कृष्णचन्द्राष्टकम् || Krishna Chandra Ashtakam

0

कृष्णचन्द्राष्टकम् का पाठ करने से सभी प्रकार का कष्ट श्रीकृष्णचन्द्र की कृपा से दूर हो जाता है। यहाँ श्रीरघुनाथप्रभुविरचित, कृष्णदासकविराजविरचित और श्रीकेवलरामप्रणीत ३ कृष्णचन्द्राष्टकम् दिया गया है।

कृष्णचन्द्राष्टकम्

महानीलमेघातिभव्यं सुहासं शिवब्रह्मदेवादिभिः संस्तुतश्च ।

रमामन्दिरं देवनन्दापदाहं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ १॥

रसं वेदवेदान्तवेद्यं दुरापं सुगम्यं तदीयादिभिर्दानवघ्नम् ।

लसत्कुण्डलं सोमवंशप्रदीपं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ २॥

यशोदादिसंलालितं पूर्णकामं दृशोरञ्जनं प्राकृतस्थस्वरूपम् ।

दिनान्ते समायान्तमेकान्तभक्तैर्भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ३॥

कृपादृष्टिसम्पातसिक्तस्वकुञ्जं तदन्तःस्थितस्वीयसम्यग्दशादम् ।

पुनस्तत्र तैः सत्कृतैकान्तलीलं भजे राधिकावल्लभं कृष्णचन्दम् ॥ ४॥

गृहे गोपिकाभिर्धृते चौर्यकाले तदक्ष्णोश्च निक्षिप्य दुग्धं चलन्तम् ।

तदा तद्वियोगादिसम्पत्तिकारं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ५॥

चलत्कौस्तुभव्याप्तवक्षःप्रदेशं महावैजयन्तीलसत्पादयुग्मम् ।

सुकस्तूरिकादीप्तभालप्रदेशं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ६॥

गवा दोहने दृष्टराधामुखाब्जं तदानीं च तन्मेलनव्यग्रचित्तम् ।

समुत्पन्नतन्मानसैकान्तभावं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ ७॥

अदः कृष्णचन्द्राष्टकं प्रेमयुक्तः पठेत्कृष्णसान्निध्यमाप्नोति नित्यम् ।

कलौ यः स संसारदुःखातिरिक्तं प्रयात्येव विष्णोः पदं निर्भयं तत् ॥ ८॥

॥ इति श्रीरघुनाथप्रभुविरचितं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ॥

कृष्णचन्द्राष्टकम् २

अम्बुदाञ्जनेन्द्रनीलनिन्दिकान्तिडम्बरः कुङ्कुमोद्यदर्कविद्युदंशुदिव्यदम्बरः ।

श्रीमदङ्गचर्चितेन्दुपीतनाक्तचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ १॥

गण्डताण्डवातिपण्डिताण्डजेशकुण्डल-श्चन्द्रपद्मषण्डगर्वखण्डनस्यमण्डलः ।

बल्लवीषु वर्धितात्मगूढभावबन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ २॥

नित्यनव्यरूपवेषहर्दकेलिचेष्टितः केलिनर्मसार्मदायिमित्रवृन्दवेष्टितः ।

स्वीयकेलिकाननांशुनिर्जितेन्द्रनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ३॥

प्रेमहेममण्डितात्मबन्धुताभिनन्दितः क्सौणिलग्नभाललोकपालपालिवन्दितः ।

नित्यकालसृष्टविप्रगौरवालिवन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ४॥

लीलयेन्द्रकालियोष्णकंसवत्सघातक- स्तत्तदात्मकेलिवृष्टिपुष्टभक्तचातकः ।

वीर्यशीललिलायात्मघोसवासिनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ५॥

कुञ्जरासकेलिसीधुराधिकादितोषण-स्तत्तदात्मकेलिनर्मतत्तदालिपोषणः ।

प्रेमशीलकेलिकीर्तिविश्वचित्तनन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ६॥

रासकेलिदर्शितात्मशुद्धभक्तिसत्पथः स्वीयचित्ररूपवेषमन्मथलीमन्मथः ।

गोपीकसु नेत्रकोणभाववृन्दगन्धनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ७॥

पुष्पचायिराधिकाभिमर्षलब्धितर्षितः प्रेमवाम्यराम्यराधिकास्यदृष्टिहर्षितः ।

राधिकोरसीह लेप एष हरिचन्दनः स्वाङ्घ्रिदास्यदोऽस्तु मे स बल्लवेन्द्रनन्दनः ॥ ८॥

अष्टकेन यस्त्वनेन राधिकासुवल्लभं संस्तवीति दर्शनेऽपि सिन्धुजादिदुर्लभम् ।

तं युनक्ति तुष्टचित्त एष घोषकानने राधिकाङ्गसङ्गनन्दितात्मपादसेवने ॥ ९॥

इति कृष्णदासकविराजविरचितं कृष्णचन्द्राष्टकं सम्पूर्णम् ।
श्रीकृष्णचन्द्राष्टकम् ३

वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ ।

उपयमुनमटन्तौ वेणुनादं सृजन्तौ भज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥

कलयसि भवरीतिं नैव चेद्भूरिभूतिं यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् ।

जहिहि मुहुरनीतिं जायमानप्रतीतिं कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ २॥

द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सान्तम् ।

स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ ३॥

करधृतनवनीतः स्तेयतस्तस्य भीतःपशुपगणपरीतः श्रीयशोदागृहीतः ।

निखिलनिगमगीतः कालमायाद्यभीतः कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥ ४॥

सकलजननियन्ता गोसमूहानुगन्ता व्रजविलसदनन्ताभीरुगेहेषु रन्ता ।

असुरनिकरहन्ता शक्रयागावमन्ता जयति विजयियन्ता वेदमार्गाभिमन्ता ॥ ५॥

सुकृतिविहितसेवो निर्जितानेकदेवो भवविधिकृतसेवः प्रीणिताशेषदेवः ।

स्म नयति वसुदेवो गोकुलं यं मुदे वो भवतु स यदुदेवः सर्वदा वासुदेवः ॥ ६॥

करकजधृतशैले प्रोल्लसत्पीतचैले मय् बे चोर्रेच्त् रुचिरनवघनाभे शोभने पद्मनाभे ।

विकचकुसुमपुञ्जे शोभमाने निकुञ्जे स्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः ॥ ७॥

विषयविरचिताशे प्राप्तसंसारपाशे-ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे ।

सुकृतकृतिविहीने श्रीहरे भक्तिहीने मयि कृतय समन्तौ केवले दीनजन्तौ ॥ ८॥

इति श्रीकेवलरामप्रणीतं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *