हनुमत्सहस्रनाम स्तोत्रम्, श्रीहनुमत्सहस्र नामावलिः || Hanumat Sahastranam Stotram and Namavaliah

0

‘चित्रकूट के घाट पै भई संतनि भीर। तुलसीदास चंदन घिसे, तिलक देत रघुवीर।’ आज भी हनुमानजी हमारे बीच इस धरती पर सशरीर मौजूद हैं। इस कलियुग में सबसे ज्यादा जाग्रत और साक्षात हैं। कलियुग में हनुमान की भक्ति ही लोगों को दुख और संकट से बचाने में सक्षम हैं। मंगलवार और शनिवार के दिन हनुमानजी को बहुत प्रिय हैं। अतः यदि नित्य ण कर पाए तो केवल मंगलवार एवं शनिवार के दिन हनुमत्सहस्रनामस्तोत्रम् या केवल श्रीहनुमत्सहस्रनामावलिः श्रद्धा पूर्वक किया जाएं तो श्री हनुमान प्रसन्न होकर उनकी इच्छाएं पूरी कर देते हैं।

|| हनुमत्सहस्रनामस्तोत्रम्, श्रीहनुमत्सहस्रनामावलिः ||

हनुमत्सहस्रनामस्तोत्रम्
कैलासशिखरे रम्ये देवदेवं महेश्वरम् ।
ध्यानोपरतमासीनं नन्दिभृङ्गिगणैर्वृतम् ॥ १॥
ध्यानान्ते च प्रसन्नास्यमेकान्ते समुपस्थितम् ।
दृष्ट्वा शम्भुं तदा देवी पप्रच्छ कमलानना ॥ २॥

देव्युवाच
श्रृणु देव प्रवक्ष्यामि संशयोऽस्ति महान्मम ।
रुद्रैकादशमाख्यातं पुराहं न च वेद्मि तम् ॥ ३॥
कथयस्व महाप्राज्ञ सर्वतो निर्णयं शुभम् ।
समाराधयतो लोके भुक्तिमुक्तिफलं भवेत् ॥ ४॥
मन्त्रं यन्त्रं तथा तन्निर्णयं च विधिपूजनम् ।
तत्सर्वं ब्रूहि मे नाथ कृतार्था च भवाम्यहम् ॥ ५॥

ईश्वर उवाच
श्रृणु देवि प्रवक्ष्यामि गोप्यं सर्वागमे सदा ।
सर्वस्वं मम लोकानां नृणां स्वर्गापवर्गदम् ॥ ६॥
दश विष्णुर्द्वादशार्कास्ते चैकादश संस्मृताः ।
रुद्रः परमचण्डश्च लोकेऽस्मिन्भुक्तिमुक्तिदः ॥ ७॥

हनुमान्स महादेवः कालकालः सदाशिवः ।
इहैव भुक्तिकैवल्यमुक्तिदः सर्वकामदः ॥ ८॥
चिद्रूपी च जगद्रूपस्तथारूपविराडभूत् ।
रावणस्य वधार्थाय रामस्य च हिताय च ॥ ९॥
अञ्जनीगर्भसम्भूतो वायुरूपी सनातनः ।
यस्य स्मरणमात्रेण सर्वविघ्नं विनश्यति ॥ १०॥

मन्त्रं तस्य प्रवक्ष्यामि कामदं सुरदुर्लभम् ।
नित्यं परतरं लोके देवदैत्येषु दुर्लभम् ॥ ११॥
प्रणवं पूर्वमुद्धृत्य कामराजं ततो वदेत् ।
ॐ नमो भगवते हनुमतेऽपि ततो वदेत् ॥ १२॥

ततो वैश्वानरो मायामन्त्रराजमिमं प्रिये ।
एवं बहुतरा मन्त्राः सर्वशास्त्रेषु गोपिताः ॥ १३॥
ॐ क्लीं नमो भगवते हनुमते स्वाहा
येन विज्ञातमात्रेण त्रैलोक्यं वशमानयेत् ।
वह्निं शीतङ्करोत्येव वातं च स्थिरतां नयेत् ॥ १४॥
विघ्नं च नाशयत्याशु दासवत्स्याज्जगत्त्रयम् ।
ध्यानं तस्य प्रवक्ष्यामि हनुर्येन प्रसीदति ॥ १५॥

ध्यानम् –
प्रदीप्तं स्वर्णवर्णाभं बालार्कारुणलोचनम् ।
स्वर्णमेरुविशालाङ्गं शतसूर्यसमप्रभम् ॥ १६॥
रक्ताम्बरं धरासीनं सुग्रीवादियुतं तथा ।
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ॥ १७॥

पुच्छवन्तं कपीशं तं महारुद्रं भयङ्करम् ।
ज्ञानमुद्रालसद्बाहुं सर्वालङ्कारभूषितम् ॥ १८॥
ध्यानस्य धारणादेव विघ्नान्मुक्तः सदा नरः ।
त्रिषु लोकेषु विख्यातः सर्वत्र विजयी भवेत् ॥ १९॥
नाम्नां तस्य सहस्रं तु कथयिष्यामि ते श्रृणु ।
यस्य स्मरणमात्रेण वादी मूको भवेद्ध्रुवम् ॥ २०॥

स्तम्भनं परसैन्यानां मारणाय च वैरिणाम् ।
दारयेच्छाकिनीः शीघ्रं डाकिनीभूतप्रेतकान् ॥ २१॥
हरणं रोगशत्रूणां कारणं सर्वकर्मणाम् ।
तारणं सर्वविघ्नानां मोहनं सर्वयोषिताम् ॥ २२॥
धारणं सर्वयोगानां वारणं शीघ्रमापदाम् ॥ २३॥

ॐ अस्य श्रीहनुमतः सहस्रनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीहनुमान् देवता । ॐ क्लीं इति बीजम् । नम इति कीलकम् । स्वाहेति शक्तिः । समस्तपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐओङ्कारनमोरूपमोंनमोरूपपालकः ।
ओङ्कारमयोङ्कारकृदोङ्कारात्मा सनातनः ॥ २४॥
ब्रह्मब्रह्ममयो ब्रह्मज्ञानी ब्रह्मस्वरूपवित् ।
कपीशः कपिनाथश्च कपिनाथसुपालकः ॥ २५॥
कपिनाथप्रियः कालः कपिनाथस्य घातकः ।
कपिनाथशोकहर्ता कपिभर्ता कपीश्वरः ॥ २६॥

कपिजीवनदाता च कपिमूर्तिः कपिर्भृतः ।
कालात्मा कालरूपी च कालकालस्तु कालभुक् ॥ २७॥
कालज्ञानी कालकर्ता कालहानिः कलानिधिः ।
कलानिधिप्रियः कर्ता कलानिधिसमप्रभः ॥ २८॥

कलापी च कलापाता कीशत्राता किशां पतिः ।
कमलापतिप्रियः काकस्वरघ्नः कुलपालकः ॥ २९॥
कुलभर्ता कुलत्राता कुलाचारपरायणः ।
काश्यपाह्लादकः काकध्वंसी कर्मकृतां पतिः ॥ ३०॥

कृष्णः कृष्णस्तुतिः कृष्णकृष्णरूपो महात्मवान् ।
कृष्णवेत्ता कृष्णभर्ता कपीशः क्रोधवान् कपिः ॥ ३१॥
कालरात्रिः कुबेरश्च कुबेरवनपालकः ।
कुबेरधनदाता च कौसल्यानन्दजीवनः ॥ ३२॥

कोसलेशप्रियः केतुः कपाली कामपालकः ।
कारुण्यः करुणारूपः करुणानिधिविग्रहः ॥ ३३॥
कारुण्यकर्ता दाता च कपिः साध्यः कृतान्तकः ।
कूर्मः कूर्मपतिः कूर्मभर्ता कूर्मस्य प्रेमवान् ॥ ३४॥

कुक्कुटः कुक्कुटाह्वानः कुञ्जरः कमलाननः ।
कुञ्जरः कलभः केकिनादजित्कल्पजीवनः ॥ ३५॥
कल्पान्तवासी कल्पान्तदाता कल्पविबोधकः ।
कलभः कलहस्तश्च कम्पः कम्पपतिस्तथा ॥ ३६॥

कर्मफलप्रदः कर्मा कमनीयः कलापवान् ।
कमलासनबन्धश्च-कम्पः-कमलासनपूजकः ॥ ३७॥
कमलासनसेवी च कमलासनमानितः ।
कमलासनप्रियः कम्बुः कम्बुकण्ठोऽपि कामधुक् ॥ ३८॥

किञ्जल्करूपी किञ्जल्कः किञ्जल्कावनिवासकः ।
खगनाथप्रियः खङ्गी खगनाथप्रहारकः ॥ ३९॥
खगनाथसुपूज्यश्च खगनाथप्रबोधकः ।
खगनाथवरेण्यश्च खरध्वंसी खरान्तकः ॥ ४०॥

खरारिप्रियबन्धुश्च खरारिजीवनः सदा ।

खङ्गहस्तः खङ्गधनः खङ्गहानी च खङ्गपः ॥ ४१॥

खञ्जरीटप्रियः खञ्जः खेचरात्मा खरारिजित् ॥ ४२॥

खञ्जरीटपतिः पूज्यः खञ्जरीटपचञ्चलः ।

खद्योतबन्धुः खद्योतः खद्योतनप्रियः सदा ॥ ४३॥

गरुत्मान् गरुडो गोप्यो गरुत्मद्दर्पहारकः ।

गर्विष्ठो गर्वहर्ता च गर्वहा गर्वनाशकः ॥ ४४॥

गर्वो गुणप्रियो गाणो गुणसेवी गुणान्वितः ।

गुणत्राता गुणरतो गुणवन्तप्रियो गुणी ॥ ४५॥

गणेशो गणपाती च गणरूपो गणप्रियः ।

गम्भीरोऽथ गुणाकारो गरिमा गरिमप्रदः ॥ ४६॥

गणरक्षो गणहरो गणदो गणसेवितः ।

गवांशो गवयत्राता गर्जितश्च गणाधिपः ॥ ४७॥

गन्धमादनहर्ता च गन्धमादनपूजकः ।

गन्धमादनसेवी च गन्धमादनरूपधृक् ॥ ४८॥

गुरुर्गुरुप्रियो गौरो गुरुसेव्यो गुरून्नतः ।

गुरुगीतापरो गीतो गीतविद्यागुरुर्गुरुः ॥ ४९॥

गीताप्रियो गीतरातो गीतज्ञो गीतवानपि ।

गायत्र्या जापको गोष्ठो गोष्ठदेवोऽथ गोष्ठपः ॥ ५०॥

गोष्पदीकृतवारीशो गोविन्दो गोपबन्धकः ।

गोवर्धनधरो गर्वो गोवर्धनप्रपूजकः ॥ ५१॥

गन्धर्वो गन्धर्वरतो गन्धर्वानन्दनन्दितः ।

गन्धो गदाधरो गुप्तो गदाढ्यो गुह्यकेश्वरः ॥

गिरिजापूजको गीश्च गीर्वाणो गोष्पतिस्तथा ।

गिरिर्गिरिप्रियो गर्भो गर्भपो गर्भवासकः ॥ ५३॥

गभस्तिग्रासको ग्रासो ग्रासदाता ग्रहेश्वरः ।

ग्रहो ग्रहेशानो ग्राहो ग्रहदोषविनाशनः ॥ ५४॥

ग्रहारूढो ग्रहपतिर्गर्हणो ग्रहणाधिपः ।

गोली गव्यो गवेशश्च गवाक्षमोक्षदायकः ॥ ५५॥

गणो गम्यो गणदाता गरुडध्वजवल्लभः ।

गेहो गेहप्रदो गम्यो गीतागानपरायणः ॥ ५६॥

गह्वरो गह्वरत्राणो गर्गो गर्गेश्वरप्रदः ।

गर्गप्रियो गर्गरतो गौतमो गौतमप्रदः ॥ ५७॥

गङ्गास्नायी गयानाथो गयापिण्डप्रदायकः ।

गौतमीतीर्थचारी च गौतमीतीर्थपूजकः ॥ ५८॥

गणेन्द्रोऽथ गणत्राता ग्रन्थदो ग्रन्थकारकः ।

घनाङ्गो घातको घोरो घोररूपी घनप्रदः ॥ ५९॥

घोरदंष्ट्रो घोरनखो घोरघाती घनेतरः ।

घोरराक्षसघाती च घोररूप्यघदर्पहा ॥ ६०॥

घर्मो घर्मप्रदश्चैव घर्मरूपी घनाघनः ।

घनध्वनिरतो घण्टावाद्यप्रियघृणाकरः ॥ ६१॥

घोघो घनस्वनो घूर्णो घूर्णितोऽपि घनालयः ।

ङकारो ङप्रदो ङान्तश्चन्द्रिकामोदमोदकः ॥ ६२॥

चन्द्ररूपश्चन्द्रवन्द्यश्चन्द्रात्मा चन्द्रपूजकः ।

चन्द्रप्रेमश्चन्द्रबिम्बश्चामरप्रियश्चञ्चलः ॥ ६३॥

चन्द्रवक्त्रश्चकोराक्षश्चन्द्रनेत्रश्चतुर्भुजः ।

चञ्चलात्मा चरश्चर्मी चलत्खञ्जनलोचनः ॥ ६४॥

चिद्रूपश्चित्रपानश्च चलच्चित्ताचितार्चितः ।

चिदानन्दश्चितश्चैत्रश्चन्द्रवंशस्य पालकः ॥ ६५॥

छत्रश्छत्रप्रदश्छत्री छत्ररूपी छिदाञ्छदः ।

छलहा छलदश्छिन्नश्छिन्नघाती क्षपाकरः ॥ ६६॥

छद्मरूपी छद्महारी छली छलतरुस्तथा ।

छायाकरद्युतिश्छन्दश्छन्दविद्याविनोदकः ॥ ६७॥

छिन्नारातिश्छिन्नपापश्छन्दवारणवाहकः ।

छन्दश्छ(क्ष)त्रहनश्छि(क्षि)प्रश्छ(क्ष)-वनश्छन्मदश्छ(क्ष)मी ॥ ६८॥

क्षमागारः क्षमाबन्धः क्षपापतिप्रपूजकः ।

छलघाती छिद्रहारी छिद्रान्वेषणपालकः ॥ ६९॥

जनो जनार्दनो जेता जितारिर्जितसङ्गरः ।

जितमृत्युर्जरातीतो जनार्दनप्रियो जयः ॥ ७०॥

जयदो जयकर्ता च जयपातो जयप्रियः ।

जितेन्द्रियो जितारातिर्जितेन्द्रियप्रियो जयी ॥ ७१॥

जगदानन्ददाता च जगदानन्दकारकः ।

जगद्वन्द्यो जगज्जीवो जगतामुपकारकः ॥ ७२॥

जगद्धाता जगद्धारी जगद्बीजो जगत्पिता ।

जगत्पतिप्रियो जिष्णुर्जिष्णुजिज्जिष्णुरक्षकः ॥ ७३॥

जिष्णुवन्द्यो जिष्णुपूज्यो जिष्णुमूर्तिविभूषितः ।

जिष्णुप्रियो जिष्णुरतो जिष्णुलोकाभिवासकः ॥

जयो जयप्रदो जायो जायको जयजाड्यहा ।

जयप्रियो जनानन्दो जनदो जनजीवनः ॥ ७५॥

जयानन्दो जपापुष्पवल्लभो जयपूजकः ।

जाड्यहर्ता जाड्यदाता जाड्यकर्ता जडप्रियः ॥ ७६॥

जगन्नेता जगन्नाथो जगदीशो जनेश्वरः ।

जगन्मङ्गलदो जीवो जगत्यवनपावनः ॥ ७७॥

जगत्त्राणो जगत्प्राणो जानकीपतिवत्सलः ।

जानकीपतिपूज्यश्च जानकीपतिसेवकः ॥ ७८॥

जानकीशोकहारी च जानकीदुःखभञ्जनः ।

यजुर्वेदो यजुर्वक्ता यजुःपाठप्रियो व्रती ॥ ७९॥

जिष्णुर्जिष्णुकृतो जिष्णुधाता जिष्णुविनाशनः ।

जिष्णुहा जिष्णुपाती तु जिष्णुराक्षसघातकः ॥ ८०॥

जातीनामग्रगण्यश्च जातीनां वरदायकः ।

झुँझुरो झूझुरो झूर्झनवरो झञ्झानिषेवितः ॥ ८१॥

झिल्लीरवस्वरो ञन्तो ञवणो ञनतो ञदः ।

टकारादिष्टकारान्ताष्टवर्णाष्टप्रपूजकः ॥ ८२॥

टिट्टिभष्टिट्टिभस्तष्टिष्टिट्टिभप्रियवत्सलः ।

ठकारवर्णनिलयष्ठकारवर्णवासितः ॥ ८३॥

ठकारवीरभरितष्ठकारप्रियदर्शकः ।

डाकिनीनिरतो डङ्को डङ्किनीप्राणहारकः ॥ ८४॥

डाकिनीवरदाता च डाकिनीभयनाशनः ।

डिण्डिमध्वनिकर्ता च डिम्भो डिम्भातरेतरः ॥ ८५॥

डक्काढक्कानवो ढक्कावाद्यष्ठक्कामहोत्सवः ।

णान्त्यो णान्तो णवर्णश्च णसेव्यो णप्रपूजकः ॥ ८६॥

तन्त्री तन्त्रप्रियस्तल्पस्तन्त्रजित्तन्त्रवाहकः ।

तन्त्रपूज्यस्तन्त्ररतस्तन्त्रविद्याविशारदः ॥ ८७॥

तन्त्रयन्त्रजयी तन्त्रधारकस्तन्त्रवाहकः ।

तन्त्रवेत्ता तन्त्रकर्ता तन्त्रयन्त्रवरप्रदः ॥ ८८॥

तन्त्रदस्तन्त्रदाता च तन्त्रपस्तन्त्रदायकः ।

तत्त्वदाता च तत्त्वज्ञस्तत्त्वस्तत्त्वप्रकाशकः ॥ ८९॥

तन्द्रा च तपनस्तल्पतलातलनिवासकः ।

तपस्तपःप्रियस्तापत्रयतापी तपःपतिः ॥ ९०॥

तपस्वी च तपोज्ञाता तपतामुपकारकः ।

तपस्तपोत्रपस्तापी तापदस्तापहारकः ॥ ९१॥

तपःसिद्धिस्तपोऋद्धिस्तपोनिधिस्तपःप्रभुः ।

तीर्थस्तीर्थरतस्तीव्रस्तीर्थवासी तु तीर्थदः ॥ ९२॥

तीर्थपस्तीर्थकृत्तीर्थस्वामी तीर्थविरोधकः ।

तीर्थसेवी तीर्थपतिस्तीर्थव्रतपरायणः ॥ ९३॥

त्रिदोषहा त्रिनेत्रश्च त्रिनेत्रप्रियबालकः ।

त्रिनेत्रप्रियदासश्च त्रिनेत्रप्रियपूजकः ॥ ९४॥

त्रिविक्रमस्त्रिपादूर्ध्वस्तरणिस्तारणिस्तमः ।

तमोरूपी तमोध्वंसी तमस्तिमिरघातकः ॥ ९५॥

तमोधृक्तमसस्तप्ततारणिस्तमसोऽन्तकः ।

तमोहृत्तमकृत्ताम्रस्ताम्रौषधिगुणप्रदः ॥

तैजसस्तेजसां मूर्तिस्तेजसः प्रतिपालकः ।

तरुणस्तर्कविज्ञाता तर्कशास्त्रविशारदः ॥ ९७॥

तिमिङ्गिलस्तत्त्वकर्ता तत्त्वदाता व तत्त्ववित् ।

तत्त्वदर्शी तत्त्वगामी तत्त्वभुक्तत्त्ववाहनः ॥ ९८॥

त्रिदिवस्त्रिदिवेशश्च त्रिकालश्च तमिस्रहा ।

स्थाणुः स्थाणुप्रियः स्थाणुः सर्वतोऽपि च वासकः ॥ ९९॥

दयासिन्धुर्दयारूपो दयानिधिर्दयापरः ।

दयामूर्तिर्दयादाता दयादानपरायणः ॥ १००॥

देवेशो देवदो देवो देवराजाधिपालकः ।

दीनबन्धुर्दीनदाता दीनोद्धरणदिव्यदृक् ॥ १०१॥

दिव्यदेहो दिव्यरूपो दिव्यासननिवासकः ।

दीर्घकेशो दीर्घपुच्छो दीर्घसूत्रोऽपि दीर्घभुक् ॥ १०२॥

दीर्घदर्शी दूरदर्शी दीर्घबाहुस्तु दीर्घपः ।

दानवारिर्दरिद्रारिर्दैत्यारिर्दस्युभञ्जनः ॥ १०३॥

दंष्ट्री दण्डी दण्डधरो दण्डपो दण्डदायकः ।

दामोदरप्रियो दत्तात्रेयपूजनतत्परः ॥ १०४॥

दर्वीदलहुतप्रीतो दद्रुरोगविनाशकः ।

धर्मो धर्मी धर्मचारी धर्मशास्त्रपरायणः ॥ १०५॥

धर्मात्मा धर्मनेता च धर्मदृग्धर्मधारकः ।

धर्मध्वजो धर्ममूर्तिर्धर्मराजस्य त्रासकः ॥ १०६॥

धाता ध्येयो धनो धन्यो धनदो धनपो धनी ।

धनदत्राणकर्ता च धनपप्रतिपालकः ॥ १०७॥

धरणीधरप्रियो धन्वी धनवद्धनधारकः ।

धन्वीशवत्सलो धीरो धातृमोदप्रदायकः ॥ १०८॥

धात्रैश्वर्यप्रदाता च धात्रीशप्रतिपूजकः ।

धात्रात्मा च धरानाथो धरानाथप्रबोधकः ॥ १०९॥

धर्मिष्ठो धर्मकेतुश्च धवलो धवलप्रियः ।

धवलाचलवासी च धेनुदो धेनुपो धनी ॥ ११०॥

ध्वनिरूपो ध्वनिप्राणो ध्वनिधर्मप्रबोधकः ।

धर्माध्यक्षो ध्वजो धूम्रो धातुरोधिविरोधकः ॥ १११॥

नारायणो नरो नेता नदीशो नरवानरः ।

नन्दीसङ्क्रमणो नाट्यो नाट्यवेत्ता नटप्रियः ॥ ११२॥

नारायणात्मको नन्दी नन्दिश्रृङ्गिगणाधिपः ।

नन्दिकेश्वरवर्मा च नन्दिकेश्वरपूजकः ॥ ११३॥

नरसिंहो नटो नीपो नखयुद्धविशारदः ।

नखायुधो नलो नीलो नलनीलप्रमोदकः ॥ ११४॥

नवद्वारपुराधारो नवद्वारपुरातनः ।

नरनारयणस्तुत्यो नखनाथो नगेश्वरः ॥ ११५॥

नखदंष्ट्रायुधो नित्यो निराकारो निरञ्जनः ।

