कामकलाकाली सहस्रनाम स्तोत्रम् || Kamakalakali Sahastranam Stotram

0

आप महाकालसंहिता के कामकलाखण्ड पढ़ रहे हैं । महाकाल कामकलाकाली के रहस्य को देवी को बतला रहे हैं । अब आगे महाकालसंहिता कामकलाखण्ड पटलसंख्या २५२ में महाकाल, देवी से श्रीकामकलाकाली सहस्रनाम स्तोत्रम् कहतेहैं ।

|| अथ श्रीकामकलाकाली सहस्रनाम स्तोत्रम् ||

देव्युवाच ।

त्वत्तः श्रुतं मया नाथ देव देव जगत्पते ।

देव्याः कामकलाकाल्या विधानं सिद्धिदायकम् ॥ १॥

त्रैलोक्यविजयस्यापि विशेषेण श्रुतो मया ।

तत्प्रसङ्गेन चान्यासां मन्त्रध्याने तथा श्रुते ॥ २॥

इदानीं जायते नाथ शुश्रुषा मम भूयसी ।

नाम्नां सहस्रे त्रिविधमहापापौघहारिणि ॥ ३॥

श्रुतेन येन देवेश धन्या स्यां भाग्यवत्यपि ।

श्रीमहाकाल उवाच ।

भाग्यवत्यसि धन्यासि सन्देहो नात्र भाविनि ॥ ४॥

सहस्रनामश्रवणे यस्मात्ते निश्चितं मनः ।

तस्या नाम्नान्तु लक्षाणि विद्यन्ते चाथ कोटयः ॥ ५॥

तान्यल्पायुर्मतित्वेन नृभिर्द्धारयितुं सदा ।

अशक्यानि वरारोहे पठितुं च दिने दिने ॥ ६॥

तेभ्यो नामसहस्राणि साराण्युद्धृत्य शम्भुना ।

अमृतानीव दुग्धाव्धेर्भूदेवेभ्यः समर्पितं ॥ ७॥

कानिचित्तत्र गौणानि गदितानि शुचिस्मिते ।

रूढाण्याकारहीनत्वाद् गौणानि गुणयोगतः ॥ ८॥

राहित्याद्रूढिगुणयोस्तानि साङ्केतकान्यपि ।

त्रिविधान्यपि नामानि पठितानि दिने दिने ॥ ९॥

राधयन्नीक्षितानर्थान्ददत्यमृतमत्ययं ।

क्षपयत्यपमृत्युं च मारयन्ति द्विपोऽखिलान् ॥ १०॥

घ्नन्ति रोगानथोत्पातान्मङ्गलं कुर्वतेन्वहं ।

किमुतान्यत् सदा सन्निधापयत्यऽर्थिकामपि ॥ ११॥

त्रिपुरघ्नोऽप्यदोनामसहस्रं पठति प्रिये ।

तदाज्ञयाप्यहमपि कीर्तयामि दिनेदिने । १२॥

भवत्यपीदमस्मत्तः शिक्षित्वा तु पठिष्यति ।

भविष्यति च निर्णीतं चतुर्वर्गस्य भाजनं ॥ १३॥

मनोन्यतो निराकृत्य सावधाना निशामय ।

नाम्नां कामकलाकाल्याः सहस्रं मुक्तिदायकं ॥ १४॥

श्रीकामकलाकाली सहस्रनामस्तोत्रम् विनियोग
ॐ अस्य कामकलाकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्नऋषिः अनुष्टुप् छन्दः त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता क्लीं बीजं स्फ्रों शक्तिः हुं कीलकं क्ष्रौं तत्त्वं श्रीकामकलाकालीसहस्रनामस्तोत्रपाठे जपे विनियोगः । ॐ तत्सत् ॥

श्रीकामकलाकाली सहस्रनाम

ॐ क्लीं कामकलाकाली कालरात्रिः कपालिनी ।

कात्यायनी च कल्याणी कालाकारा करालिनी ॥ १५॥

उग्रमूर्तिर्महाभीमा घोररावा भयङ्करा ।

भूतिदामयहन्त्री च भवबन्धविमोचनी ॥ १६॥

भव्या भवानी भोगाढ्या भुजङ्गपतिभूषणा ।

महामाया जगद्धात्री पावनी परमेश्वरी ॥ १७॥

योगमाता योगगम्या योगिनी योगिपूजिता ।

गौरी दुर्गा कालिका च महाकल्पान्तनर्तकी ॥ १८॥

अव्यया जगदादिश्च विधात्री कालमर्द्दिनी ।

नित्या वरेण्या विमला देवाराध्यामितप्रभा ॥ १९॥

भारुण्डा कोटरी शुद्धा चञ्चला चारुहासिनी ।

अग्राह्यातीन्द्रियागोत्रा चर्चरोर्द्ध्वशिरोरुहा ॥ २०॥

कामुकी कमनीया च श्रीकण्ठमहिषी शिवा ।

मनोहरा माननीया मतिदा मणिभूषणा ॥ २१॥

श्मशाननिलया रौद्रा मुक्तकेश्यट्टहासिनी ।

चामुण्डा चण्डिका चण्डी चार्वङ्गी चरितोज्ज्वला ॥ २२॥

घोरानना धूम्रशिखा कंपना कंपितानना ।

वेपमानतनुर्भीदा निर्भया बाहुशालिनी ॥ २३॥

उल्मुकाक्षी सर्पकर्णी विशोका गिरिनन्दिनी ।

ज्योत्स्नामुखी हास्यपरा लिङ्गालिङ्गधरा सती ॥ २४॥

अविकारा महाचित्रा चन्द्रवक्त्रा मनोजवा ।

अदर्शना पापहरा श्यामला मुण्डमेखला ॥ २५॥

मुण्डावतंसिनी नीला प्रपन्नानन्ददायिनी ।

लघुस्तनी लम्वकुचा धूर्णमाना हराङ्गना ॥ २६॥

विश्वावासा शान्तिकरी दीर्घकेश्यरिखण्डिनी ।

रुचिरा सुन्दरी कम्रा मदोन्मत्ता मदोत्कटा ॥ २७॥

अयोमुखी वह्निमुखी क्रोधनाऽभयदेश्वरी ।

कुडम्बिका साहसिनी खङ्गकी रक्तलेहिनी ॥ २८॥

विदारिणी पानरता रुद्राणी मुण्डमालिनी ।

अनादिनिधना देवी दुर्न्निरीक्ष्या दिगम्बरा ॥ २९॥

विद्युज्जिह्वा महादंष्ट्रा वज्रतीक्ष्णा महास्वना ।

उदयार्कसमानाक्षी विन्ध्यशैलसमाकृतिः ॥ ३०॥

नीलोत्पलदलश्यामा नागेन्द्राष्टकभूषिता ।

अग्निज्वालकृतावासा फेत्कारिण्यहिकुण्डला ॥ ३१॥

पापघ्नी पालिनी पद्मा पूण्या पुण्यप्रदा परा ।

कल्पान्ताम्भोदनिर्घोषा सहस्रार्कसमप्रभा ॥ ३२॥

सहस्रप्रेतराट् क्रोधा सहस्रेशपराक्रमा ।

सहस्रधनदैश्वर्या सहस्राङ्घ्रिकराम्बिका ॥ ३३॥

सहस्रकालदुष्प्रेक्ष्या सहस्रेन्द्रियसञ्चया ।

सहस्रभूमिसदना सहस्राकाशविग्रहा ॥ ३४॥

सहस्रचन्द्रप्रतिमा सहस्रग्रहचारिणी ।

सहस्ररुद्रतेजस्का सहस्रब्रह्मसृष्टिकृत् ॥ ३५॥

सहस्रवायुवेगा च सहस्रफणकुण्डला ।

सहस्रयत्रमथिनी सहस्रोदधिसुस्थिरा ॥ ३६॥

सहस्रबुद्धकरुणा महाभागा तपस्विनी ।

त्रैलोक्यमोहिनी सर्वभूतदेववशङ्करी ॥ ३७॥

सुस्निग्धहृदया घण्टाकर्णा च व्योमचारिणी ।

शङ्खिनी चित्रिणीशानी कालसंकर्पिणी जया ॥ ३८॥

अपराजिता च विजया कमला कमलाप्रदा ।

जनयित्री जगद्योनिर्हेतुरूपा चिदात्मिका ॥ ३९॥

अप्रमेया दुराधर्षा ध्येया स्वच्छन्दचारिणी ।

शातोदरी शाम्भविनी पूज्या मानोन्नताऽमला ॥ ४०॥

ओंकाररूपिणी ताम्रा बालार्कसमतारका ।

चलज्जिह्वा च भीमाक्षी महाभैरवनादिनी ॥ ४१॥

सात्विकी राजसी चैव तामसी घर्घराऽचला ।

माहेश्वरी तथा ब्राह्मी कौमारी मानिनीश्वरा ॥ ४२॥

सौपर्णी वायवी चैन्द्री सावित्री नैरृती कला ।

वारुणी शिवदूती च सौरी सौम्या प्रभावती ॥ ४३॥

वाराही नारसिंही च वैष्णवी ललिता स्वरा ।

मैत्र्यार्यम्नी च पौष्णी च त्वाष्ट्रीवासव्युमारतिः ॥ ४४॥

राक्षसी पावनी रौद्री दास्री रोदस्युदुम्बरी ।

सुभगा दुर्भगा दीना चञ्चुरीका यशस्विनी ॥ ४५॥

महानन्दा भगानन्दा पिछिला भगमालिनी ।

अरुणा रेवती रक्ता शकुनी श्येनतुण्डिका ॥ ४६॥

सुरभी नन्दिनी भद्रा वला चातिवलामला ।

उलुपी लम्बिका खेटा लेलिहानान्त्रमालिनी ॥ ४७॥

वैनायिकी च वेताली त्रिजटा भृकुटी मती ।

कुमारी युवती प्रौढा विदग्धा घस्मरा तथा ॥ ४८॥

जरती रोचना भीमा दोलमाला पिचिण्डिला ।

अलम्बाक्षी कुम्भकर्णी कालकर्णी महासुरी ॥ ४९॥

घण्टारवाथ गोकर्णा काकजङ्घा च मूषिका ।

महाहनुर्महाग्रीवा लोहिता लोहिताशनी ॥ ५०।

कीर्तिः सरस्वती लक्ष्मीः श्रद्धा बुद्धिः क्रिया स्थितिः ।

चेतना विष्णुमाया च गुणातीता निरञ्जना ॥ ५१॥

निद्रा तन्द्रा स्मिता छाया जृम्भा क्षुदशनायिता ।

तृष्णा क्षुधा पिपासा च लालसा क्षान्तिरेव च ॥ ५२॥

विद्या प्रजा स्मृति कान्तिरिच्छा मेधा प्रभा चितिः ।

धरित्री धरणी धन्या धोरणी धर्मसन्ततिः ॥ ५३॥

हालाप्रिया हाररतिर्हारिणी हरिणेक्षणा ।

चण्डयोगेश्वरी सिद्धि कराली परिडामरी ॥ ५४॥

जगदान्या जनानन्दा नित्यानन्दमयी स्थिरा ।

