गौरी गणेश पूजन विधि || Gauree Ganesh Poojan Vidhi

0

गौरी गणेश पूजन  के पूर्व भाग मे आपने पढ़ा की किसी भी पूजन से पूर्व हम सबसे पहले शारीरिक शुद्धि करते है। उसके उपरांत आचमन,प्राणायाम कर आंतरिक शुद्धि करते हैं। फिर न्यास इस भावना से कि हमारे शरीर के सभी अंगो मे देवों का वास हो गया है और अब हम किसी भी पुजा को करने के अधिकारी हो गयें हैं। इसके बाद अब पूजन प्रारम्भ होता है,कोई भी पूजन हों सबसे पहले गणेश जी और माता गौरी कि पूजन से ही आरंभ होता है।
अतः आप इस भाग में गौरी गणेश का पूजन पढ़ेगे-

भगवान गणेश का ध्यान- यजमान हाथ में अक्षत लेकर गणेश जी ध्यान करे-
गजाननं भूतगणादिसेवितं कपित्थजम्भूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
ॐ भूर्भुवः स्वः श्रीगणेशाय नमः, ध्यानं समर्पयामि । ( अक्षत चढ़ा दे)
भगवती गौरी का ध्यान – अब यजमान हाथ में पुष्प लेकर गौरी माता का ध्यान करे-
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, ध्यानं समर्पयामि ।(हाथ का पुष्प चढ़ादे)
पुनः यजमान हाथ में अक्षत- पुष्प लेकर गौरी गणेश जी ( गणेश जी की दाहिनी ओर गौरी माता) का आवाहन करे ।
भगवान गणेश का आवाहन-
ॐ गणानां त्वा गणपति ँ हवामहे प्रियाणां त्वा प्रियपतिँ हवामहे निधीनां त्वा निधिपतिँ हवामहे वसो मम ।
आहमजानि गर्भधमात्वमजासि गर्भधम् ॥
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष ।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
भगवती गौरी का आवाहन-
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरिमावाहयामि, स्थापयामि, पूजयामि च ।
(हाथ के अक्षत- पुष्प गौरी गणेश जी पर चढ़ा दे )
प्रतिष्ठा – पुनः हाथ में अक्षत लेकर गौरी गणेश जी का मंत्र द्वारा प्रतिष्ठा करे-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ ँसमिमं दधातु ।
विश्वे देवास इह मादयन्तामो३ प्रतिष्ठ ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम् ॥( अक्षत चढ़ादे)
आसन, पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय का पृथक- पृथक मंत्र के लिए श्री गणेश चतुर्थीपूजन देखें-
ॐ भूर्भुवः स्वः श्रीगणेशाय नमः, आसन पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि समर्पयामि ।
दुग्धस्नान – अब गौरी गणेश को निम्न मंत्र द्वारा दूध से स्नान कराये-
ॐ पयः पृथ्वियां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

कामधेनुसमुद्भूतं सर्वेषां जीवनं परमं ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । पयः स्नानं समर्पयामि ।
दधिस्नान – अब दधि से स्नान कराये-
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्राण आयू ँ षि तारिषत् ॥

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । दधिस्नानं समर्पयामि ।
घृतस्नान – अब घृत से स्नान कराये-
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । घृत स्नानं समर्पयामि ।
मधु स्नान – अब मधु से स्नान कराये-
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव ँ रजः । मधु द्यौरस्तु नः पिता ।

पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।
शर्करा स्नान- अब शक्कर या गुड़ से स्नान कराये-
ॐ अपा ँ रसमुद्वयस ँ सूर्यै सन्त ँ समाहितम् ।
अपा ँ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । शर्करास्नानं समर्पयामि ।

हर-एक स्नान उपरांत जल से स्नान(आचमन)कराते जावे।
पंचामृत स्नान- इसके बाद पंचामृत से स्नान कराये-
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥

पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । पञ्चामृतस्नानं समर्पयामि ।
गन्धोदक स्नान- अब गन्धमिश्रित जल से स्नान कराये –
ॐ अ ँ शुना ते अ ँ शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोमामवतु मदाय रसो अच्युतः ॥

मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।
इदं गन्धोदकस्नानं कुङ्कुम्युक्तं च गृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,गन्धोदकस्नानं समर्पयामि ।
शुद्धोदक स्नान – अब शुद्ध जल से स्नान कराये-
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः ।
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । शुद्धोदकस्नानं समर्पयामि ।
आचमन – शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल दे।)
वस्त्र – पहनने योग्य वस्त्र समर्पित करे-
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३मनसा देवयन्तः ।

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । वस्त्रं समर्पयामि ।

आचमन – वस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमन के लिये जल दे)
उपवस्त्र – अब उपवस्त्र या मौलीधागा समर्पित करे –
ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूपथ ँ सं व्ययस्व विभावसो ॥

यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं रक्तसूत्रम् समर्पयामि ।

आचमन – उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।(आचमन के लिये जलदे)
यज्ञोपवीत- इसके बाद यज्ञोपवीत(जनेऊ) समर्पित करें-
ॐ यज्ञोपवीतम् परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
यज्ञोपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । यज्ञोपवीतं समर्पयामि ।

