देवी कीलक स्तोत्र, Keelak Stotram

0

विनियोगः

ॐ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः अनुष्टुपछन्दः

श्रीमहासरस्वती देवता श्री जगदम्बाप्रीत्यर्थं

सप्तशतीपाठाङ्गत्वेन जपे विनियोगः |

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच

ॐ विशुद्धज्ञान देहाय त्रिवेदी दिव्य चक्षुषे |

श्रेयःप्राप्ति निमित्ताय नमः सोमार्धधारिणे ||

सर्वमेतद्विजानीयान्मन्त्राणामभिकिलकम् |

सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ||

सिद्ध्यन्त्युच्चाटनादीनि वस्तुनि सकलान्यपि |

एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति ||

न मन्त्रो नौषधं तत्र न किञ्चदपि विद्यते |

विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ||

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः |

कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ||

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः |

समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ||

सोऽपि क्षोममवाप्नोति सर्वमेवं न संशयः |

कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ||

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति |

इत्थंरुपेण किलेन महादेवेन कीलितम् ||

या निष्कीलां विधायैनां नित्यं जपति संस्फुटम् |

स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ||

न चैवाप्यतटस्तस्य भयं क्वापीह जायते |

नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ||

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वार्णो विनश्यति |

ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ||

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने |

तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ||

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः |

भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ||

ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः |

शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ||

|| इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *