हनुमत्सहस्रनामस्तोत्रम् || Hanumat Sahastra Nam Stotram

0

हनुमत्सहस्रनामस्तोत्रम् का पाठ यदि नियमित रूप से किया जाए तो कोई बाधा आपके जीवन में नहीं आ सकती। इसके पाठ करने से बड़े से बड़ा भय दूर हो जाता है। यहाँ श्रीसुदर्शनसंहिता से हनुमत्सहस्रनामस्तोत्रम् दिया जा रहा है।

|| हनुमत्सहस्रनामस्तोत्रम् ||

अस्य श्रीहनुमद्दिव्यसहस्रनामस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः ।
श्रीराम ऋषिः । श्रीहनुमान्देवता । आञ्जनेयेतिशक्तिः ।
वातात्मजेति दैवतं बीजम् । श्रीहनुमानिति मन्त्रः ।
मर्कटराडिति कीलकम् । वज्रकायेति कवचम् ।
बलवानिति योनिः । दंष्ट्रायुधेति अस्त्रम् ।

॥ हृदयादि न्यासः ॥
अञ्जनीसूनवे नमः इति हृदये ।
रुद्ररूपाय नमः शिरसे स्वाहा ।
वायुसुतायेति शिखायै वषट् ।
अग्निगर्भाय नमः कवचाय हुं ।
रामदूताय नमः नेत्रत्रयाय वौषट् ।
ब्रह्मास्त्रस्तम्भनायेति अस्त्राय फट् ॥

॥ ध्यानम् ॥
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् ।
हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं
बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥

|| अथ हनुमत्सहस्रनामस्तोत्रम् ||

ॐ हनुमानञ्जनीसूनुर्वायुपुत्रो महाबलः ।
केसरीनन्दनः श्रीमान्विश्वकर्माऽर्चितध्वजः ॥ १॥
ईश्वरांशः स्वयंज्ञातः पार्वतीगर्भसम्भवः ।
सुचिरं मातृगर्भस्थो गर्भवैष्णवसंस्कृतः ॥ २॥

ब्रह्मचारीन्द्रभजितः सर्वविद्याविशारदः ।
मातृगर्भस्थनरनो हरिध्यानपरायणः ॥ ३॥
शोणनक्षत्रजः सूर्यगिलनः कपिवल्लबः ।
वज्रदेही महाबाहुर्जगदाश्चर्यशैशवः ॥ ४॥

कालेन सह युद्धार्थो कालदण्डप्रहारकः ।
कालकिङ्करहारी च कालान्तकविमर्दनः ॥ ५॥
नखायुधः सर्वजयो रणेश्वरो भुजायुधः ।
शैलविक्षेपकभुजो क्षेपकः पाटघट्टनः ॥ ६॥

वालपाशायुधो दंष्ट्रायुधः परमसाहसः ।
निरायुधजयो योद्धा वनञ्जी हीरपुङ्गवः ॥ ७॥
अचेतसरिपुर्भूतरक्षकोऽनन्तविग्रहः ।
ईशानविग्रहः किन्नरेशो गन्धर्वनाशनः ॥ ८॥

अद्रिभिन्मन्त्रकृद्भूतस्नेहहन्मेघनिर्जितः ।
पुरन्दरधनुश्छेत्ता मातलेर्मदभञ्जनः ॥ ९॥
ब्रह्मास्त्रस्तम्भनो रौद्रबाणनिर्हरणोऽनिलः ।
ऐरावतबलोच्छेदी वृत्रारेर्बाहुभञ्जनः ॥ १०॥

योगनिद्रासकृमना जगत्संहारकारकः ।
विष्णोरागमनोपायः कारणः पुनरुछ्रितः ॥ ११॥
नक्तञ्चराहितोर्द्धर्ता सर्वेन्द्रियजितः शुचिः ।
स्वबलाबलसंज्ञातः कामरूपी महोन्नतः ॥ १२॥

पिङ्गलाक्षो महाबुद्धिः सर्वस्त्रीमातृदर्शकः ।
वनेचरो वायुवेगी सुग्रीवराज्यकारणः ॥ १३॥
वालीहननकृत्प्राज्ञः रामेष्टः कपिसत्तमः ।
समुद्रतरणछायाग्राहभिच्छूरशक्तिहा ॥ १४॥

सीतासुवेषणः शुद्धो पावनः पवनोऽनलः ।
अतिप्रवृद्धो गुणवान् जानकीशोकनाशनः ॥ १५॥
दशग्रीववनोत्पाटी वनपालकनिर्जितः ।
बहुरूपो बृहद्रूपो जरामरणवर्जितः ॥ १६॥

रक्तकुण्डलधृग्धीमान्कनकाङ्गः सुरारिहा ।
वक्रनासोऽसुरघ्नश्च रजोहा सहरूपधृक् ॥ १७॥
शार्दूलमुखजित् वड्गरोमहा दीर्घजिह्वजित् ।
रक्तरोमाह्वयरिपुः शतजिह्वाख्यसूदनः ॥ १८॥

रक्तलोचनविध्वंसी स्तनितस्थितवैरिणः ।
शूलदंष्ट्राहितो वज्रकवचारिर्महाभटः ॥ १९॥
जम्बुमालीहरोऽक्षघ्नो कालपाशस्वनस्थितः ।
दशास्यवक्षःसन्तापी सप्तमन्त्रिसुतान्तकः ॥ २०॥

लङ्कनीदमनः सौम्यो दिव्यमङ्गलविग्रहः ।
रामपत्न्याः शुचोहर्ता सङ्ख्यातीतधरालयः ॥ २१॥
लङ्काप्रासादविच्छेदी निःसङ्गोऽमितविक्रमः ।
एकवीरो महाजङ्घो मालीप्राणापहारकः ॥ २२॥

प्रेमनेत्रप्रमथनो कालाग्निसदृशप्रभः ।
विकम्पनगदाहारी विग्रहो वीरपुङ्गवः ॥ २३॥
विशालरौप्यसंहर्ता त्रिशिराख्यविमर्दनः ।
कुम्भवैरी दशग्रीवदोरतो रविभेदकः ॥ २४॥

भिषक्पतिर्महावैद्यो नित्यामृतकरः शुचिः ।
धन्वन्तरिर्जगद्भूत औषधीशो विशाम्पतिः ॥ २५॥
दिव्यौषधाद्यानयिताऽमृतवानरजीवनः ।
सङ्ग्रामजयवर्धश्च लोकपर्यन्तवर्धनः ॥ २६॥

इन्द्रजिद्भूतलोत्पन्नः प्रतापयडभीकरः ।
माल्यवन्तप्रशमनः सौमित्रेर्जीवदायकः ॥ २७॥
स्थूलजङ्घजितः स्थूलो महानादविनिर्जितः ।
महादंष्ट्रान्तकः क्रोधी महोदरविनाशकृत् ॥ २८॥

महोरस्को सुरारातिः उल्कामुखनिकृन्तनः ।
महावीर्योऽजयः सूक्ष्मश्चतुर्वक्त्रविदारणः ॥ २९॥
हस्तिकर्णान्तकः शङ्खकर्णशत्रुर्महोज्ज्वलः ।
मेघान्तकः कालरुद्रो चित्रागतिर्जगत्पतिः ॥ ३०॥

सर्वलक्षणलक्षण्यो भिषजादिप्रतिष्ठितः ।
दुर्गं बिलेन कुर्वाणः प्लवङ्गवररक्षकः ॥ ३१॥
पाताललङ्कागमनो उद्दण्डो नन्दिमोचकः ।
प्रस्थवल्लभसन्त्राता भीकराक्षीनिकृन्तनः ॥ ३२॥

भेरीवचःशिरश्छेदी व्योमवीक्ष्यनिषूदनः ।
निर्धूतकायनिर्जैत्रः ऊर्ध्ववक्त्रविदूरकः ॥ ३३॥
निर्घोषहास्यविध्वस्तो तीव्रघोराननान्तकः ।
आस्फोटकसैन्यविद्वेषी मैत्रावरुणभञ्जनः ।
जगदेकःस्फुरद्वीर्यो नीलमेघस्य राज्यकः ॥ ३४॥

रामलक्ष्मणयोरुद्धर्ता तत्सहायजयः शुभः ।
प्रादुर्होमघ्नकृत्सर्वकिल्विषो पापनाशनः ॥ ३५॥
गुहप्राणप्रतिष्ठाता भरतप्राणरक्षकः ।
कपिः कपीश्वरः काव्यो महानाटककाव्यकृत् ॥ ३६॥

शुद्धक्रियाव्रतो गानी गानविद्याविशारदः ।
चतुःषष्टिकलादक्षः सर्वज्ञः सर्वशास्त्रवित् ॥ ३७॥
सर्वशक्तिर्निरालम्बः कूर्मपृष्ठविदारणः ।
ध्वंसरूपः सदापूज्यो भीमप्राणाभिरक्षकः ॥ ३८॥

पाण्डवेशः परंब्रह्म परमात्मा परन्तपः ।
पञ्चवक्त्रो हयग्रीवः पक्षिराजो परःशिवः ॥ ३९॥
नारसिंहः परञ्ज्योतिर्वराहः प्लवगेश्वरः ।
महोरस्को महातेजा महात्मा भुजविंशतिः ॥ ४०॥

शैलमुद्धृतखड्गश्व शङ्खचक्रगदाधरः ।
नानायुधधरः शूली धनुर्वेदपरायणः ॥ ४१॥
आक्ष्याह्वयशिरोहारी कवची दिव्यबाणभृत् ।
ताडकासुतसंहारी स्वयंमूर्तिरलाम्बलः ॥ ४२॥

ब्रह्मात्मा ब्रह्मकृद्ब्रह्म ब्रह्मलोकप्रकाङ्क्षणः ।
श्रीकण्ठः शङ्करः स्थाणुः परंधाम परा गतिः ॥ ४३॥
पीताम्बरधरश्चक्री व्योमकेशः सदाशिवः ।
त्रिमूर्त्यात्मा त्रिलोकेशस्त्रिगणस्त्रिदिवेश्वरः ॥ ४४॥

वासुदेवः परंव्योम परत्वं च परोदयः ।
परं ज्ञानं परानन्दः परोऽव्यक्तः परात्परः ॥ ४५॥
परमार्थः परो ध्येयः परध्येयः परेश्वरः ।
परर्द्धिः सर्वतोभद्रो निर्विकल्पो निरामयः ॥ ४६॥

निराश्रयो निराकारो निर्लेपः सर्वदुःखहा ।
ब्रह्मविद्याश्रयोऽनीशोऽहार्यो पातिरविग्रहः ॥ ४७॥
निर्णयश्चतुरोऽनन्तो निष्कलः सर्वभावनः ।
अनयोऽतीन्द्रियोऽचिन्त्योऽमिताहारो निरञ्जनः ॥ ४८॥

अक्षयः सर्वसंस्पृष्टो सर्वकं चिन्मयः शिवः ।
अच्युतः सर्वफलदो दाता श्रीपुरुषोत्तमः ॥ ४९॥
सर्वदा सर्वसाक्षी च सर्वः सर्वार्तिशायकः ।
सर्वसारः सर्वरूपो सर्वात्मा सर्वतोमुखः ॥ ५०॥

