गौ प्रशंसा स्तोत्र | Gou Prashansha Stotra

0

दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती |

खुरमध्ये तु गंधर्वाः खुराग्रेषु च पन्नगाः ||

सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने |

ककुदे सर्वनक्षत्रा लांगूले धर्म आश्रितः ||

अपाने सर्वतीर्थानि प्रसवे जाह्नवी नदी |

नानाद्वीप समाकीर्णा चत्वारः सागरास्तथा ||

ऋषयो रोमकूपेषु गोमये पद्मधारिणी ||

रोमेषु सन्ति विद्याश्च त्वक्केशेषु अयनद्वयम् ||

धैर्यं धृतिश्च शान्तिश्च पुष्टिः वृद्धिस्तथैव च |

स्मृतिर्मेधा तथा लज्जा वपुः कीर्तिः तथैव च ||

विद्या शान्तिर्मतिः चैव सन्नतिः परमा तथा |

गच्छन्तं अनुगच्छन्ति एता गावो न संशयः ||

|| गौ माता स्तोत्र ||

Leave a Reply

Your email address will not be published. Required fields are marked *