हिरण्यगर्भा कुण्डलिनी ज्ञानं धैर्यञ्च खेचरी ॥ ५५॥

नगात्मजा नागहारा जटाभारायतर्द्दिनी ।

खड्गिनी शूलिनी चक्रवती वाणवती क्षितिः ॥ ५६॥

घृणिधर्त्री नालिका च कर्त्त्री मत्यक्षमालिनी ।

पाशिनी पशुहस्ता च नागहस्ता धनुर्धरा ॥ ५७॥

महामुद्गरहस्ता च शिवापोतधरापि च ।

नारखप्पर्रिणी लम्बत्कचमुण्डप्रधारिणी ॥ ५८॥

पद्मावत्यन्नपूर्णाच महालक्ष्मीः सरस्वती ।

दुर्गा च विजया घोरा तथा महिषमर्द्दिनी ॥ ५९॥

धनलक्ष्मी जयप्रदाश्चाश्वारूढा जयभैरवी ।

शूलिनी राजमातगी राजराजेश्वरी तथा ॥ ६०॥

त्रिपुटोच्छिष्टचाण्डाली अघोरा त्वरितापि च ।

राज्यलक्ष्मीर्जयमहाचण्डयोगेश्वरी तथा ॥ ६१॥

गुह्या महाभैरवी च विश्वलक्ष्मीररुन्धती ।

यन्त्रप्रमथिनी चण्डयोगेश्वर्यप्यलम्बुषा ॥ ६२॥

किराती महाचण्डभैरवी कल्पवल्लरी ।

त्रैलोक्यविजया संपत्प्रदा मन्थानभैरवी ॥ ६३॥

महामन्त्रेश्वरी वज्रप्रस्तारिण्यङ्गचर्पटा ।

जयलक्ष्मीश्चण्डरूपा जलेश्वरी कामदायिनी ॥ ६४॥

स्वर्णकूटेश्वरी रुण्डा मर्मरी बुद्धिवर्द्धिनी ।

वार्त्ताली चण्डवार्त्ताली जयवार्त्तालिका तथा ॥ ६५॥

उग्रचण्डा स्मशानोग्रा चण्डा वै रुद्रचण्डिका ।

अतिचण्डा चण्डवती प्रचण्डा चण्डनायिका ॥ ६६॥

चैतन्यभैरवी कृष्णा मण्डली तुम्बुरेश्वरी ।

वाग्वादिनी मुण्डमध्यमत्यनर्ध्या पिशाचिनी ॥ ६७॥

मञ्जीरा रोहिणी कुल्या तुङ्गा पूर्णेश्वरी वरा ।

विशाला रक्तचामुण्डा अघोरा चण्डवारुणी ॥ ६८॥

धनदा त्रिपुरा वागीश्वरी जयमङ्गला ।

दैगम्बरी कुञ्जिका च कुडुक्का कालभैरवी ॥ ६९॥

कुक्कुटी सङ्कटा वीरा कर्पटा भ्रमराम्बिका ।

महार्णवेश्वरी भोगवती सङ्केश्वरी तथा ॥ ७०॥

पुलिन्दी शवरी म्लेच्छी पिङ्गला शवरेश्वरी ।

मोहिनी सिद्धिलक्ष्मीश्च बाला त्रिपुरसुन्दरी ॥ ७१॥

उग्रतारा चैकजटा महानीलसरस्वती ।

त्रिकण्टकी छिन्नमस्ता महिषघ्नी जयावहा ॥ ७२॥

हरसिद्धानङ्गमाला फेत्कारी लवणेश्वरी ।

चण्डेश्वरी नाकुलीच हयग्रीवेश्वरी तथा ॥ ७३॥

कालिन्दी वज्रवाराही महानीलपताकिका ।

हंसेश्वरी मोक्षलक्ष्मीर्भूतिनी जातरेतसा ॥ ७४॥

शातकर्णा महानीला वामा गुह्येश्वरी भ्रमिः ।

एकानंशाऽभया तार्क्षी वाभ्रवी डामरी तथा ॥ ७५॥

कोरङ्गी चर्चिका विन्ना संसिका ब्रह्मवादिनी ।

त्रिकालवेदिनी नीललोहिता रक्तदन्तिका ॥ ७६॥

क्षेमङ्करी विश्वरूपा कामाख्या कुलकुट्टनी ।

कामाङ्कुशा वेशिनी च मायूरी च कुलेश्वरी ॥ ७७॥

इभ्राक्षी द्योनकी शार्ङ्गी भीमा देवी वरप्रदा ।

धूमावती महामारी मङ्गला हाटकेश्वरी ॥ ७८॥

किराती शक्तिसौपर्णी बान्धवी चण्डखेचरी ।

निस्तन्द्रा भवभूतिश्च ज्वालाघण्टाग्निमर्द्दिनी ॥ ७९॥

सुरङ्गा कौलिनी रम्या नटी चारायणी धृतिः ।

अनन्ता पुञ्जिका जिह्वा धर्माधर्मप्रवर्तिका ॥ ८०॥

वन्दिनी वन्दनीया च वेलाऽहस्करिणी सुधा ।

अरणी माधवी गोत्रा पताका वाग्मयी श्रुतिः ॥ ८१॥

गूढा त्रिगूढा विस्पष्टा मृगाङ्का च निरिन्द्रिया ।

मेनानन्दकरी वोध्री त्रिनेत्रा वेदवाहना ॥ ८२॥

कलस्वना तारिणी च सत्यामत्यप्रियाऽजडा ।

एकवक्त्रा महावक्त्रा बहुवक्त्रा घनानना ॥ ८३॥

इन्दिरा काश्यपी ज्योत्स्ना शवारूढा तनूदरी ।

महाशङ्खधरा नागोपवीतिन्यक्षताशया ॥ ८४॥

निरिन्धना धराधारा व्याधिघ्नी कल्पकारिणी ।

विश्वेश्वरी विश्वधात्री विश्वेशी विश्ववन्दिता ॥ ८५॥

विश्वा विश्वात्मिका विश्वव्यापिका विश्वतारिणी ।

विश्वसंहारिणी विश्वहस्ता विश्वोपकारिका ॥ ८६॥

विश्वमाता विश्वगता विश्वातीता विरोधिता ।

त्रैलोक्यत्राणकर्त्री च कूटाकारा कटङ्कटा ॥ ८७॥

क्षामोदरी च क्षेत्रज्ञा क्षयहीना क्षरवर्जिता ।

क्षपा क्षोभकरी क्षेम्याऽक्षोभ्या क्षेमदुघा क्षिया ॥ ८८॥

सुखदा सुमुखी सौम्या स्वङ्गा सुरपरा सुधीः ।

सर्वान्तर्यामिनी सर्वा सर्वाराध्या समाहिता ॥ ८९॥

तपिनी तापिनी तीव्रा तपनीया तु नाभिगा ।

हैमी हैमवती ऋद्धिर्वृद्धिर्ज्ञानप्रदा नरा ॥ ९०॥

महाजटा महापादा महाहस्ता महाहनुः ।

महाबला महारोपा महाधैर्या महाघृणा ॥ ९१॥

महाक्षमा पुण्यपापध्वजिनी घुर्घुरारवा ।

डाकिनी शाकिनी रम्या शक्तिः शक्तिस्वरूपिणी ॥ ९२॥

तमिस्रा गन्धराशान्ता दान्ता क्षान्ता जितेन्द्रिया ।

महोदया ज्ञानिनीच्छा विरागा सुखिताकृतिः ॥ ९३॥

वासना वासनाहीना निवृत्तिर्न्निर्वृतिः कृतिः ।

अचला हेतुरुन्मुक्ता जयिनी संस्मृतिः च्युता ॥ ९४॥

कपर्द्दिनी मुकुटिनी मत्ता प्रकृतिरूर्जिता ।

