कश्यप कृत गणेश कवच, Kashyap Krut Ganesh Kavach

0

गौर्यवाच

एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि ||

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम |

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ||

अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि |

मुनिरुवाच

गणेशकवचं वक्ष्ये सर्वरक्षाकरं नृणाम् |

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे |

त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् |

द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्

तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ||

अस्य श्री गणपतीकवचस्य मुद्गल ऋषिः अनुष्टुप् छन्दः श्री महागणपतिर्देवता आत्मर क्षार्थं पाठे विनियोगः |

विनायकः शिखां पातु परमात्मा परात्परः | अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ||

ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः | नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ||

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः | वाचं विनायकः पातु दन्तान्रक्षतु दुर्मुखः ||

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः | गणेशस्तु मुखं कण्ठंपातु देवो गणञ्जयः ||

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः | हृदयं गणनाथस्तु हेरम्बो जठरं महान् ||

धराधरः पातु पार्श्वंपृष्ठं विघ्नहरः शुभः | लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ||

गणक्रीडो जानुजंधे ऊरु मंगलमूर्तिमान् | एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ||

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः | अङ्गुलिश्च नखान्पातु पद्महस्तोऽरिनाशनः ||

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु | अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ||

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु | प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ||

दक्षिणस्यामुमापुत्रो नैरॄत्यां तु गणेश्वरः | प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ||

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः | दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्या सु विघ्नहृत् ||

राक्षसासुरवेतालग्रहभूतपिशाचतः | पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ||

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् | वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ||

सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा | कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ||

अथास्य फलश्रुतिः

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः | न भयं जायते तस्य यक्षरक्षः पिशाचतः ||

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् | यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ||

युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् | मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ||

सप्तवारं पठेद्यस्तु दिनानामेकविंशतिम् | तत्तत्फलमवाप्नोति साधको नात्र संशयः ||

एकविंशतिवारं च पठेत्तावत् दिनानि यः | कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ||

राजदर्शनवेलायां पठेदेतत् त्रिवारतः | स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ||

इदं गणेशकवचं मुद्गलेन समीरितम् | कश्यपाय च तेनाथ माण्डव्याय महर्षये ||

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् | न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ||

सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् | अनेनानस्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ||

राक्षसासुरवेतालदैत्यदानवसंभवा | सर्वारिष्टानि नश्यन्ति कवचस्यास्य धारणात् ||

|| गणेश पुराणे गणेश कवच सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *