मन्त्र प्रतिलोम दुर्गासप्तशती || Mantra Pratilom Durga Saptashati

1

मन्त्र प्रतिलोम दुर्गासप्तशती- मन्त्र+प्रति+लोम+ दुर्गासप्तशती अर्थात् मन्त्र+प्रति=प्रत्येक मन्त्र अथवा हरएक मन्त्र के पूर्व लोम क्रम से अर्थात् उलटे क्रम के मन्त्र को पहले रख कर इस दुर्गासप्तशती का पाठ किया जाता है। वैसे, इसका पाठक्रम भी बहुत सरल एवं सुगम है । इसमें अध्याय क्रम न देकर मात्र सर्व प्रथम तेरहवाँ अध्याय का “ॐ सावर्णिर्भविता मनु: ॥१॥ फिर पहला अध्याय ‘मार्कण्डेय उवाच ॥ २ ।।’ पुन तेरहवाँ एवं प्रथम अध्याय के विलोम-अनुलोम-क्रम से उवाच आदि के साथ सात-सौ मन्त्रों का उल्लेख है ।

इसके पाठ-विधान में बताया गया है कि–

अन्त्या-ऽऽद्या-ऽर्क-द्वि-त्रि – दिगब्ध्यङ्केष्विभर्तवः ।

अश्वोऽश्व इति सर्गानां शापोद्धारो ह्यनुक्रम: ॥’

अर्थात्‌ सप्तशती का पहले तेरहवाँ अध्याय के पश्चात्‌ पहला, बारहवाँ, दूसरा, ग्यारहवाँ अध्याय, पुन: तीसरा, दसवाँ एवं नवां, पश्चात्‌ पाँचवाँ आठवां, छठा और सातवाँ दो बार यानी तेरहवाँ तथा प्रथम अध्याय के विलोम एवं अनुलोम पाठ एक साथ करे। इसी प्रकार बारह और द्वितीय, ग्यारह एवं तृतीय अध्याय, दशम और चौथा, पुनः नवम, पचम, आठवां, छठा तथा सातवें अध्याय के पाठ-क्रम से विलोम (उल्टा ) और अनुलोम ( सीधा ) संयुक्तरुप से पाठ करें । शापोद्धार का यही क्रम है अर्थात् पहले अनुलोम पश्चात्‌ विलोम, पुनः अनुलोम पाठ करने से साधक शीघ्र सिद्धि प्राप्त करता है । यह मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपेण तान्त्रोक्त है। इसके पाठ से शीघ्र ही सारे मनोरथ पूर्ण होजाता है इसमे संशय नहीं है। यदि आप इसका शीघ्रातिशीघ्र विशेष कामना की पूर्ति के लिए कामना विशेष का मन्त्र जैसे मारण, मोहन, वशीकरण, उच्चाटन, विद्वेषण आदि के मन्त्रों से इसका सम्पूटन कर मन्त्र का पाठ करें तो अनुकूल फल की प्राप्ति होगी ।

मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः

साधक को चाहिए कि वह पूर्व की ओर मुख कर, कुशासन पर बैठ, आचमन और प्राणायाम करने के बाद दाहिने हाथ में जल, अक्षत, पुष्प एवं द्रव्य लेकर, संकल्प करें-

ॐ विष्णुर्विष्णु ………………………….मन्त्र प्रतिलोम दुर्गासप्तशती पाठमहं करिष्ये’ तक संकल्प-वाक्य पढ़कर भूमि पर जल छोड़ दे। इसके बाद गौरी-गणेश, नवग्रह, कलश, मातृकादि वेदियों का पूजन कर श्रीदेवी का पूजन करे अब दुर्गाकवच, अर्गला, कीलक का पाठ कर न्यासपूर्वक नवार्णमन्त्र जप करें, इसके बाद रात्रिसूक्त का पाठ करें । अब सप्तशती का न्यास व ध्यान कर मन्त्र प्रतिलोम दुर्गासप्तशती का पाठ प्रारंभ करें ।