सदसत्साक्षिणी स्फीता मुदिता करुणामयी ॥ ९५॥

पूर्वोत्तरा पश्चिमा च दक्षिणाविदिगू हता ।

आत्मारामा शिवारामा रमणी शङ्करप्रिया ॥ ९६॥

वरेण्या वरदा वेणी स्तम्भिण्याकर्पिणी तथा ।

उच्चाटनी मारणी च द्वेषिणी वशिनी मही ॥ ९७॥

भ्रमणी भारती भामा विशोका शोकहारिणी ।

सिनीवाली कुहू राकानुमति पद्मिनीतिहृत् ॥ ९८॥

सावित्री वेदजननी गायत्र्याहुतिसाधिका ।

चण्डाट्टहासा तरुणी भूर्भुवःस्वःकलेवरा ॥ ९९॥

अतनुरतनुप्राणदात्री मातङ्गगामिनी ।

निगमाद्धिमणिः पृथ्वी जन्ममृत्युजरौषधी ॥ १००॥

प्रतारिणी कलालापा वेद्याछेद्या वसुन्धरा ।

प्रक्षुन्ना वासिता कामधेनुर्वाञ्छितदायिनी ॥ १०१॥

सौदामिनी मेघमाला शर्वरी सर्वगोचरा ।

डमरुर्डमरुका च निःस्वरा परिनादिनी ॥ १०२॥

आहतात्मा हता चापि नादातीता विलेशया ।

पराऽपारा च पश्यन्ती मध्यमा वैखरी तथा ॥ १०३॥

प्रथमा च जघन्या च मध्यस्थान्तविकाशिनी ।

पृष्ठस्था च पुरःस्था च पार्श्वस्थोर्ध्वतलस्थिता ॥ १०४॥

नेदिष्ठा च दविष्ठा च वर्हिष्ठा च गुहाशया ।

अप्राप्या वृंहिता पूर्णा पुण्यैर्नविदनामया (पुण्यैर्वेद्याह्य) ॥ १०५॥

सुदर्शना च त्रिशिखा वृहती सन्ततिर्विना ।

फेत्कारिणी दीर्घस्रुक्का भावना भववल्लभा ॥ १०६॥

भागीरथी जाह्नवी च कावेरी यमुना स्मया ।

सिप्रा गोदावरी वेण्या विपाशा नर्मदा धुनी ॥ १०७॥

त्रेता स्वाहा सामिधेनी स्रुक्स्रुवा च क्रवावसुः ।

गर्विता मानिनी मेना नन्दिता नन्दनन्दिनी ॥ १०८॥

नारायणी नारकघ्नी रुचिरा रणशालिनी ।

आधारणाधारतमा धर्मा ध्वन्या धनप्रदा ॥ १०९॥

अभिज्ञा पण्डिता मूका वालिशा वागवादिनी ।

ब्रह्मवल्ली मुक्तिवल्ली सिद्धिवल्ली विपह्नवी ॥ ११०॥

आह्लादिनी जितामित्रा साक्षिणी पुनराकृति ।

किर्मरी सर्वतोभद्रा स्वर्वेदी मुक्तिपद्धतिः ॥ १११॥

सुषमा चन्द्रिका वन्या कौमुदी कुमुदाकरा ।

त्रिसन्ध्याम्नायसेतुश्च चर्चाऽछायारि नैष्ठिकी ॥ ११२॥

कला काष्ठा तिथिस्तारा संक्रातिर्विषुवत्तथा ।

मञ्जुनादा महावल्गु भग्नभेरीस्वनाऽरटा ॥ ११३॥

चित्रा सुप्तिः सुषुप्तिश्च तुरीया तत्त्वधारणा ।

मृत्युञ्जया मृत्युहरी मृत्युमृत्युविधायिनी ॥ ११४॥

हंसी परमहंसी च बिन्दुनादान्तवासिनी ।

वैहायसी त्रैदशी च भैमीवासातनी तथा ॥ ११५॥

दीक्षा शिक्षा अनूढा च कङ्काली तैजसी तथा ।

सुरी दैत्या दानवी च नरो नाथा सुरी त्वरी ॥ ११६॥

माध्वी खना खरा रेखा निष्कला निर्ममा मृतिः ।

महती विपुला स्वल्पा क्रूरा क्रूराशयापि च ॥ ११७॥

उन्माथिनी धृतिमती वामनी कल्पचारिणी ।

वाडवी वडवा खोढा कोला पितृवलायना ॥ ११८॥

प्रसारिणी विशारा च दर्पिता दर्पणप्रिया ।

उत्तानाधोमुखी सुप्ता वञ्चन्याकुञ्चनी त्रुटिः ॥ ११९॥

क्रादिनी यातनादात्री दुर्गा दुर्गर्तिनाशिनी ।

धराधरसुता धीरा धराधरकृतालया ॥ १२०॥

सुचरित्री तथात्री च पूतना प्रेतमालिनी ।

रम्भोर्वशी मेनका च कलिहृत्कालकृद्दशा ॥ १२१॥

हरीष्टदेवी हेरम्बमाता हर्यक्षवाहना ।

शिखण्डिनी कोण्डयिनी वेतुण्डी मन्त्रमयपि ॥ १२२॥

वज्रेश्वरी लोहदण्डा दुर्विज्ञेया दुरासदा ।

जालिनी जालपा याज्या भगिनी भगवत्यपि ॥ १२३॥

भौजङ्गी तुर्वरा वभ्रु महनीया च मानवी ।

श्रीमती श्रीकरी गाद्धी सदानन्दा गणेश्वरी ॥ १२४॥

असन्दिग्धा शाश्वता च सिद्धा सिद्धेश्वरीडिता ।

ज्येष्ठा श्रेष्ठा वरिष्ठा च कौशाम्बी भक्तवत्सला ॥ १२५॥

इन्द्रनीलनिभा नेत्री नायिका च त्रिलोचना ।

वार्हस्पत्या भार्गवी च आत्रेयाङ्गिरसी तथा ॥ १२६॥

धुर्याधिहर्त्री धारित्री विकटा जन्ममोचिनी ।

आपदुत्तारिणी दृप्ता प्रमिता मितिवर्जिता ॥ १२७॥

चित्ररेखा चिदाकारा चञ्चलाक्षी चलत्पदा ।

वलाहकी पिङ्गसटा मूलभूता वनेचरी ॥ १२८॥

खगी करन्धमा ध्माक्ष्यी संहिता केररीन्धना (ध्माक्षी) ।

अपुनर्भविनी वान्तरिणी च यमगञ्जिनी ॥ १२९॥

वर्णातीताश्रमातीता मृडानी मृडवल्लभा ।

दयाकरी दमपरा दंभहीना दृतिप्रिया ॥ १३०॥

निर्वाणदा च निर्बन्धा भावाभावविधायिनी ।

नैःश्रेयसी निर्विकल्पा निर्वीजा सर्ववीजिका ॥ १३१॥

अनाद्यन्ता भेदहीना बन्धोन्मूलिन्यवाधिता ।

निराभासा मनोगम्या सायुज्यामृतदायिनी ॥ १३२॥

इतीदं नामसाहस्रं नामकोटिशताधिकं ।

देव्याः कामकलाकाल्या मयाते प्रतिपादितम् ॥ १३३॥

श्रीकामकलाकाली सहस्रनामस्तोत्रम् फलश्रुति
नानेन सदृशं स्तोत्रं त्रिषु लोकेषु विद्यते ।

