्तमक्षयम् ॥ ११५॥

न चैवोपद्रवा दातुर्न वा नरकयातनाः । मृत्युकाले न च भयं यमदूतसमुद्भवम्॥११६॥

यदि लोभान्न यच्छन्ति काले ह्यातुरसंज्ञके। मृताः शोचन्ति ते सर्वे कदर्याः पापिनः खग॥११७॥

पुत्राः पौत्राः सहभ्राता सगोत्राः सुहृदस्तु ये । यच्छन्ति नातुरे दानं ब्रह्मजास्ते न संशयः॥११८॥

इति गरुडपुराणे सारोद्धारे आतुरदाननिरूपणो नामाष्टमोऽध्यायः॥८॥

गरुडपुराण सारोद्धार अध्याय ८-भावार्थ

गरुड़ जी ने कहा – हे तार्क्ष्य ! मनुष्यों के हित की दृष्टि से आपने बड़ी उत्तम बात पूछी है। धार्मिक मनुष्य के लिए करने योग्य जो कृत्य हैं, वह सब कुछ मैं तुम्हें कहता हूँ। पुण्यात्मा व्यक्ति वृद्धावस्था के प्राप्त होने पर अपने शरीर को व्याधिग्रस्त तथा ग्रहों की प्रतिकूलता को देखकर और प्राण वायु के नाद न सुनाई पड़ने पर अपने मरण का समय जानकर निर्भय हो जाए और आलस्य का परित्याग कर जाने-अनजाने किये गये पापों के विनाश के लिए प्रायश्चित का आचरण करे।

जब आतुरकाल उपस्थित हो जाए तो स्नान करके शालग्राम स्वरुप भगवान विष्णु की पूजा कराए। गन्ध, पुष्प, कुंकुम, तुलसीदल, धूप, दीप तथा बहुत से मोदक आदि नैवेद्यों को समर्पित करके भगवान की अर्चा करे और विप्रों को दक्षिणा देकर नैवेद्य का ही भोजन कराएँ तथा अष्टाक्षर (ऊँ नमो नारायणाय) अथवा द्वादशाक्षर (ऊँ नमो भगवते वासुदेवाय) मन्त्र का जप करें। भगवान विष्णु और शिव के नाम का स्मरण करें और सुनें, भगवान का नाम कानों से सुनाई पड़ने पर वह मनुष्य के पाप को नष्ट करता है। रोगी के समीप आकर बान्धवों को शोक नहीं करना चाहिए। प्रत्युत मेरे पवित्र नाम का बार-बार स्मरण करना चाहिए।

विद्वान व्यक्ति को, मत्स्य, कूर्म, वराह, नारसिंह, वामन, परशुराम, राम, कृष्ण, बुद्ध और कल्कि (भगवान के ये दस अवतार हैं) – इन दस नामों का सदा स्मरण कीर्तन करना चाहिए। जो व्यक्ति रोगी के समीप उपर्युक्त नामों का कीर्तन करते हैं, वे ही उसके सच्चे बान्धव कहे गये हैं। “कृष्ण” यह मंगलमय नाम जिसकी वाणी से उच्चरित होता है, उसके करोड़ों महापातक तत्काल भस्म हो जाते हैं।

मरणासन्न अवस्था में अपने पुत्र के बहाने से “नारायण” नाम लेकर अजामिल भी भगद्धाम को प्राप्त हो गया तो फिर जो श्रद्धापूर्वक भगवान के नाम का उच्चारण करने वाले हैं, उनके विषय में क्या कहना!! दूषित चित्तवृत्ति वाले व्यक्ति के द्वारा भी स्मरण किये जाने पर भगवान उसके समस्त पापों को नष्ट कर देते हैं, जैसे अनिच्छापूर्वक भी स्पर्श करने पर अग्नि जलाता ही है। हे द्विज ! वासना के सहित पापों का समूल विनाश करने की जितनी शक्ति भगवान नाम में हैं, पातकी मनुष्य उतना पाप करने में समर्थ ही नहीं है।

यमदेव अपने किंकरों से कहते हैं – हे दूतों ! हमारे पास नास्तिकजनों को ले आया करो। भगवान के नाम का स्मरण करने वाले मनुष्यों को मेरे पास मत लाया करो क्योंकि मैं स्वयं अच्युत, केशव, राम, नारायण, कृष्ण, दामोदर, वासुदेव, हरि, श्रीधर, माधव, गोपिकावल्लभ, जानकीनायक रामचन्द्र का भजन करता हूँ। हे दूतों! जो व्यक्ति हे कमलनयन, हे वासुदेव, हे विष्णु, हे धरणीधर, हे अच्युत, हे शंखचक्रपाणि ! आप मेरे शरणदाता हो – ऎसा कहते हैं, उन निष्पाप व्यक्तियों को तुम दूर से ही छोड़ देना। हे दूतों ! जो निष्किंचन और रसज्ञ परमहंसों के द्वारा निरन्तर आस्वादित भगवान मुकुन्द के पादारविन्द-मकरन्द-रस से विमुख हैं अर्थात भगवद भक्ति से विमुख हैं और नरक के मूल गृहस्थी के प्रपंच में तृष्णा से बद्ध हैं, ऎसे असत्पुरुषों को मेरे पास लाया करो।

जिनकी जिह्वा भगवान के गुण और नाम का कीर्तन नहीं करती, चित्त भगवान के चरणाविन्द का स्मरण नहीं करता, सिर एक बार भी भगवान को प्रणाम नहीं करता, ऎसे विष्णु के आराधना-उपासना आदि कृत्यों से रहित असत्पुरुषों को मेरे पास ले आओ। इसलिए हे पक्षीन्द्र ! जगत में मंगल – स्वरूप भगवान विष्णु का कीर्तन ही एकमात्र महान पापों के आत्यन्तिक और ऎकान्तिक निवृत्ति का प्रायश्चित है – ऎसा जानो।

नारायण से पराड्मुख रहने वाले व्यक्तियों के द्वारा किये गये प्रायश्चित्ताचरण भी दुर्बुद्धि प्राणि को उसी प्रकार पवित्र नहीं कर सकते, जैसे मदिरा से भरे घट को गंगाजी – सदृश नदियाँ पवित्र नहीं कर सकतीं। भगवान कृष्ण के नाम स्मरण से पाप नष्ट हो जाने के कारण जीव नरक को नहीं देखते और स्वप्न में भी कभी यम तथा यमदूतों को नहीं देखते।

जो व्यक्ति अन्तकाल में नन्दनन्दन भगवान श्रीकृष्ण के पीछे चलते हैं, ऎसी गाय को ब्राह्मणों को दान देता है, वह माँस, हड्डी और रक्त से परिपूर्ण वैतरणी नडी में गिरता अथवा जो मृत्यु के समय में ‘नन्दनन्दन’ इस प्रकार की वाणी का उच्चारण करता है, शरीर धारण नहीं करता अर्थात मुक्त हो जाता है। अत: पापों के समूह को नष्ट करने वाले महाविष्णु के नाम का स्मरण करना चाहिए अथवा गीत या विष्णुसहस्त्रनाम का पठन अथवा श्रवण करना चाहिए। एकादशी का व्रत, गीता, गंगाजल, तुलसीदल, भगवान विष्णु का चरणामृत और नाम – ये मरणकाल में मुक्ति देने वाले हैं। इसके बाद घृत और सुवर्ण सहित अन्नदान का संकल्प करें। श्रोत्रिय द्विज (वेदपाठी ब्राह्मण) को सवत्सा गौ का दान करें। हे तार्क्ष्य ! जो मनुष्य अन्तकाल में थोड़ा बहुत दान देता है और पुत्र उसका अनुमोदन करता है, वह दान अक्षय होता है।

सत्पुत्र को चाहिए कि अन्तकाल में सभी प्रकार का दान दिलाए, लोक में धर्मज्ञ पुरुष इसीलिए पुत्र के लिए प्रार्थना करते हैं। भूमि पर स्थित, आधी आँखे मूँदे हुए पिता को देखकर पुत्रों को उनके द्वारा पूर्व संचित धन के विषय में तृष्णा नहीं करनी चाहिए। सत्पुत्र के द्वारा दिये गये दान से जब तक उसका पिता जीवित हो तब तक और फिर मृत्यु के अनन्तर आतिवाहिक शरीर से भी परलोक के मर्ग में वह दु:ख नहीं प्राप्त करता।

आतुरकाल और ग्रहणकाल – इन दोनों कालों में दिये गये दान का विशेष महत्व है, इसलिए तिल आदि अष्ट दान अवश्य देने चाहिए। तिल, लोहा, सोना, कपास, नमक, सप्तधान्य (धान, जौ, गेहूँ, उड़द, काकुन या कंगुनी और चना – ये सप्तधान्य कहे जाते हैं), भूमि और गाय – इनमें से एक-एक का दान भी पवित्र करने वाला है। यह अष्ट महादान महापातकों का नाश करने वाला है। अत: अन्तकाल में इसे देना चाहिए। इन दानों का जो उत्तम फल है उसे सुनो – तीन प्रकार के पवित्र तिल मेरे पसीने से उत्पन्न हुए हैं। असुर, दानव और दैत्य तिल दान से तृप्त होते हैं। श्वेत, कृष्ण तथा कपिल (भूरे) वर्ण के तिल का दान वाणी, मन और शरीर के द्वारा किये गये त्रिविध पापों को नष्ट कर देता है।

लोहे का दान भूमि में हाथ रखकर देना चाहिए। ऎसा करने से वह जीव यम सीमा को नहीं प्राप्त होता और यम मार्ग में नहीं जाता। पाप-कर्म करने वाले व्यक्तियों का निग्रह करने के लिए यम के हाथ में कुल्हाड़ी, मूसल, दण्ड, तलवार तथा छुरी – शस्त्र के रुप में रहते हैं। यमराज के आयुधों को संतुष्ट करने के लिए यह लोहे का दान कहा गया है इसलिए यमलोक में सुख देने वाले लोहदान को करना चाहिए।

उरण, श्यामसूत्र, शण्डामर्क, उदुम्बर, शेषम्बल नामक यम के महादूत लोहदान से सुख प्रदान करने वाले होते हैं। हे तार्क्ष्य ! परम गोपनीय और दानों में उत्तम दान को सुनो, जिसके देने से भूलोक, भुवर्लोक (अन्तरिक्ष) और स्वर्गलोक के निवासी अर्थात मनुष्य, भूत-प्रेत तथा देवगण संतुष्ट होते हैं। ब्रह्मा आदि देवता, ऋषिगण तथा धर्मराज के सभासद – स्वर्णदान से संतुष्ट होकर वर प्रदान करने वाले होते हैं। इसलिए प्रेत के उद्धार के लिए स्वर्णदान करना चाहिए। हे तात ! स्वर्ण का दान देने से जीव यमलोक नहीं जाता, उसे स्वर्ग की प्राप्ति होती है।

बहुत काल तक वह सत्यलोक में निवास करता है, तदनन्तर इस लोक में रूपवान, धार्मिक, वाक्पटु, श्रीमान और अतुल पराक्रमी राजा होता है। कपास का दान देने से यमदूतों से भय नहीं होता, लवण का दान से यम से भय नहीं होता। लोहा, नमक, कपास, तुल और स्वर्ण के दान से यमपुर के निवासी चित्रगुप्त आदि संतुष्ट होते हैं। सप्तधान्य प्रदान करने से धर्मराज और यमपुर के तीनों द्वारों पर रहने वाले अन्य द्वारपाल भी प्रसन्न हो जाते हैं।

धान, जौ, गेहूँ, मूँग, उड़द, काकुन या कँगुनी और सातवाँ चना – ये सप्तधान्य कहे गये हैं। जो व्यक्ति गोचर्ममात्र (सो गायें और एक बैल जितनी भूमि पर स्वतंत्र रूप से रह सकें, विचरण कर सकें, उतनी विस्तार वाली भूमि गोचर्म कहलाती है। इसका दान समस्त पापों का नाश करने वाला है) भूमि विधानपूर्वक सत्पात्र को देता है, वह ब्रह्महत्या के पाप से मुक्त होकर पवित्र हो जाता है, ऎसा मुनीश्वरों ने देखा है। राज्य में किया हुआ अर्थात राज्यसंचालन में राजा से होने वाला महापाप न व्रतों से, न तीर्थ सेवन से और न अन्य किसी दान से नष्ट होता है अपितु वह तो केवल भूमि दान से ही विलीन होता है। जो व्यक्ति ब्राह्मण को धान्यपूर्ण पृथिवी का दान करता है, वह देवताओं और असुरों से पूजित होकर इन्द्रलोक में जाता है।

हे गरुड़ ! अन्य दानों का फल अत्यल्प होता है किंतु पृथ्वी दान का पुण्य दिन-प्रतिदिन बढ़ता जाता है। भूमि का स्वामी होकर भी जो ब्राह्मण को भूमि नहीं देता वह जन्मान्तर में किसी ग्राम में एक कुटिया तक भी नहीं प्राप्त करता और जन्म-जन्मान्तर में अर्थात प्रत्येक जन्म में दरिद्र होता है। भूमि का स्वामी होने के अभिमान में जो भूमि का दान नहीं करता, वह तब तक नरक में निवास करता है, जब तक शेष नाग पृथ्वी को धारण करते हैं। इसलिए भूमि के स्वामी को भूमि दान करना ही चाहिए। अन्य व्यक्तियों के लिए भूमि दान के स्थान पर मैंने गोदान का विधान किया है। इसके बाद अन्तधेनु का दान करना चाहिए और रुद्रधेनु देनी चाहिए। तदनन्तर ऋणधेनु देकर मोक्षधेनु का दान करना चाहिए। हे खग ! विशेष विधानपूर्वक वैतरणीधेनु का दान करना चाहिए। दान में दी गई गौएँ मनुष्य को त्रिविध पापों से मुक्त करती हैं।

बाल्यावस्था में, कुमारावस्था में, युवावस्था में, वृद्धावस्था में अथवा दूसरे जन्म में, रात में, प्रात:काल, मध्याह्न, अपराह्ण और दोनों संध्या कालों में शरीर, मन और वाणी से जो पाप किये गये हैं, वे सभी पाप तपस्या और सदाचार से युक्त वेदविद ब्राह्मणों को उपस्करयुक्त (दान सामग्री सहित) सवत्सा और दूध देने वाली कपिला गौ के एक बार दान देने से नष्ट हो जाते हैं। दान में दी गई वह गौ अन्तकाल में गोदान करने वाले व्यक्ति का संचित पापों से उद्धार कर देती है।

स्वस्थचित्तावस्था में दी गई एक गौ, आतुरावस्था में दी गई सौ गाय और मृत्युकाल में चित्तविवर्जित व्यक्ति के द्वारा दी गई एक हजार गाय तथा मरणोत्तर काल में दी गई विधिपूर्वक एक लाख गाय के दान का फल बराबर ही होता है। (यहाँ स्वस्थावस्था में गोदान करने का विशेष महत्व बतलाया गया है) तीर्थ में सत्पात्र को दी गई एक गाय का दान एक लक्ष गोदान के तुल्य होता है।