आचमन – यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल दे ।)
चंदन- अब गोपी,मलय,रक्त,अष्ट आदि चंदन अर्पित करे-
ॐ त्वां गन्धर्वा अखनॅंस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत् ॥

श्रीखण्डं चंदनं दिव्यं गन्धढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठं! चन्दनं प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । चन्दनानुलेपनं समर्पयामि ।
अक्षत- अब अक्षत (साबुतचाँवल,जौं या पीलाचाँवल) चढ़ाये-
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥

अक्षताश्च सुरश्रेष्ठ कुङ्कुम्युक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
पुष्पमाला – अब पुष्प व पुष्पमाला समर्पित करे-
ॐ औषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाह्रतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पं च पुष्पमालां समर्पयामि ।
दूर्वा- अब दूब अंकूर सहित (एक प्रकार का घाँस) चढाये-
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।
सिन्दूर- पुनः सिन्दुर अर्पित करे-
ॐ सिन्धोरिव प्राध्वेन शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
सुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । सिन्दूरं समर्पयामि ।
नाना परिमल द्रव्य – अवीर गुलाल,बंदन,कुमकुम आदि चढ़ाये-
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ँ सं परिपातु विश्वतः ॥

अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।
सुगन्धिद्रव्य- इत्र, सुगन्धित तैल आदि अर्पण करे-
ॐ अहिरिव ……………………………………………… विश्वतः ॥

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि ।
धूप – दसांग धूप (हूम) दे-
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
देवानामसि वह्नितम ँ सस्नितमं पप्रितं जुष्टतमं देवहूतमम् ॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।
आचमन – धूपान्ते आचमनीयं जलं समर्पयामि । (आचमन के लिये जल दे ।)
दीप – अगरबत्ती, धूपदीप दिखाये-
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥
ज्योति सूर्यः सूर्यो ज्योतिः स्वाहा ॥

साज्यं चं वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तुते ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।
नैवेद्य – भोग- भक्ष्य योग्य पदार्थ निवेदित करें-
ॐनाभ्या आसीदन्तरिक्ष ँ शीर्ष्णो द्यौःसमवर्तत ।
पद्भयां भूमिर्दिशःश्रोत्रात्तथो लोकाँ२अकल्पयन् ॥

ॐ अमृतोपस्तरणमसि स्वाहा ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ।
‘नैवेद्यान्ते आचमनीयं जलं समर्पयामि’ । (जल समर्पित करे ।)
ऋतुफल- ऋतु अनुसार फल अर्पित करे –
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ँहसः ॥

इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।
‘फलान्ते आचमनीयं जलं समर्पयामि । (आचमनीय जल अर्पित करे।)
करोद्वर्तन – नैवेद्य,फल उपरांत गंध समर्पित कर पूजन करें –
ॐ अ ँशुना ते अ ँशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥

चन्दनं मलयोद्भूतम् कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तन चन्दनं समर्पयामि ।
ताम्बूल- अब सुपारी,इलायची,लौंग मिलाकर ताम्बूल(पान)अर्पितकरे-
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

पुंगीफल महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,मुखवासार्थम् एलालवंग पुंगीफल सहितं ताम्बूलं समर्पयामि ।
दक्षिणा- अब द्रव्य दक्षिणा समर्पित करे-
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
आरती- धूप,दीप,कर्पूर आदि से आरती करे-
ॐ इदं ँहविः प्रजननं मे अस्तु दशवीर ँ सर्वगण ँस्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो असमासु धत्त् ।

ॐ आ रात्रि पार्थिव ँ रजः पितुरप्रायि धामभिः ।
दिवः सदा ँ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ।

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि ।
आर्तिक्यान्ते आचमनीयं जलं समर्पयामि’ । (जल समर्पित करे ।)
प्रदक्षिणा -आरती उपरांत प्रदक्षिणा करें-
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा ँ सहस्रयोजनेऽव धन्वानि तन्मसि ।

यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणया पदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।
पुष्पांजलि- हाथों में पुष्प लेकर पुष्पाञ्जलि कर भगवान को अर्पित करे-
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

ॐ गणानां त्वा …………. ॥
ॐ अम्बे अम्बिके ……….. ॥

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥
ॐ भुर्भुव स्वः गणेशाम्बिकाभ्या नमः, पुष्पाञ्जलि समर्पयामि ।
विशेषार्घ्य – ताम्रपात्र में जल, चन्दन, अक्षत, फल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर निम्नलिखित मन्त्र पढ़कर विशेषार्घ्य दे –
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥

द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्चितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।

प्रार्थना- हाथ जोड़कर प्रार्थना करें-
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥

नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमःनमस्ते रुद्ररूपाय करिरूपाय ते नमः।
विश्वरूपस्वरूपायनमस्ते ब्रह्मचारिणेभक्तप्रियायदेवाय नमस्तुभ्यंविनायक ॥

त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥

त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वःगणेशाम्बिकाभ्यां नमः,प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
(साष्टाङ्ग प्रणाम करे)
अब निम्न मंत्र बोलते हुए समस्त पूजनकर्म भगवान् को समर्पित कर दे-
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम ।

Leave a Reply

Your email address will not be published. Required fields are marked *