यद्यप्यमुष्य महिमा वर्णितुं नैव शक्यते ॥ १३४॥

प्ररोचनातया कश्चित्तथापि विनिगद्यते ।

प्रत्यहं य इदं देवि कीर्त्तयेद्वा श्रृणोति वा ॥ १३५॥

गुणाधिक्यमृते कोऽपि दोषो नैवोपजायते ।

अशुभानि क्षयं यान्ति जायन्ते मङ्गलान्यथा ॥ १३६॥

पारत्रिकामुष्मिकौ द्वौ लोकौ तेन प्रसाधितौ ।

ब्राह्मणो जायते वाग्मी वेदवेदाङ्गपारगः ॥ १३७॥

ख्यातः सर्वासु विद्यासु धनवान् कविपण्डितः ।

युद्धे जयी क्षत्रियः स्याद्दाता भोक्ता रिपुञ्जयः ॥ १३८॥

आहर्ता चाश्वमेधस्य भाजनं परमायुषाम् ।

समृद्धो धन धान्येन वैश्यो भवति तत्क्षणात् ॥ १३९॥

नानाविधपशूनां हि समृद्ध्या स समृद्धते ।

शूद्रः समस्तकल्याणमाप्नोति श्रुतिकीर्तनात् ॥ १४०॥

भुङ्क्ते सुखानि सुचिरं रोगशोकौ परित्यजन् ।

एव नार्यपि सौभाग्यं भर्तृं हार्द्दं सुतानपि ॥ १४१॥

प्राप्नोति श्रवणादस्य कीर्तनादपि पार्वति ।

स्वस्वाभीष्टमथान्येऽपि लभन्तेऽस्य प्रसादतः ॥ १४२॥

आप्नोति धार्मिको धर्मानर्थानाप्नोति दुर्गतः ।

मोक्षार्थिनस्तथा मोक्षं कामुका कामिनीं वराम् ॥ १४३॥

युद्धे जयं नृपाः क्षीणाः कुमार्यः सत्पतिं तथा ।

आरोग्य रोगिणश्चापि तथा वंशार्थिनः सुतान् ॥ १४४॥

जयं विवादे कलिकृत्सिद्धीः सिद्धीछुरुत्तमाः ।

नियुक्ता बन्धुभिः सङ्गं गतायुश्चायुषाञ्चयम् ॥ १४५॥

सदा य एतत्पठति निशीथे भक्तिभावितः ।

तस्या साध्यमथाप्राप्यन्त्रैलोक्ये नैव विद्यते ॥ १४६॥

कीर्तिं भोगान् स्त्रियः पुत्रान्धनं धान्यं हयान्गजान् ।

ज्ञातिश्रैष्ठ्यं पशून्भूमिं राजवश्यञ्च मान्यताम् ॥ १४७॥

लभते प्रेयसि क्षुद्रजातिरप्यस्य कीर्तनात् ।

नास्य भीतिर्न्न दौर्भाग्यं नाल्पायुष्यन्नरोगिता ॥ १४८॥

न प्रेतभूताभिभवो न दोषो ग्रहजस्तथा ।

जायते पतितो नैव क्वचिदप्येष सङ्कटे ॥ १४९॥

यदीच्छसि परं श्रेयस्तर्त्तुं सङ्कटमेव च ।

पठान्वहमिदं स्तोत्रं सत्यं सत्यं सुरेश्वरि ॥ १५०॥

न सास्ति भूतले सिद्धिः कीर्तनाद्या न जायते ।

श्रृणु चान्यद्वरारोहे कीर्त्यमानं वचो मम ॥ १५१॥

महाभूतानि पञ्चापि खान्येकादश यानि च ।

तन्मात्राणि च जीवात्मा परमात्मा तथैव च ॥ १५२॥

सप्तार्णवाः सप्तलोका भुवनानि चतुर्द्दश ।

नक्षत्राणि दिशः सर्वाः ग्रहाः पातालसप्तकम् ॥ १५३॥

सप्तद्वीपवती पृथ्वी जङ्गमाजङ्गमं जगत् ।

चराचरं त्रिभुवनं विद्याश्चापि चतुर्दृश ॥ १५४॥

सांख्ययोगस्तथा ज्ञानं चेतना कर्मवासना ।

भगवत्यां स्थितं सर्वं सूक्ष्मरूपेण बीजवत् ॥ १५५॥

सा चास्मिन् स्तोत्रसाहस्रे स्तोत्रे तिष्ठति वद्धवत् ।

पठनीयं विदित्वैवं स्तोत्रमेतत्सुदुर्लभम् ॥ १५६॥

देवीं कामकलाकालीं भजन्तः सिद्धिदायिनीम् ।

स्तोत्रं चादः पठन्तो हि साधयन्तीप्सितान् स्वकान् ॥ १५७॥

॥ इति महाकालसंहितायां कामकलाखण्डे द्वादशपटले

श्रीकामकलाकालीसहस्रनामस्तोत्रं संपूर्णम् ॥

कामकलाकाली महाकालसंहिता कामकलाखण्ड जारी……..क्रमशः

Leave a Reply

Your email address will not be published. Required fields are marked *