सत्पात्र में दिया गया दान लक्षगुना होता है। उस दान से दाता को अनन्त फल प्राप्त होता है और दान लेने वाले पात्र को प्रतिग्रह दान लेने का दोष नहीं लगता। स्वाध्याय और होम करने वाला तथा दूसरे के द्वारा पकाए गये अन्न को न खाने वाला अर्थात स्वयं पाकी ब्राह्मण रत्नपूर्ण पृथ्वी का दान लेकर भी प्रतिग्रह दोष से लिप्त नहीं होता। विष और शीत को नष्ट करने वाले मन्त्र और आग भी क्या दोष के भागी होते हैं? अपात्र को दी गई वह गाय दाता को नरक में ले जाती है और अपात्र प्रतिग्रहीता को एक सौ एक पीढ़ी के पुरुषों के सहित नरक में गिराती है। इसलिए अपने कल्याण की इच्छा करने वाले विद्वान व्यक्ति को अपात्र को दान नहीं देना चाहिए।

एक गाय एक ही ब्राह्मण को देनी चाहिए। बहुत ब्राह्मणों को एक गाय कदापि नहीं देनी चाहिए। वह गौ यदि बेची या बाँटी गई तो सात पीढ़ी तक के पुरुषों को जला देती है। हे खगेश्वर ! मैंने तुमसे पहले वैतरणी नदी के विषय में कहा था, उसे पार करने के उपायभूत गोदान के विषय में मैं तुमसे कहता हूँ।

काले अथवा लाल रंग की गाय को सोने के सींग, चाँदी के खुर और काँसे के पात्र की दोहनी के सहित दो काले रंग के वस्त्रों से आच्छादित करें। उसके कण्ठ में घण्टा बाँधे तब कपास के ऊपर वस्त्र सहित ताम्रपात्र को स्थापित करके वहाँ लोहदण्ड सहित सोने की यम मूर्त्ति भी स्थापित करें और काँसे के पात्र में घृत रखकर यह सब ताम्रपात्र के ऊपर रखें। ईख की नींव बनाकर उसे रेशमी सूत्र से बाँधकर, भूमि पर गढ्ढा खोदे एवं उसमें जल भरकर वह ईख की नाव उसमें डाले।

उसके समीप सूर्य की देह से उत्पन्न हुई धेनु को खड़ी करके शास्त्रीय विधि-विधान के अनुसार उसके दान का संकल्प करें। ब्राह्मणों को अलंकार और वस्त्र का दान दें तथा गन्ध, पुष्प, अक्षत आदि से विधानपूर्वक गाय की पूजा करें। गाय की पूँछ को पकड़कर ईख की नाव पर पैर रखकर ब्राह्मण को आगे करके इस मन्त्र को पढ़े –

‘हे जगन्नाथ ! हे शरणागतवत्सल ! भवसागर में डूबे हुए शोक-संताप की लहरों से दु:ख प्राप्त करते हुए जनों के आप ही रक्षक हैं। हे ब्राह्मणश्रेष्ठ ! विष्णुरूप ! भूमिदेव ! आप मेरा उद्धार कीजिए। मैंने दक्षिणा के सहित यह वैतरणी-रूपिणी गाय आपको दी है, आपको नमस्कार है। मैं महाभयावह यम मार्ग में सौ योजन विस्तार वाली उस वैतरणी नदी को पार करने की इच्छा से आपको इस वैतरणी गाय का दान देता हूँ। आपको नमस्कार है।’

हे वैतरणी धेनु ! हे देवेशि ! यमद्वार के महामार्ग में वैतरणी नदी के पार कराने के लिए आप मेरी प्रतीक्षा करना, आपको नमस्कार है। मेरे आगे भी गौएँ हो, मेरे पीछे भी गौएँ हों, मेरे हृदय में भी गौएँ हों और मैं गौओं के मध्य में निवास करुँ। जो लक्ष्मी सभी प्राणियों में प्रतिष्ठित हैं तथा जो देवता में प्रतिष्ठित हैं वे ही धेनुरूपा लक्ष्मी देवी मेरे पाप को नष्ट करें। इस प्रकार मन्त्रों से भली-भाँति प्रार्थना करके हाथ जोड़कर गाय और यम की प्रदक्षिणा कर के सब कुछ ब्राह्मण को प्रदान करें।