निष्कलङ्को निरवद्यो निर्मलो निर्ममो नगः ॥ ११६॥

नगरग्रामपालश्च निरन्तो नगराधिपः ।

नागकन्याभयध्वंसी नागारिप्रियनागरः ॥ ११७॥

पीताम्बरः पद्मनाभः पुण्डरीकाक्षपावनः ।

पद्माक्षः पद्मवक्त्रश्च पद्मासनप्रपूजकः ॥ ११८॥

पद्ममाली पद्मपरः पद्मपूजनतत्परः ।

पद्मपाणिः पद्मपादः पुण्डरीकाक्षसेवनः ॥ ११९॥

पावनः पवनात्मा च पवनात्मजः पापहा ।

परः परतरः पद्मः परमः परमात्मकः ॥ १२०॥

पीताम्बरः प्रियः प्रेम प्रेमदः प्रेमपालकः ।

प्रौढः प्रौढपरः प्रेतदोषहा प्रेतनाशकः ॥ १२१॥

प्रभञ्जनान्वयः पञ्च पञ्चाक्षरमनुप्रियः ।

पन्नगारिः प्रतापी च प्रपन्नः परदोषहा ॥ १२२॥

पराभिचारशमनः परसैन्यविनाशकः ।

प्रतिवादिमुखस्तम्भः पुराधारः पुरारिनुत् ॥ १२३॥

पराजितः परम्ब्रह्म परात्परपरात्परः ।

पातालगः पुराणश्च पुरातनः प्लवङ्गमः ॥ १२४॥

पुराणपुरुषः पूज्यः पुरुषार्थप्रपूरकः ।

प्लवगेशः पलाशारिः पृथुकः पृथिवीपतिः ॥ १२५॥

पुण्यशीलः पुण्यराशिः पुण्यात्मा पुण्यपालकः ।

पुण्यकीर्तिः पुण्यगीतिः प्राणदः प्राणपोषकः ॥ १२६॥

प्रवीणश्च प्रसन्नश्च पार्थध्वजनिवासकः ।

पिङ्गकेशः पिङ्गरोमा प्रणवः पिङ्गलप्रणः ॥ १२७॥

पराशरः पापहर्ता पिप्पलाश्रयसिद्धिदः ।

पुण्यश्लोकः पुरातीतः प्रथमः पुरुषः पुमान् ॥ १२८॥

पुराधारश्च प्रत्यक्षः परमेष्ठी पितामहः ।

फुल्लारविन्दवदनः फुल्लोत्कमललोचनः ॥ १२९॥

फूत्कारः फूत्करः फूश्च फूदमन्त्रपरायणः ।

स्फटिकाद्रिनिवासी च फुल्लेन्दीवरलोचनः ॥ १३०॥

वायुरूपी वायुसुतो वाय्वात्मा वामनाशकः ।

वनो वनचरो बालो बालत्राता तु बालकः ॥ १३१॥

विश्वनाथश्च विश्वं च विश्वात्मा विश्वपालकः ।

विश्वधाता विश्वकर्ता विश्ववेत्ता विशाम्पतिः ॥ १३२॥

विमलो विमलज्ञानो विमलानन्ददायकः ।

विमलोत्पलवक्त्रश्च विमलात्मा विलासकृत् ॥ १३३॥

बिन्दुमाधवपूज्यश्च बिन्दुमाधवसेवकः ।

बीजोऽथ वीर्यदो बीजहारी बीजप्रदो विभुः ॥ १३४॥

विजयो बीजकर्ता च विभूतिर्भूतिदायकः ।

विश्ववन्द्यो विश्वगम्यो विश्वहर्ता विराट्तनुः ॥ १३५॥

बुलकारहतारातिर्वसुदेवो वनप्रदः ।

ब्रह्मपुच्छो ब्रह्मपरो वानरो वानरेश्वरः ॥ १३६॥

बलिबन्धनकृद्विश्वतेजा विश्वप्रतिष्ठितः ।

विभोक्ता च वायुदेवो वीरवीरो वसुन्धरः ॥ १३७॥

वनमाली वनध्वंसी वारुणो वैष्णवो बली ।

विभीषणप्रियो विष्णुसेवी वायुगविर्विदुः ॥ १३८॥

विपद्मो वायुवंश्यश्च वेदवेदाङ्गपारगः ।

बृहत्तनुर्बृहत्पादो बृहत्कायो बृहद्यशाः ॥ १३९॥

बृहन्नासो बृहद्बाहुर्बृहन्मूर्तिर्बृहत्स्तुतिः ।

बृहद्धनुर्बृहज्जङ्घो बृहत्कायो बृहत्करः ॥ १४०॥

बृहद्रतिर्बृहत्पुच्छो बृहल्लोकफलप्रदः ।

बृहत्सेव्यो बृहच्छक्तिर्बृहद्विद्याविशारदः ॥ १४१॥

बृहल्लोकरतो विद्या विद्यादाता विदिक्पतिः ।

विग्रहो विग्रहरतो व्याधिनाशी च व्याधिदः ॥ १४२॥

विशिष्टो बलदाता च विघ्ननाशो विनायकः ।

वराहो वसुधानाथो भगवान् भवभञ्जनः ॥ १४३॥

भाग्यदो भयकर्ता च भागो भृगुपतिप्रियः ।

भव्यो भक्तो भरद्वाजो भयाङ्घ्रिर्भयनाशनः ॥ १४४॥

माधवो मधुरानाथो मेघनादो महामुनिः ।

मायापतिर्मनस्वी च मायातीतो मनोत्सुकः ॥ १४५॥

मैनाकवन्दितामोदो मनोवेगी महेश्वरः ।

मायानिर्जितरक्षाश्च मायानिर्जितविष्टपः ॥ १४६॥

मायाश्रयश्च निलयो मायाविध्वंसको मयः ।

मनोयमपरो याम्यो यमदुःखनिवारणः ॥ १४७॥

यमुनातीरवासी च यमुनातीर्थचारणः ।

रामो रामप्रियो रम्यो राघवो रघुनन्दनः ॥ १४८॥

रामप्रपूजको रुद्रो रुद्रसेवी रमापतिः ।

रावणारी रमानाथवत्सलो रघुपुङ्गवः ॥ १४९॥

रक्षोघ्नो रामदूतश्च रामेष्टो राक्षसान्तकः ।

रामभक्तो रामरूपो राजराजो रणोत्सुकः ॥ १५०॥

लङ्काविध्वंसको लङ्कापतिघाती लताप्रियः ।

लक्ष्मीनाथप्रियो लक्ष्मीनारायणात्मपालकः ॥ १५१॥

प्लवगाब्धिहेलकश्च लङ्केशगृहभञ्जनः ।

ब्रह्मस्वरूपी ब्रह्मात्मा ब्रह्मज्ञो ब्रह्मपालकः ॥ १५२॥

ब्रह्मवादी च विक्षेत्रं विश्वबीजं च विश्वदृक् ।

विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वधृक् ॥ १५३॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वेश्वरो विभुः ।

शुक्लः शुक्रप्रदः शुक्रः शुक्रात्मा च शुभप्रदः ॥ १५४॥

शर्वरीपतिशूरश्च शूरश्चाथ श्रुतिश्रवाः ।

शाकम्भरीशक्तिधरः शत्रुघ्नः शरणप्रदः ॥ १५५॥

शङ्करः शान्तिदः शान्तः शिवः शूली शिवार्चितः ।

श्रीरामरूपः श्रीवासः श्रीपदः श्रीकरः शुचिः ॥ १५६॥

श्रीशः श्रीदः श्रीकरश्च श्रीकान्तप्रियः श्रीनिधिः ।

षोडशस्वरसंयुक्तः षोडशात्मा प्रियङ्करः ॥ १५७॥

षडङ्गस्तोत्रनिरतः षडाननप्रपूजकः ।

षट्शास्त्रवेत्ता षड्बाहुः षट्स्वरूपः षडूर्मिपः ॥ १५८॥

सनातनः सत्यरूपः सत्यलोकप्रबोधकः ।

सत्यात्मा सत्यदाता च सत्यव्रतपरायणः ॥ १५९॥

सौम्यः सौम्यप्रदः सौम्यदृक्सौम्यः सौम्यपालकः ।

सुग्रीवादियुतः सर्वसंसारभयनाशनः ॥ १६०॥

सूत्रात्मा सूक्ष्मसन्ध्यश्च स्थूलः सर्वगतिः पुमान् ।

सुरभिः सागरः सेतुः सत्यः सत्यपराक्रमः ॥ १६१॥

सत्यगर्भः सत्यसेतुः सिद्धिस्तु सत्यगोचरः ।

सत्यवादी सुकर्मा च सदानन्दैक ईश्वरः ॥ १६२॥

सिद्धिः साध्यः सुसिद्धश्च सङ्कल्पः सिद्धिहेतुकः ।

सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ १६३॥

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।

सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ १६४॥

सप्तच्छन्दोनिधिः सप्त सप्तपातालसंश्रयः ।

सङ्कर्षणः सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ १६५॥

हनुमान् हर्षदाता च हरो हरिहरीश्वरः ।

क्षुद्रराक्षसघाती च क्षुद्धतक्षान्तिदायकः ॥ १६६॥

अनादीशो ह्यनन्तश्च आनन्दोऽध्यात्मबोधकः ।

इन्द्र ईशोत्तमश्चैव उन्मत्तजन ऋद्धिदः ॥ १६७॥

ऋवर्णो ऌलुपदोपेत ऐश्वर्यं औषधीप्रियः ।

औषधश्चांशुमांश्चैव अकारः सर्वकारणः ॥ १६८॥

इत्येतद्रामदूतस्य नाम्नां चैव सहस्रकम् ।

एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ १६९॥

पठनात्पाठनाद्वापि सर्वा सिद्धिर्भवेत्प्रिये ।

मोक्षार्थी लभते मोक्षं कामार्थी काममाप्नुयात् ॥ १७०॥

विद्यार्थी लभते विद्यां वेदव्याकरणादिकम् ।

इच्छाकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ १७१॥

पुत्रार्थी लभते पुत्रं वरायुस्सहितं पुमान् ।

क्षेत्रं च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ १७२॥

दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ।

दुःखौघो नश्यते तस्य सम्पत्तिर्वर्द्धते चिरम् ॥ १७३॥

चतुर्विधं वस्तु तस्य भवत्येव न संशयः ।

अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ १७४॥

त्रिकालं पठनात्तस्य सिद्धिः स्यात्करसंस्थिता ।

अर्धरात्रे रवौ धृत्वा कण्ठदेशे नरः शुचिः ॥ १७५॥

दशावर्तं पठेन्मर्त्यः सर्वान्कामानवाप्नुयात् ।

भौमे निशान्ते न्यग्रोधमूले स्थित्वा विचक्षणः ॥ १७६॥

दशावर्तं पठेन्मर्त्यः सार्वभौमः प्रजायते ।

अर्कमूलेऽर्कवारे तु यो मध्याह्ने शुचिर्जपेत् ॥ १७७॥

चिरायुः स सुखी पुत्री विजयी जायते क्षणात् ।

ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं च पठेन्नरः ॥ १७८॥

यं यं कामयते कामं लभते तं न संशयः ।

सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं परम् ॥ १७९॥

डाकिनीभूतप्रेतेषु ग्रहपीडाहरं तथा ।

ज्वरापस्मारशमनं यक्ष्मप्लीहादिवारणम् ॥ १८०॥

सर्वसौख्यप्रदं स्तोत्रं सर्वसिद्धिप्रदं तथा ।

सर्वान्कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १८१॥

इति श्रीरुद्रयामलतः श्रीहनुमत्सहस्रनामस्तोत्रं सम्पूर्णम् ।

|| हनुमत्सहस्रनामस्तोत्रम्, श्रीहनुमत्सहस्रनामावलिः ||

श्रीहनुमत्सहस्रनामावलिः

रुद्रयामलतः
ॐ नमः । ओङ्कारनमोरूपाय । ॐ नमोरूपपालकाय ।
ओङ्कारमयाय । ओङ्कारकृते । ओङ्कारात्मने । सनातनाय ।
ब्रह्मब्रह्ममयाय । ब्रह्मज्ञानिने । ब्रह्मस्वरूपविदे ।
कपीशाय । कपिनाथाय । कपिनाथसुपालकाय । कपिनाथप्रियाय । कालाय ।
कपिनाथस्य घातकाय । कपिनाथशोकहर्त्रे । कपिभर्त्रे । कपीश्वराय ।
कपिजीवनदात्रे नमः ॥ २०॥

कपिमूर्तये । कपये भृताय । कालात्मने । कालरूपिणे । कालकालाय ।
कालभुजे । कालज्ञानिने । कालकर्त्रे । कालहानये । कलानिधये ।
कलानिधिप्रियाय । कर्त्रे । कलानिधिसमप्रभाय । कलापिने । कलापात्रे ।
कीशत्रात्रे । किशाम्पतये । कमलापतिप्रियाय । काकस्वरघ्नाय नमः ॥ ४०॥

कुलपालकाय नमः । कुलभर्त्रे । कुलत्रात्रे । कुलाचारपरायणाय ।
काश्यपाह्लादकाय । काकध्वंसिने । कर्मकृतां पतये । कृष्णाय ।
कृष्णस्तुतये । कृष्ण कृष्ण रूपाय । महात्मवते । कृष्णवेत्रे ।
कृष्णभर्त्रे । कपीशाय । क्रोधवते । कपये । कालरात्रये । कुबेराय ।
कुबेरवनपालकाय । कुबेरधनदात्रे नमः । ६०

कौसल्यानन्दजीवनाय नमः । कोसलेशप्रियाय । केतवे ।
कपालिने । कामपालकाय । कारुण्याय । करुणारूपाय ।
करुणानिधिविग्रहाय । कारुण्यकर्त्रे । कारुण्यदात्रे । कपये साध्याय ।
कृतान्तकाय । कूर्माय । कूर्मपतये । कूर्मभर्त्रे । कूर्मस्य प्रेमवते ।
कुक्कुटाय । कुक्कुटाह्वानाय । कुञ्जराय । कमलाननाय नमः । ८०

कुञ्जराय नमः । कलभाय । केकिनादजिते । कल्पजीवनाय ।
कल्पान्तवासिने । कल्पान्तदात्रे । कल्पविबोधकाय । कलभाय । कलहस्ताय ।
कम्पाय । कम्पपतये । कर्मफलप्रदाय । कर्मणे । कमनीयाय ।
कलापवते । कमलासनबन्धाय । कम्पाय । कमलासनपूजकाय ।
कमलासनप्रियाय नमः । कम्बवे । कम्बुकण्ठाय । कामदुहे ।

किञ्जल्करूपिणे । किञ्जल्काय । किञ्जल्कावनिवासकाय ।
खननार्थप्रियाय । खड्गिने । खगनाथप्रहारकाय । खगनाथसुपूज्याय ।
खगनाथप्रबोधकाय । खगनाथवरेण्याय । खरध्वंसिने ।
खरान्तकाय । खरारिप्रियबन्धवे । खरारिजीवनाय । खङ्गहस्ताय ।
खङ्गधनाय । खङ्गहानिने नमः ॥ १२०॥

खङ्गपाय नमः । खञ्जरीटप्रियाय । खञ्जाय ।
खञ्जत्रात्रे खेचरात्मने । खरारिजिते । खञ्जरीटपतयेति पूज्याय ।
खञ्जरीटपचञ्चलाय । खद्योतबन्धवे । खद्योताय । खद्योतनप्रियाय ।
गरुत्मते । गरुडाय । गोप्याय । गरुत्मद्दर्पहारकाय । गर्विष्ठाय ।
गर्वहर्त्रे । गाणाय नमः । गुणसेविने । गुणान्विताय । गुणत्रात्रे ।

गुणरताय । गुणवन्तप्रियाय । गुणिने । गणेशाय । गणपातिने ।
गणरूपाय । गणप्रियाय । गम्भीराय । गुणाकाराय । गरिम्णे ।
गरिमप्रदाय । गणरक्षाय । गणहराय । गणदाय । गणसेविताय ।
गवांशाय नमः । गवयत्रात्रे नमः । गर्जिताय । गणाधिपाय ।

गन्धमादनहर्त्रे । गन्धमादनपूजकाय । गन्धमादनसेविने ।
गन्धमादनरूपधृशे । गुरवे । गुरुप्रियाय । गौराय । गुरुसेव्याय ।
गुरून्नताय । गुरुगीतापराय । गीताय । गीतविद्यागुरवे । गुरवे ।
गीताप्रियाय । गीतरताय । गीतज्ञाय । गीतवते नमः । १८०