सर्वशास्त्रमयो गुह्यो सर्वार्थः सर्वकारणः ।

वेदान्तवेद्यः सर्वार्थी नित्यानन्दो महाहविः ॥ ५१॥

सर्वेश्वरो महाविष्णुर्नित्ययुक्तः सनातनः ।

षड्विम्शको योगपतिर्योगगम्यः स्वयंप्रभुः ॥ ५२॥

मायापतिर्भवोऽनर्थः भवबन्धैकमोचकः ।

पुराणः पुरुषः सत्यो तापत्रयविवर्जितः ॥ ५३॥

नित्योदितः शुद्धबुद्धो कालातीतोऽपराजितः ।

पूर्णो जगन्निधिर्हंसः कल्याणगुणभाजनः ॥ ५४॥

दुर्जयः प्रकृतिस्वामी सर्वाश्रयमयोऽतिगः ।

योगिप्रियः सर्वहरस्तारणः स्तुतिवर्धनः ॥ ५५॥

अन्तर्यामी जगन्नथः स्वरूपः सर्वतः समः ।

कैवल्यनाथः कूटस्थः सर्वभूतवशङ्करः ॥ ५६॥

सङ्कर्षणो भयकरः कालः सत्यसुखैकभूः ।

अतुल्यो निश्चलः साक्षी निरुपाधिप्रियो हरिः ॥ ५७॥

नाहंवादो हृषीकेशः प्रभानाथो जगन्मयः ।

अनन्तश्रीर्विश्वबीजं निःसीमः सर्ववीर्यजित् ॥ ५८॥

स्वप्रकाशः सर्वगतिः सिद्धार्थो विश्वमोहनः ।

अनिर्लङ्घ्यो महामायः प्रद्युम्नो देवनायकः ॥ ५९॥

प्राणेश्वरो जगद्बन्धुः क्षेत्रज्ञस्त्रिगुणेश्वरः ।

क्षरो दुरासदो ब्रह्म प्रणवो विश्वसूत्रधृक् ॥ ६०॥

सर्वानवद्यः संस्थेयः सर्वधामा मनःपतिः ।

आनन्दः श्रीपतिः श्रीदः प्राणसत्त्वनियोजकः ॥ ६१॥

अनन्तलीलाकर्तृज्ञो दुष्प्रापः कालचक्रकृत् ।

आदियातः सर्वशक्तः सर्वदेवः सदोर्जितः ॥ ६२॥

जगद्धाता जगज्जैत्रो वाङ्मनो जगदार्तिहा ।

स्वस्वतश्रीरसुरारिर्मुकुन्दः श्रीनिकेतनः ॥ ६३॥

विप्रशम्भुः पिता मूलप्रकृतिः सर्वमङ्गलः ।

सृष्टिस्थित्यन्तकृच्छ्रेष्ठो वैकुण्ठः सज्जनाश्रयः ॥ ६४॥

अनुत्तमः पुनर्जातो रुद्रादुत्कवचाननः ।

त्रैलोक्यपावनः सिद्धः पादो विश्वधुरन्धरः ॥ ६५॥

ब्रह्मा ब्रह्मपिता यज्ञः पुष्पनेत्रार्थकृत्कविः ।

सर्वमोहः सदापुष्टः सर्वदेवप्रियो विभुः ॥ ६६॥

यज्ञत्राता जगत्सेतुः पुण्यो दुःस्वप्ननाशनः ।

सर्वदुष्टान्तकृत्साध्यो यज्ञेशो यज्ञभावनः ॥ ६७॥

यज्ञभुग्यज्ञफलदो सर्वश्रेयो द्विजप्रियः ।

वनमाली सदापूतश्चतुर्मूर्तिः सदार्चितः ॥ ६८॥

मुक्तकेशः सर्वहितो देवसारः सदाप्रियः ।

अनिर्देश्यवपुः सर्वदेवमूर्तिश्चतुर्भुजः ॥ ६९॥

अनन्तकीर्तिःनिःसङ्गो सर्वदेवशिरोमणिः ।

परार्थकर्ता भगवान्स्वार्थकर्ता तपोनिधिः ॥ ७०॥

वेदगुह्यः सदोदीर्णो वृद्धिक्षयविवर्जितः ।

साधर्मतुः सदाशान्तो विश्वारातो वृषाकपिः ॥ ७१॥

कपिर्भक्तः पराधीनः पुराणः कुलदेवता ।

मायावानरचारित्र्यः पुण्यश्रवणकीर्तनः ॥ ७२॥

उत्सवोऽनन्तमाहात्म्यः कृपालुर्धर्मजीवनः ।

सहस्रनामविज्ञेयो नित्यतृप्तः सुभद्रकः ॥ ७३॥

एकवीरो महोदारः पावनो उर्ग्रवीक्षणः ।

विश्वभोक्ता महावीरः कर्ता नाद्भुतभोगवान् ॥ ७४॥

त्रियुगः शूलविध्वंसी सामसारः सुविक्रमः ।