हे खग ! इस विधान से जो वैतरणी धेनु का दान करता है, वह धर्म मार्ग से धर्मराज की सभा में जाता है। शरीर की स्वस्थावस्था में ही वैतरणी विषयक व्रत का आचरण कर लेना चाहिए और वैतरणी पार करने की इच्छा से विद्वान को वैतरणी गाय का दान करना चाहिए। हे खग ! वैतरणी गाय का दान करने से महामार्ग में वह नदी नहीं आती इसलिए सर्वदा पुण्यकाल में गोदान करना चाहिए। गंगा आदि सभी तीर्थों में, ब्राह्मणों के निवास स्थानों में, चन्द्र और सूर्यग्रहण काल में, संक्रान्ति में, अमावस्या तिथि में, उत्तरायण और दक्षिणायन (कर्क और मकर संक्रान्तियों) में, विषुव ( अर्थात मेष तथा तुला की संक्रान्ति में), व्यतीपात योग में, युगादि तिथियों में तथा अन्यान्य पुण्यकालों में उत्तम गोदान देना चाहिए।

जब कभी भी श्रद्धा उत्पन्न हो जाए और जब भी दान के लिए सुपात्र प्राप्त हो जाए, वही समय दान के लिए पुण्यकाल है, क्योंकि सम्पत्ति अस्थिर है। शरीर नश्वर है, सम्पत्ति सदा रहने वाली नहीं है और मृत्यु प्रतिक्षण निकट आती जा रही है, इसलिए धर्म का संचय करना चाहिए। अपनी धन-सम्पत्ति के अनुसार किया गया दान अनन्त फलवाला होता है। इसलिए अपने कल्याण की इच्छा रखने वाले व्यक्ति को विद्वान ब्राह्मण को दान देना चाहिए।

अपने हाथ से अपने कल्याण के लिए दिया गया अल्प वित्त वाला वह दान भी अक्षय होता है और उसका फल भी तत्काल प्राप्त होता है। दान रूपी पाथेय को लेकर जीव परलोक के महामार्ग में सुखपूर्वक जाता है अन्यथा दानरुपी पाथेय रहित प्राणि को यममार्ग में क्लेश प्राप्त होता है। पृथ्वी पर मनुष्यों के द्वारा जो-जो दान दिये जाते हैं, यमलोक के मार्ग वे सभी आगे-आगे उपस्थित हो जाते हैं। महान पुण्य के प्रभाव से मनुष्य-जन्म प्राप्त होता है। उस मनुष्य योनि को प्राप्त कर जो व्यक्ति धर्माचरण करता है, वह परमगति को प्राप्त करता है। धर्म को न जानने के कारण व्यक्ति संसार में दु:खपूर्वक जन्म लेता है और मरता है। केवल धर्म के सेवन में ही मनुष्य जीवन की सफलता है।

धन, पुत्र, पत्नी आदि बान्धव और यह शरीर भी सब कुछ अनित्य हैै इसलिए धर्माचरण करना चाहिए। जब तक मनुष्य जीता है तभी तक बन्धु-बान्धव और पिता आदि का संबंध रहता है, मरने के अनन्तर क्षणमात्र में सम्पूर्ण स्नेह संबंध निवृत हो जाता है। जीवितावस्था में अपनी आत्मा ही अपना बन्धु है – ऎसा बार-बार विचार करना चाहिए। मरने के अनन्तर कौन उसके उद्देश्य से दान देगा? ऎसा जानकर अपने हाथ से ही सब कुछ दान देना चाहिए क्योंकि जीवन अनित्य है, बाद में अर्थात उसकी मृत्यु के पश्चात कोई भी उसके लिए दान नहीं देगा। मृत शरीर को काठ और ढेले के समान पृथ्वी पर छोड़कर बन्धु-बान्धव विमुख होकर लौट जाते हैं, केवल धर्म ही उसका अनुगमन करता है। धन-सम्पत्ति घर में ही छूट जाती है, सभी बन्धु-बान्धव श्मशान में छूट जाते हैं किंतु प्राणी के द्वारा किया हुआ शुभाशुभ कर्म परलोक में उसके पीछे-पीछे जाता है।