गायत्र्या जापकाय नमः । गोष्ठाय । गोष्ठदेवाय । गोष्ठपाय ।

गोष्पदीकृतवारीशाय । गोविन्दाय । गोपबन्धकाय । गोवर्धनधराय ।

गर्वाय । गोवर्धनप्रपूजकाय । गन्धर्वाय । गन्धर्वरताय ।

गन्धर्वानन्दनन्दिताय । गन्धाय । गदाधराय । गुप्ताय । गदाढ्याय ।

गुह्यकेश्वराय । गिरिजापूजकाय । गिरे नमः । २००

गीर्वाणाय नमः । गोष्पतये । गिरये । गिरिप्रियाय । गर्भाय ।

गर्भपाय । गर्भवासकाय । गभस्तिग्रासकाय । ग्रासाय । ग्रासदात्रे ।

ग्रहेश्वराय । ग्रहाय । ग्रहेशानाय । ग्रहाय । ग्रहदोषविनाशनाय ।

ग्रहारूढाय । ग्रहपतये । ग्रहणाय । ग्रहणाधिपाय । गोलिने नमः । २२०

गव्याय नमः । गवेशाय । गवाक्षमोक्षदायकाय । गणाय । गम्याय ।

गणदात्रे । गरुडध्वजवल्लभाय । गेहाय । गेहप्रदाय । गम्याय ।

गीतागानपरायणाय । गह्वराय । गह्वरत्राणाय । गर्गाय ।

गर्गेश्वरप्रदाय । गर्गप्रियाय । गर्गरताय । गौतमाय । गौतमप्रदाय ।

गङ्गास्नायिने नमः । २४०

गयानाथाय नमः । गयापिण्डप्रदायकाय । गौतमीतीर्थचारिणे ।

गौतमीतीर्थपूजकाय । गणेन्द्राय । गणत्रात्रे । ग्रन्थदाय ।

ग्रन्थकारकाय । घनाङ्गाय । घाय । घातकाय । घोराय । घोररूपिणे ।

घनप्रदाय । घोरदंष्ट्राय । घोरनखाय । घोरघातिने । घनेतराय ।

घोरराक्षसघातिने । घोररूप्यघदर्पघ्ने नमः । २६०

घर्माय नमः । घर्मप्रदाय । घर्मरूपिणे । घनाघनाय ।

घनध्वनिरताय । घण्टावाद्यप्रियाय । घृणाकराय । घोघाय ।

घनस्वनाय । घूर्णाय । घूर्णिताय । घनालयाय । ङकाराय । ङप्रदाय ।

ङान्ताय । चन्द्रिकामोदमोदकाय । चन्द्ररूपाय । चन्द्रवन्द्याय ।

चन्द्रात्मने । चन्द्रपूजकाय नमः । २८०

चन्द्रप्रेम्णे नमः । चन्द्रबिम्बाय । चामरप्रियाय । चञ्चलाय ।

चन्द्रवक्त्राय । चकोराक्षाय । चन्द्रनेत्राय । चतुर्भुजाय ।

चञ्चलात्मने ।

चराय । चर्मिणे । चलत्खञ्जनलोचनाय । चिद्रूपाय । चित्रपानाय ।

चलच्चित्तचितार्चिताय । चिदानन्दाय । चिताय । चैत्राय ।

चन्द्रवंशस्य पालकाय । छत्राय नमः । ३००

छत्रप्रदाय नमः । छत्रिणे । छत्ररूपिणे । छिदाञ्छदाय । छलघ्ने ।

छलदाय । छिन्नाय । छिन्नघातिने । क्षपाकराय । छद्मरूपिणे ।

छद्महारिणे । छलिने । छलतरवे । छायाकरद्युतये । छन्दाय ।

छन्दविद्याविनोदकाय । छिन्नारातये । छिन्नपापाय ।

छन्दवारणवाहकाय । छन्दसे नमः । ३२०

छ(क्ष)त्रहनाय । छि(क्षि)प्राय ।

छ(क्ष)वनाय । छन्मदाय । छ(क्ष)मिने ।

क्षमागाराय । क्षमाबन्धाय । क्षपापतिप्रपूजकाय ।

छलघातिने । छिद्रहारिणे । छिद्रान्वेषणपालकाय । जनाय । जनार्दनाय ।

जेत्रे । जितारये । जितसङ्गराय । जितमृत्यवे । जरातीताय ।

जनार्दनप्रियाय । जयाय नमः । ३४०

जयदाय नमः । जयकर्त्रे । जयपाताय । जयप्रियाय । जितेन्द्रियाय ।

जितारातये । जितेन्द्रियप्रियाय । जयिने । जगदानन्ददात्रे ।

जगदानन्दकारकाय । जगद्वन्द्याय । जगज्जीवाय । जगतामुपकारकाय ।

जगद्धात्रे । जगद्धारिणे । जगद्बीजाय । जगत्पित्रे । जगत्पतिप्रियाय ।

जिष्णवे । जिष्णुजिते नमः । ३६०

जिष्णुरक्षकाय नमः । जिष्णुवन्द्याय । जिष्णुपूज्याय ।

जिष्णुमूर्तिविभूषिताय । जिष्णुप्रियाय । जिष्णुरताय ।

जिष्णुलोकाभिवासकाय । जयाय । जयप्रदाय । जायाय । जायकाय ।

जयजाड्यघ्ने । जयप्रियाय । जनानन्दाय । जनदाय । जनजीवनाय ।

जयानन्दाय । जपापुष्पवल्लभाय । जयपूजकाय । जाड्यहर्त्रे नमः । ३८०

जाड्यदात्रे नमः । जाड्यकर्त्रे । जडप्रियाय । जगन्नेत्रे ।

जगन्नाथाय । जगदीशाय । जनेश्वराय । जगन्मङ्गलदाय । जीवाय ।

जगत्यवनपावनाय । जगत्त्राणाय । जगत्प्राणाय ।

जानकीपतिवत्सलाय । जानकीपतिपूज्याय । जानकीपतिसेवकाय ।

जानकीशोकहारिणे । जानकीदुःखभञ्जनाय । यजुर्वेदाय । यजुर्वक्त्रे ।

यजुःपाठप्रियाय । व्रतिने नमः । ४००

जिष्णवे नमः । जिष्णुकृताय । जिष्णुधात्रे । जिष्णुविनाशनाय ।

जिष्णुघ्ने । जिष्णुपातिने । जिष्णुराक्षसघातकाय । जातीनामग्रगण्याय ।

जातीनां वरदायकाय । झुञ्झुराय । झूझुराय । झूर्झनवराय ।

झञ्झानिषेविताय । झिल्लीरवस्वराय । ञन्ताय । ञवर्णाय । ञनताय ।

ञदाय । टकारादये । टकारान्ताय । टवर्णाष्टप्रपूजकाय नमः । ४२०

टिट्टिभाय नमः । टिट्टिभस्तष्टये । टिट्टिभप्रियवत्सलाय ।

ठकारवर्णनिलयाय । ठकारवर्णवासिताय । ठकारवीरभरिताय ।

ठकारप्रियदर्शकाय । डाकिनीनिरताय । डङ्काय । डङ्किनीप्राणहारकाय ।

डाकिनीवरदात्रे । डाकिनीभयनाशनाय । डिण्डिमध्वनिकर्त्रे । डिम्भाय ।

डिम्भातरेतराय । डक्काढक्कानवाय । ढक्कावाद्याय । ढक्कामहोत्सवाय ।

णान्त्याय । णान्ताय नमः । ४४०

णवर्णाय । णसेव्याय । णप्रपूजकाय । तन्त्रिणे । तन्त्रप्रियाय ।

तल्पाय । तन्त्रजिते । तन्त्रवाहकाय । तन्त्रपूज्याय । तन्त्ररताय ।

तन्त्रविद्याविशारदाय । तन्त्रयन्त्रजयिने । तन्त्रधारकाय ।

तन्त्रवाहकाय । तन्त्रवेत्त्रे । तन्त्रकर्त्रे । तन्त्रयन्त्रवरप्रदाय ।

तन्त्रदाय । तन्त्रदात्रे । तन्त्रपाय नमः । ४६०

तन्त्रदायकाय नमः । तत्त्वदात्रे । तत्त्वज्ञाय । तत्त्वाय ।

