श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम् || Laxmi- Dvadash And Ashtottarashatanam Strotram

2

श्री लक्ष्मी द्वादशनाम स्तोत्रम् व श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् का पाठ करने से मां लक्ष्मी शीघ्र ही प्रसन्न हो जाती हैं और मनचाहा फल प्रदान करती हैं…

 

|| अथ श्री लक्ष्मी द्वादशनाम स्तोत्रम् ||

ईश्वरीकमला लक्ष्मीश्चलाभूतिर्हरिप्रिया।

पद्मा पद्मालया सम्पद् रमा श्री: पद्मधारिणी।।

द्वादशैतानि नामानि लक्ष्मी संपूज्य य: पठेत्।

स्थिरा लक्ष्मीर्भवेत्तस्य पुत्रदारादिभिस्सह।।

अर्थ – ईश्वरी, कमला, लक्ष्मी, चला, भूति, हरिप्रिया, पद्मा, पद्मालया, संपद्, रमा, श्री, पद्मधारिणी। इन १२ नामों से देवी लक्ष्मी की पूजा की जाए तो स्थिर लक्ष्मी (धन) की प्राप्ति होती है।

इति: श्री लक्ष्मी द्वादशनाम स्तोत्रम् ॥

 

|| श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् ||

देव्युवाच

देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!

करुणाकर देवेश! भक्तानुग्रहकारक! ‖

अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ‖

 

ईश्वर उवाच

देवि! साधु महाभागे महाभाग्य प्रदायकं।

सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ‖

सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम्।

राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं ‖

दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम्।

पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ‖

समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं।

किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं ‖

तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।

अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ‖

क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी।

अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ‖

 

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां

हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषितां।

भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां

पार्श्वे पङ्कज शङ्खपद्म निधिभिः युक्तां सदा शक्तिभिः॥ ‖

 

सरसिज नयने सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥ ‖

 

स्तोत्रम्

प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां ।

श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ॥ ‖

 

वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां।

धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम्॥ ‖

 

अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीं ।

नमामि कमलां, कान्तां, क्षमां, क्षीरोद सम्भवाम् ॥ ‖

 

अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभां ।

अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ॥ ‖

 

नमामि धर्मनिलयां, करुणां, लोकमातरं।

पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् ॥ ‖

 

पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां ।

पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् ॥ ‖

 

पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां ।

नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् ॥ ‖

 

चतुर्भुजां, चन्द्ररूपां, इन्दिरा,मिन्दुशीतलां ।

आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ‖॥ ‖

 

विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीं ।

प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् ॥ ‖

 

भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं ।

वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् ‖॥ ‖

 

धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदां ।

नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् ॥ ‖

 

शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां ।

नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् ॥ ‖

 

विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां ।

दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ॥ ‖

 

नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां ।

त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् ॥ ‖

 

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीं ।

दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ॥ ‖

श्रीमन्मन्द कटाक्ष लब्ध विभवद्-ब्रह्मेन्द्र गङ्गाधरां ।

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ ‖

 

मातर्नमामि! कमले! कमलायताक्षि!

श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!

क्षीरोदजे कमल कोमल गर्भगौरि!

लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ ‖

 

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः ।

दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ॥

देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतं ।

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ ‖

 

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं ।

अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥ ‖

दारिद्र्य मोचनं नाम स्तोत्रमम्बापरं शतं ।

येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ ‖

 

भुक्त्वातु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् ।

प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये ।

पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् ॥ ‖

 

इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम्

श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम्

2 thoughts on “श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम् || Laxmi- Dvadash And Ashtottarashatanam Strotram

Leave a Reply

Your email address will not be published. Required fields are marked *