नारायणो लोकगुरुर्विष्वक्सेनो महाप्रभुः ॥ ७५॥

यज्ञसारो मुनिस्तुत्यो निर्मलो भक्तवत्सलः ।

लोकैकनायकः सर्वः सजानामन्यसाधकः ॥

मोक्षदोऽखिललोकेशः सदाध्येयस्त्रिविक्रमः ।

माताहितस्त्रिलोकात्मा नक्षत्रेशः क्षुधापहः ॥ ७६॥

शब्दब्रह्मदयासारः कालमृत्युनिवर्तकः ।

अमोघास्त्रः स्वयंव्यक्तः सर्वसत्यं शुभैकधृक् ॥ ७७॥

सहस्रबाहुरव्यक्तः कालमृत्युनिवर्तकः ।

अखिलाम्भोनिधिर्दति सर्वविघ्नान्तको विभुः ॥ ७८॥

महावराहो नृपतिर्दुष्टभुग्दैत्यमन्मथः ।

महादंष्ट्रायुधः सर्वः सर्वजिद्भूरिविक्रमः ॥ ७९॥

अभिप्रायत्तदारोज्ञः सर्वमन्त्रैकरूपवान् ।

जनार्द्दनो महायोगी गुरुपूज्यो महाभुजः ॥ ८०॥

भैरवाडम्बरोद्दण्डः सर्वयन्त्रविधारणः ।

सर्वाद्भुतो महावीरः करालः सर्वदुःखहा ॥ ८१॥

अगम्योपनिषद्गम्योऽनन्तः सङ्कर्षणः प्रभुः ।

अकम्पनो महापूर्णः शरणागतवत्सलः ॥ ८२॥

अगम्यो योऽद्भुतबलः सुलभो जयतिर्जयः ।

अरिकोलाहलो वज्रधरः सर्वाघनाशनः ॥ ८३॥

धीरोद्धारः सदापुण्यो पुण्यं गुणगणेश्वरः ।

सत्यव्रतः पूर्वभाषी शरणत्राणतत्परः ॥ ८४॥

पुण्योदयः पुराणेज्यो स्मितवक्त्रो महाहरिः ।

मितभाषी व्रतफलो योगानन्दो महाशिवः ॥ ८५॥

आधारनिलयो जह्नुः वातातीतोऽतिनिद्रहा ।

भक्तचिन्तामणिर्वीरदर्प्पहा सर्वपूर्वकः ॥ ८६॥

युगान्तः सर्वरोगघ्नः सर्वदेवमयः पुरः ।

ब्रह्मतेजः सहस्राक्षो विश्वश्लाघ्यो जगद्वशः ॥ ८७॥

आदिविद्वान्सुसन्तोषो चक्त्रवर्तिर्महानिधिः ।

अद्वितीयो बहिःकर्ता जगत्त्रयपवित्रितः ॥ ८८॥

समस्तपातकध्वंसी क्षोणीमूर्तिः कृतान्तजित् ।

त्रिकालजैवो जगतां भगवद्भक्तिवर्धनः ॥ ८९॥

असाध्यो श्रीमयो ब्रह्मचारी मयभयापहः ।

भैरवेशश्चतुर्वर्णः शितिकण्ठयशःप्रदः ॥ ९०॥

अमोघवीर्यो वरदो समग्र्यः काश्यपान्वयः ।

रुद्रचण्डी पुराणर्षिर्मण्डनो व्याधिनाशकृत् ॥ ९१॥

आद्यः सनातनः सिद्धः सर्वश्रेष्ठो यशः पुमान् ।

उपेन्द्रो वामनोत्साहो मान्यो विष्मान्विशोधनः ॥ ९२॥

अनन्यः सात्वतां श्रेष्ठो राज्यदेशगुणार्णवः ।

विशेषोऽनुत्तमो मेधा मनोवाक्कायदोषहा ॥ ९३॥

आत्मवान्प्रथितः सर्वभद्रो ग्राह्योऽभयप्रदः ।

भोगदोऽतीन्द्रियः सर्वः प्रकृष्टो धरणीजयः ॥ ९४॥

विश्वभूर्ज्ञानविज्ञानो भूषितादर्थिमात्मजः ।

धर्माध्यक्षः कृताध्यक्षो धर्माधर्मधुरन्धरः ॥ ९५॥

धर्मद्रष्टा धर्ममयो धर्मात्मा धर्मपालकः ।

रत्नगर्भश्चतुर्वेदो वरशीलोऽखिलार्थदः ॥ ९६॥

दैत्याशाखण्डनो वीरबाहुर्विश्वप्रकाशकः ।

देवदूत्यात्माजो भीमः सत्यार्थोऽखिलसाधकः ॥ ९७॥

ग्रामाधीशो दयाधीशो महामोहतमिस्रहा ।

योगस्वामी सहस्त्राङ्घ्रिर्ज्ञानयोगः सुधामयः ॥ ९८॥

विश्वजिज्जगतः शास्ता पीतकौपीनधारणः ।