तत्त्वप्रकाशकाय । तन्द्रायै । तपनाय । तल्पतलातलनिवासकाय ।

तपसे । तपःप्रियाय । तापत्रयतापिने । तपःपतये । तपस्विने ।

तपोज्ञात्रे । तपतामुपकारकाय । तपसे । तपोत्रपाय । तापिने । तापदाय ।

तापहारकाय नमः । ४८०

तपःसिद्धये नमः । तपोऋद्धये । तपोनिधये । तपःप्रभवे । तीर्थाय ।

तीर्थरताय । तीव्राय । तीर्थवासिने । तीर्थदाय । तीर्थपाय ।

तीर्थकृते । तीर्थस्वामिने । तीर्थविरोधकाय । तीर्थसेविने ।

तीर्थपतये । तीर्थव्रतपरायणाय । त्रिदोषघ्ने । त्रिनेत्राय ।

त्रिनेत्रप्रियबालकाय । त्रिनेत्रप्रियदासाय नमः । ५००

त्रिनेत्रप्रियपूजकाय नमः । त्रिविक्रमाय । त्रिपादूर्ध्वाय । तरणये ।

तारणये । तमसे । तमोरूपिणे । तमोध्वंसिने । तमस्तिमिरघातकाय ।

तमोघृषे । तमसस्तप्ततारणये । तमसोऽन्तकाय । तमोहृते ।

तमकृते । ताम्राय । ताम्रौषधिगुणप्रदाय । तैजसाय । तेजसाम्मूर्तये ।

तेजसः प्रतिपालकाय । तरुणाय नमः । ५२०

तर्कविज्ञात्रे नमः । तर्कशास्त्रविशारदाय । तिमिङ्गिलाय ।

तत्त्वकर्त्रे । तत्त्वदात्रे । तत्त्वविदे । तत्त्वदशिर्ने । तत्त्वगामिने ।

तत्त्वभुजे । तत्त्ववाहनाय ।

त्रिदिवाय । त्रिदिवेशाय । त्रिकालाय । तमिस्रघ्ने ।

स्थाणवे । स्थाणुप्रियाय । स्थाणवे । सर्वतोवासकाय ।

दयासिन्धवे । दयारूपाय नमः । ५४०

दयानिधये नमः । दयापराय । दयामूर्तये । दयादात्रे ।

दयादानपरायणाय । देवेशाय । देवदाय । देवाय । देवराजाधिपालकाय ।

दीनबन्धवे । दीनदात्रे । दीनोद्धरणाय । दिव्यदृशे । दिव्यदेहाय ।

दिव्यरूपाय । दिव्यासननिवासकाय । दीर्घकेशाय । दीर्घपुच्छाय ।

दीर्घदशिर्ने नमः । दूरदर्शिने । दीर्घबाहवे । दीर्घपाय ।

दानवारये । दरिद्रारये । दैत्यारये । दस्युभञ्जनाय । दंष्ट्रिणे ।

दण्डिने । दण्डधराय । दण्डपाय । दण्डप्रदायकाय । दामोदरप्रियाय ।

दत्तात्रेयपूजनतत्पराय । दर्वीदलहुतप्रीताय । दद्रुरोगविनाशकाय ।

धर्माय । धर्मिणे । धर्मचारिणे नमः । ५८०

धर्मशास्त्रपरायणाय नमः । धर्मात्मने । धर्मनेत्रे । धर्मदृशे ।

धर्मधारकाय । धर्मध्वजाय । धर्ममूर्तये । धर्मराजस्य त्रायकाय ।

धात्रे । ध्येयाय । धनाय । धन्याय । धनदाय । धनपाय । धनिने ।

धनदत्राणकर्त्रे । धनपप्रतिपालकाय । धरणीधरप्रियाय । धन्विने ।

धनवद्धनधारकाय नमः । ६००

धन्वीशवत्सलाय नमः । धीराय । धातृमोदप्रमोदकाय ।

धात्रैश्वर्यदात्रे । धात्रीशप्रतिपूजकाय । धात्रात्मने । धरानाथाय ।

धरानाथप्रबोधकाय । धर्मिष्ठाय । धर्मकेतवे । धवलाय ।

धवलप्रियाय । धवलाचलवासिने । धेनुदाय । धेनुपाय । धनिने ।

ध्वनिरूपाय ।

ध्वनिप्राणाय । ध्वनिधर्मप्रबोधकाय । धर्माध्यक्षाय नमः । ६२०

ध्वजाय नमः । धूम्राय । धातुरोधिविरोधकाय । नारायणाय ।

नराय । नेत्रे । नदीशाय । नरवानराय । नदीसङ्क्रमणाय । नाट्याय ।

नाट्यवेत्त्रे । नटप्रियाय । नारायणात्मकाय । नन्दिने ।

नन्दिश‍ृङ्गिगणाधिपाय । नन्दिकेश्वरवर्मणे । नन्दिकेश्वरपूजकाय ।

नरसिंहाय । नटाय । नीपाय नमः । ६४०

नखयुद्धविशारदाय नमः । नखायुधाय । नलाय । नीलाय ।

नलनीलप्रमोदकाय । नवद्वारपुराधाराय । नवद्वारपुरातनाय ।

नरनारायणस्तुत्याय । नवनाथाय । नगेश्वराय । नखदंष्ट्रायुधाय ।

नित्याय । निराकाराय । निरञ्जनाय । निष्कलङ्काय । निरवद्याय ।

निर्मलाय । निर्ममाय । नगाय । नगरग्रामपालाय नमः । ६६०

निरन्ताय नमः । नगराधिपाय । नागकन्याभयध्वंसिने ।

नागारिप्रियाय । नागराय । पीताम्बराय । पद्मनाभाय ।

पुण्डरीकाक्षपावनाय । पद्माक्षाय । पद्मवक्त्राय । पद्मासनप्रपूजकाय ।

पद्ममालिने । पद्मपराय । पद्मपूजनतत्पराय । पद्मपाणये । पद्मपादाय ।

पुण्डरीकाक्षसेवनाय । पावनाय । पवनात्मने । पवनात्मजाय नमः । ६८०

पापघ्ने । पराय । परतराय । पद्माय । परमाय । परमात्मकाय ।

पीताम्बराय । प्रियाय । प्रेम्णे । प्रेमदाय । प्रेमपालकाय । प्रौढाय ।

प्रौढपराय । प्रेतदोषघ्ने । प्रेतनाशकाय । प्रभञ्जनान्वयाय ।

पञ्चभ्यः । पञ्चाक्षरमनुप्रियाय । पन्नगारये । प्रतापिने नमः । ७००

प्रपन्नाय नमः । परदोषघ्ने । पराभिचारशमनाय ।

परसैन्यविनाशकाय । प्रतिवादिमुखस्तम्भाय । पुराधाराय । पुरारिनुते ।

पराजिताय । परस्मै ब्रह्मणे । परात्परपरात्पराय । पातालगाय ।

पुराणाय । पुरातनाय । प्लवङ्गमाय । पुराणपुरुषाय । पूज्याय ।

पुरुषार्थप्रपूरकाय । प्लवगेशाय । पलाशारये । पृथुकाय नमः । ७२०

पृथिवीपतये नमः । पुण्यशीलाय । पुण्यराशये । पुण्यात्मने ।

पुण्यपालकाय । पुण्यकीर्तये । पुण्यगीतये । प्राणदाय । प्राणपोषकाय ।

प्रवीणाय । प्रसन्नाय । पार्थध्वजनिवासकाय । पिङ्गकेशाय ।

पिङ्गरोम्णे । प्रणवाय । पिङ्गलप्रणाय । पराशराय । पापहर्त्रे ।

पिप्पलाश्रयसिद्धिदाय । पुण्यश्लोकाय नमः । ७४०

पुरातीताय नमः । प्रथमाय । पुरुषाय । पुंसे । पुराधाराय ।

प्रत्यक्षाय । परमेष्ठिने । पितामहाय । फुल्लारविन्दवदनाय ।

फुल्लोत्कमललोचनाय । फूत्काराय । फूत्कराय । फुवे ।