शरीर आग से जल जाता है किंतु किया हुआ कर्म साथ में रहता है। प्राणि जो कुछ पाप अथवा पुण्य करता है, उसका वह सर्वत्र भोग प्राप्त करता है। इस दु:खपूर्ण संसार सागर में कोई भी किसी का बन्धु नहीं है। प्राणी अपने कर्म संबंध से संसार में आता है और फल भोग से कर्म का क्षय होने पर पुन: चला जाता है अर्थात मृत्यु को प्राप्त हो जाता है।

माता-पिता, पुत्र, भाई, बन्धु और पत्नी आदि का परस्पर मिलन प्याऊ पर एकत्र हुए जन्तुओं के समान अथवा नदी में बहने वाले काष्ठ समूह के समान नितान्त चंचल अर्थात अस्थिर है। किसके पुत्र, किसके पौत्र, किसकी भार्या और किसका धन? संसार में कोई किसी का नहीं है। इसलिए अपने हाथ से स्वयं दान देना चाहिए। जब तक धन अपने अधीन है तब तक ब्राह्मण को दान कर दें क्योंकि धन दूसरे के अधीन हो जाने पर तो दान देने के लिए कहने का साहस भी नहीं होगा।

पूर्व जन्म में किये हुए दान के फलस्वरुप यहाँ बहुत सारा धन प्राप्त हुआ है इसलिए ऎसा जानकर धर्म के लिए धन देना चाहिए। धर्म से अर्थ की प्राप्ति होती है, धर्म से काम की प्राप्ति होती है और धर्म से ही मोक्ष की भी प्राप्ति होती है इसलिए धर्माचरण करना चाहिए। धर्म श्रद्धा से धारण किया जाता है, बहुत सी धन राशि से नहीं। अकिंचन मुनिगण भी श्रद्धावान होकर स्वर्ग को प्राप्त हुए हैं।

जो मनुष्य पत्र, पुष्प, फल अथवा जल मुझे भक्तिभाव से समर्पित करता है, उस संयतात्मा के द्वारा भक्तिपूर्वक दिये गये पदार्थों को मैं प्राप्त करता हूँ। इसलिए विधिविधानपूर्वक अवश्य ही दान देना चाहिए। थोड़ा हो या अधिक इसकी कोई गणना नहीं करनी चाहिए। जो पुत्र पृथ्वी पर पड़े हुए आतुर पिता के द्वारा दान दिलाता है, वह धर्मात्मा पुत्र देवताओं के लिए भी पूजनीय होता है। माता-पिता के निमित्त जो धन पुत्र के द्वारा सत्पात्र को समर्पित किया जाता है, उससे पुत्र, पौत्र और प्रपौत्र के साथ वह व्यक्ति स्वयं भी पवित्र हो जाता है। पिता के उद्देश्य से किये गये दान से हजार गुना, बहन के उद्देश्य से किये गये दान से दस हजार गुना और सहोदर भाई के निमित्त किए गये दान से अनन्त गुना पुण्य प्राप्त होता है।

दान देने वाला उपद्रवग्रस्त नहीं होता, उसे नरक यातना नहीं प्राप्त होती और मृत्युकाल में उसे यमदूतों से भी कोई भय नहीं होता। हे खग ! यदि कोई व्यक्ति लोभ से आतुरकाल में दान नहीं देते वे कंजूस पापी प्राणी मरने के अनन्तर शोकगमन होते हैं। आतुरकाल में आतुर के उद्देश्य से जो पुत्र, पौत्र, सहोदर भाई, सगोत्री और सुहृज्जन दान नहीं देते, वे ब्रह्महत्यारे हैं, इसमें कोई संशय नहीं है।

।।इस प्रकार गरुड़पुराण के अन्तर्गत सारोद्धार में ‘आतुरदाननिरूपण’ नामक आठवाँ अध्याय पूरा हुआ।।

Leave a Reply

Your email address will not be published. Required fields are marked *