अहिर्नभावकुपितो विश्वरेता अनाकुलः ॥ ९९॥

चतुर्युगः सर्वशून्यः स्वस्थो भोगमहाप्रदः ।

आश्रमानां गुरुः श्रेष्ठो विश्वात्मा चित्ररूपिणः ॥ १००॥

एकाकी दिव्यद्रविणो इन्द्रो शेषादिपूरुषः ।

नराकृतिर्देवमान्यो महाकायशिरोभुजः ॥ १०१॥

अनन्तप्रलयः स्थैर्यो वाल्लीयो दुष्टमोहनः ।

धर्माङ्कितो देवदेवो देवार्थः श्रुतिगोपकः ॥ १०२॥

वेदान्तकर्ता दुष्टघ्नो श्रीधनः सुखदः प्रभुः ।

शौरिः शुद्धमना शुद्धः सर्वोत्कृष्टो जयध्वजः ॥ १०३॥

धृतात्मा श्रुतिमार्गेशः कर्ता सः सामवेदराट् ।

मृत्युञ्जयः पराद्वेषी रुद्रराट् छन्दसां वरः ॥ १०४॥

विद्याधरः पूर्वसिद्धो दान्तश्रेष्ठो सुरोत्तमः ।

श्रेष्ठो विधिर्बद्धशिरो गन्धर्वः कालसङ्गमः ॥ १०५॥

विध्वस्तमोहनोऽध्यात्मा कामधेनुः सुदर्शनः ।

चिन्तामणिः कृपाचार्यो ब्रह्मराट् कल्पपादपः ॥ १०६॥

दिनं पक्षो वसन्तर्तुर्वत्सरः कल्पसंज्ञकः ।

आत्मतत्त्वाधिपो वीरः सत्यः सत्यप्रवर्तकः ॥ १०७॥

अध्यात्मविद्या ॐकारः सगुणोऽक्षरोत्तमः ।

गणाधीशो महामौनी मरीचिर्फलभुग्जगुः ॥ १०८॥

दुर्गमो वासुकिर्बर्हिर्मुकुन्दो जनकां प्रथी ।

प्रतिज्ञा साधको मेघः सन्मार्गः सूक्ष्मगोचरः ॥ १०९॥

भरतश्रेष्ठश्चित्रर्थो गुह्यो रात्रि प्रयातनः ।

महासनो महेष्वासो सुप्रसादः शुचिःश्रवाः ॥ ११०॥

सांवर्त्तको बृहद्भानुर्वरारोहो महाद्युतिः ।

महामूर्द्धातिभ्राजिष्णुर्भूतकृत्सर्वदर्शनः ॥ १११॥

महाभोगो महाशक्तिः समात्मा सर्वधीश्वरः ।

अप्रमेयः समावर्त्तः विघ्नहर्ता प्रजाधरः ॥ ११२॥

चिरञ्जीवः सदामर्षी दुर्लभः शोकनाशनः ।

जीवितात्मा महागर्त्तः सुस्तनः सर्वविज्जयी ॥ ११३॥

कृतकर्मा विधेयात्मा कृतज्ञः समितोर्जितः ।

सर्वप्रवर्तकः साधुः सहिष्णुर्निधनो वसुः ॥ ११४॥

भूगर्भो नियमो वाग्मी ग्रामणीर्भूतकृत्समः ।

सुभुजस्तारणो हेतुः शिष्टेष्टः प्रियवर्धनः ॥ ११५॥

कृतागमो वीतभयो गुणभृच्छर्वरीकरः ।

दृढः सत्त्वविधेयात्मा लोकबन्धुः प्रजागरः ॥ ११६॥

सुषेणो लोकशारङ्गः सुभगो द्रविणप्रदः ।

गभस्थिनेमिः कपिशो हृदीशस्तन्तुवर्धनः ॥ ११७॥

भूशयः पिङ्गलो नर्दो वैक्रमो वंशवर्धनः ।

विरामो दुर्जयो मानी विश्वहासः पुरातनः ॥ ११८॥

अरौद्रः प्रग्रहो मूर्तिः शुभाङ्गो दुर्द्धरोत्तमः ।

वाचस्पतिर्निवृत्तात्मा क्षेमकृत्क्षेमिनां वरः ॥ ११९॥

महार्हः सर्वशश्चक्षुर्निग्रहो निर्गुणो मतः ।

विस्तारो मेदजो बभ्रुः सम्भाव्योऽनामयो ग्रहान् ॥ १२०॥

अयोनिजोऽर्चितोदीर्णः स्वमेधार्पितो गुही ।

निर्वाणगोपतिर्दृक्षः प्रियार्हो शान्तिदः कृशः ॥ १२१॥

शब्दातिगः सर्वसहः सत्यमेधा सुलोचनः ।

अनिर्रती महाकर्मा कविवर्यः प्रजापतिः ॥ १२२॥