फूदमन्त्रपरायणाय । स्फटिकाद्रिनिवासिने । फुल्लेन्दीवरलोचनाय ।

वायुरूपिणे । वायुसुताय । वाय्वात्मने । वामनाशकाय नमः । ७६०

वनाय नमः । वनचराय । बालाय । बालत्रात्रे । बालकाय ।

विश्वनाथाय । विश्वाय । विश्वात्मने । विश्वपालकाय । विश्वधात्रे ।

विश्वकर्त्रे । विश्ववेत्त्रे । विशाम्पतये । विमलाय । विमलज्ञानाय ।

विमलानन्ददायकाय । विमलोत्पलवक्त्राय । विमलात्मने ।

विलासकृते । बिन्दुमाधवपूज्याय नमः । ७८०

बिन्दुमाधवसेवकाय नमः । बीजाय । वीर्यदाय । बीजहारिणे ।

बीजप्रदाय । विभवे । विजयाय । बीजकर्त्रे । विभूतये । भूतिदायकाय ।

विश्ववन्द्याय । विश्वगम्याय । विश्वहर्त्रे । विराट्तनवे ।

बुलकारहतारातये । वसुदेवाय । वनप्रदाय । ब्रह्मपुच्छाय ।

ब्रह्मपराय । वानराय नमः ॥ ८००॥

 

वानरेश्वराय नमः । बलिबन्धनकृते । विश्वतेजसे ।

विश्वप्रतिष्ठिताय । विभोक्त्रे । वायुदेवाय । वीरवीराय । वसुन्धराय ।

वनमालिने । वनध्वंसिने । वारुणाय । वैष्णवाय । बलिने ।

विभीषणप्रियाय । विष्णुसेविने । वायुगवये । विदुषे । विपद्याय ।

वायुवंश्याय । वेदवेदान्तपारगाय नमः । ८२०

बृहत्तनवे नमः । बृहत्पादाय । बृहत्कायाय । बृहद्यशसे ।

बृहन्नासाय । बृहद्बाहवे । बृहन्मूर्तये । बृहत्स्तुतये ।

बृहद्धनुषे । बृहज्जङ्घाय । बृहत्कायाय । बृहत्कराय ।

बृहद्रतये । बृहत्पुच्छाय । बृहल्लोकफलप्रदाय । बृहत्सेव्याय ।

बृहच्छक्तये । बृहद्विद्याविशारदाय । बृहल्लोकरताय ।

विद्यायै नमः । ८४०

विद्यादात्रे नमः । विदिक्पतये । विग्रहाय । विग्रहरताय ।

व्याधिनाशिने । व्याधिदाय । विशिष्टाय । बलदात्रे । विघ्ननाशाय ।

विनायकाय । वराहाय । वसुधानाथाय । भगवते । भयभञ्जनाय ।

भाग्यदाय । भयकर्त्रे । भागाय । भृगुपतिप्रियाय । भव्याय ।

भक्ताय नमः । ८६०

भरद्वाजाय नमः । भयाङ्घ्रये । भयनाशनाय । माधवाय ।

मधुरानाथाय । मेघनादाय । महामुनये । मायापतये । मनस्विने ।

मायातीताय । मनोत्सुकाय । मैनाकवन्दितामोदाय । मनोवेगिने ।

महेश्वराय । मायानिर्जितरक्षसे । मायानिर्जितविष्टपाय ।

मायाश्रयाय निलयाय । मायाविध्वंसकाय । मयाय ।

मनोयमपराय नमः । ८८०

याम्याय नमः । यमदुःखनिवारणाय । यमुनातीरवासिने ।

यमुनातीर्थचारणाय । रामाय । रामप्रियाय । रम्याय । राघवाय ।

रघुनन्दनाय । रामप्रपूजकाय । रुद्राय । रुद्रसेविने । रमापतये ।

रावणारये । रमानाथवत्सलाय । रघुपुङ्गवाय । रक्षोघ्नाय ।

रामदूताय । रामेष्टाय । राक्षसान्तकाय नमः ९००

रामभक्ताय नमः । रामरूपाय । राजराजाय । रणोत्सुकाय ।

लङ्काविध्वंसकाय । लङ्कापतिघातिने । लताप्रियाय ।

लक्ष्मीनाथप्रियाय । लक्ष्मीनारायणात्मपालकाय । प्लवगाब्धिहेलकाय ।

लङ्केशगृहभञ्जनाय । ब्रह्मस्वरूपिणे । ब्रह्मात्मने । ब्रह्मज्ञाय ।

ब्रह्मपालकाय । ब्रह्मवादिने । विक्षेत्राय । विश्वबीजाय । विश्वदृशे ।

विश्वम्भराय नमः । ९२०

विश्वमूर्तये नमः । विश्वाकाराय । विश्वधृषे । विश्वात्मने ।

विश्वसेव्याय । विश्वाय । विश्वेश्वराय । विभवे । शुक्लाय ।

शुक्रप्रदाय । शुक्रात्मने । शुभप्रदाय । शर्वरीपतिशूराय । शूराय ।

श्रुतिश्रवसे । शाकम्भरीशक्तिधराय । शत्रुघ्नाय । शरणप्रदाय ।

शङ्कराय । शान्तिदाय नमः । ९४०

शान्ताय नमः । शिवाय । शूलिने । शिवार्चिताय । श्रीरामरूपाय ।

श्रीवासाय । श्रीपदाय । श्रीकराय । शुचये । श्रीशाय । श्रीदाय ।

श्रीकराय । श्रीकान्तप्रियाय । श्रीनिधये । षोडशस्वरसंयुक्ताय ।

षोडशात्मने प्रियङ्कराय । षडङ्गस्तोत्रनिरताय । षडाननप्रपूजकाय ।

षट्शास्त्रवेत्त्रे । षड्बाहवे नमः । ९६०

षट्स्वरूपाय नमः । षडूर्मिपाय । सनातनाय । सत्यरूपाय ।

सत्यलोकप्रबोधकाय । सत्यात्मने । सत्यदात्रे । सत्यव्रतपरायणाय ।

सौम्याय । सौम्यप्रदाय । सौम्यदृक्सौम्याय । सौम्यपालकाय ।

सुग्रीवादियुताय । सर्वसंसारभयनाशनाय । सूत्रात्मने । सूक्ष्मसन्ध्याय ।

स्थूलाय । सर्वगतये पुंसे । सुरभये । सागराय नमः । ९८०

सेतवे नमः । सत्याय । सत्यपराक्रमाय । सत्यगर्भाय । सत्यसेतवे ।
सिद्धये । सत्यगोचराय । सत्यवादिने । सुकर्मणे । सर्वानन्दैकाय ।
ईश्वराय । सिद्धये साध्याय । सुसिद्धाय । सिद्धिहेतुकाय सङ्कल्पाय ।
सप्तपातालचरणाय । सप्तर्षिगणवन्दिताय । सप्ताब्धिलङ्घनाय वीराय ।
सप्तद्वीपोरुमण्डलाय । सप्ताङ्गराज्यसुखदाय । सप्तमातृनिषेविताय ।
सप्तच्छन्दोनिधये नमः । १०००

सप्तसप्तपातालसंश्रयाय नमः । सङ्कर्षणाय । सहस्रास्याय ।
सहस्राक्षाय । सहस्रपदे । हनुमते । हर्षदात्रे । हराय ।
हरिहरीश्वराय । क्षुद्रराक्षसघातिने । क्षुद्धतक्षान्तिदायकाय ।
अनादीशाय । अनन्ताय । आनन्दाय । अध्यात्मबोधकाय । इन्द्राय । ईशोत्तमाय ।
उन्मत्तजनऋद्धिदाय । ऋवर्णाय । ऌपदोपेताय । ऐश्वर्याय ।
ओषधीप्रियाय । औषधाय । अंशुमते । सर्वकारणाय । अकाराय ।

हनुमत्सहस्रनामस्तोत्रम्, श्रीहनुमत्सहस्रनामावलिः समाप्त

Leave a Reply

Your email address will not be published. Required fields are marked *