कुण्डली सत्पथाचारः सङ्क्षेमो विरजोऽतुलः ।

दारुणः करनिर्वर्णः सदायूपप्रियो वटः ॥ १२३॥

मन्दगामी मन्दगतिर्मन्दवासरतोषितः ।

वृक्षशाखाग्रसञ्चारी कोटिसिंहैकसत्त्वनः ॥ १२४॥

सदाञ्जलिपुटो गुप्तः सर्वज्ञकभयापहः ।

स्थावरः पेशलो लोकः स्वामी त्रैलोक्यसाधकः ॥ १२५॥

अत्याहारी निराहारी शिखावान्मारुताशनः ।

अदृश्यः प्राणनिलयो व्यक्तरूपो मनोजवः ॥ १२६॥

अभिप्रायो भगो दक्षः पावनो विषभञ्जनः ।

अर्हो गम्भीरः प्रियकृत्स्वामी चतुरविक्रमः ॥ १२७॥

आपदोद्धारको धुर्यो सर्वभोगप्रदायकः ।

ॐतत्सदितिनिर्दिष्टं श्रीहनुमन्नाम पावनम् ॥ १२८॥

 

। हनुमत्सहस्रनामस्तोत्रम् फलश्रुतिः ।

 

दिव्यं सहस्रनामाख्यं स्तोत्रं त्रैलोक्यपावनम् ।

इदं रहस्यं भवतामर्थेऽस्माकं यथाविधि ॥ १२९॥

उक्तं लोके विभुर्भूत्वा भक्तियुक्तेन चेतसा ।

एतन्महासंहितायां वा तन्नामसहस्रकम् ॥ १३०॥

स्तोत्रं वा कवचं वापि मन्त्रं वा यो नरः सदा ।

त्रिवर्षं वापि वर्षं वा जपेत्षण्मास एव च ॥ १३१॥

स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः ।

भूर्जे वा पुस्तके वेदं लिखित्वा यः पुमान् शुचिः ॥ १३२॥

मन्दवारेषु मध्याह्ने पूजयेद्भक्तिपूर्वकम् ।

अपूपानर्पयेदाशु सर्वान्कामानवाप्नुयात् ॥ १३३॥

इदं वै लिखितं यैश्च श्रुतं यैः पठितं सदा ।

यैश्च प्रख्यापितं लोके अष्टैश्वर्याणि सर्वशः ॥ १३४॥

सर्वाण्यपि च पुण्यानि सिद्ध्यन्त्यत्र न संशयः ।

श्रृङ्खला बन्धमुख्यानि कारागृहभयानि च ॥ १३५॥

क्षयापस्मारकुष्ठादि महारोगाश्च येऽपि च ।

एतत्सर्वं विहायाशु गच्छन्ति सतताभयम् ॥ १३६॥

राज्यविद्वत्सभायां च रिपून्कर्षति निश्चयः ।

कलहे जयमाप्नोति सन्तोषो भवति ध्रुवम् ॥ १३७॥

ब्रह्मराक्षसगन्धर्ववेतालाघृणरेवती ।

पूतनादिर्महाभूताः पलायन्ते च दूरतः ॥ १३८॥

परेण कृतयन्त्राद्या शीघ्रं नश्यन्ति भूतले ।

योजनद्वादशायासपर्वतं परिवेष्टितः ॥ १३९॥

सस्यानां परिमाणेन सिद्धिर्भवति सर्वदा ।

चौराग्न्युदकसर्वादि भयानि न भवन्ति च । १४०॥

हासश्व क्रियते येन हस्ताद्भवति नाशनम् ।

तस्य उक्तानि एतानि फलानि विविधानि च ॥ १४१॥

भवन्ति विपरीतानि सर्वाण्यनुदिनं क्रमात् ।

तस्मादिदं सुचारित्र्यं नित्यं तद्भक्तिपूर्वकम् ॥ १४२॥

पठन्तमुपगम्येति वयपोषणपूर्वकम् ।

वदामीदं निजमिदं निजं श्रण्वन्तु मौनयः ॥ १४३॥

॥ इति पूर्वव्यूहे श्रीसुदर्शनसंहितायां वसिष्ठवालखिल्यसंवादे हनुमद्वज्रकवचपूर्वकदिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

हनुमत्सहस्रनामस्तोत्रम् समाप्त ॥

Leave a Reply

Your email address will not be published. Required fields are marked *