मन्त्र प्रतिलोम दुर्गासप्तशती

विनियोगः—ॐ अस्य श्रीविलोम-अनुलोम सहित-सप्तशत्या उत्तम-प्रथम-मध्यम- चरितानां रुद्र-ब्रह्म-विष्णु-ऋषयः, महासरस्वती-महाकाली-महालक्ष्मी देवता! अनुष्टुपगायत्री-त्रिष्टुप-छन्दांसि, भीमा-नन्दा-शाकम्भरीशक्तय:, भ्रामरी-रक्तदन्तिका-दुर्गाबीजानि, सुर्याऽग्नि-वायुस्तत्त्वानि, साम-ऋग्-यजुर्वेदाध्यानानि, ॐ अद्याऽमुक गोत्र:, अमुकशर्माऽहं मम ( यजमानस्य च ) सकलकामनासिद्धयर्थ श्रीमहासरस्वती-महाकाली-महालक्ष्मीदेवता-प्रीत्यर्थे विलोम-अनुलोम सहित-सप्तशतीपाठे विनियोगः ।

दाहिने हाथ में जल लेकर उपरोक्त विनियोग-वाक्य पढ़कर भूमि पर जल छोड़ दे, पुन:! मन्त्र पढ़कर भगवती दुर्गा का ध्यान कर पाठ करे-

अथ मन्त्र प्रतिलोम दुर्गासप्तशती

ध्यानम्

ॐ खड्‌गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः

शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां

यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥

ॐ सावर्णिर्भविता मनुः॥१ ॥

मार्कण्डेय उवाच ॥२ ॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।

सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥३ ॥

सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः।

निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥४ ॥

इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।

बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥५ ॥

महामायानुभावेन यथा मन्वन्तदराधिपः।

स बभूव महाभागः सावर्णिस्तनयो रवेः॥६ ॥

मार्कण्डेय उवाच॥७ ॥

स्वारोचिषेऽन्त रे पूर्वं चैत्रवंशसमुद्भवः।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले॥८ ॥

तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥९ ॥

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥१० ॥

वैश्यणवर्य त्वया यश्च् वरोऽस्मत्तोऽभिवाञ्छितः॥११ ॥

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥१२ ॥

सावर्णिको नाम* मनुर्भवान् भुवि भविष्यति॥१३॥

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।

आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः॥१४ ॥

मृतश्चै भूयः सम्प्राप्य जन्म देवाद्विवस्वतः॥१५ ॥

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥१६ ॥

हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥१७ ॥

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।

एकाकी हयमारुह्य जगाम गहनं वनम्॥१८ ॥

स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान्॥१९ ॥

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः।

प्रशान्त्श्वा्पदाकीर्णं मुनिशिष्योपशोभितम्॥२० ॥

देव्युवाच॥२१ ॥

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।

इतश्चेकतश्च विचरंस्तस्मिन्मुनिवराश्रमे॥२२ ॥

सोऽपि वैश्यजस्ततो ज्ञानं वव्रे निर्विण्णमानसः।

ममेत्यहमिति प्राज्ञः सङ्‌गविच्युतिकारकम्॥२३ ॥

सोऽचिन्तयित्तदा तत्र ममत्वाकृष्टचेतनः।

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥२४ ॥

ततो वव्रे नृपो राज्यमविभ्रंश्यान्यजन्मनि।

अत्रैव च निजं राज्यं हतशत्रुबलं बलात्॥२५ ॥

मद्‌भृत्यैस्तैरसद्‌वृत्तैर्धर्मतः पाल्यते न वा।

न जाने स प्रधानो मे शूरहस्ती सदामदः॥२६ ॥

मार्कण्डेय उवाच॥२७ ॥

मम वैरिवशं यातः कान् भोगानुपलप्स्यते।

ये ममानुगता नित्यं प्रसादधनभोजनैः॥२८ ॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।

मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्॥२९ ॥

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्।

असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥३० ॥

देव्युवाच॥३१ ॥

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः॥३२ ॥

परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका॥३३ ॥

तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः।

स पृष्टस्तेन कस्त्वं भो हेतुश्चा गमनेऽत्र कः॥३४ ॥

ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्।

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः॥३५ ॥

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्॥३६ ॥

अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः।

निराहारौ यताहारौ तन्मनस्कौ समाहितौ॥३७ ॥

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥३८ ॥

स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्।

तौ तस्मिन पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्॥३९ ॥

वैश्य उवाच॥४० ॥

जगाम सद्यस्तपसे स च वैश्यो महामुने।

संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः॥४१ ॥

समाधिर्नाम वैश्योचऽहमुत्पन्नो धनिनां कुले॥४२ ॥

प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्।

निर्विण्णोऽतिममत्वेन राज्यापहरणेन च॥४३ ॥

पुत्रदारैर्निरस्तश्च‍ धनलोभादसाधुभिः।

विहीनश्चै धनैर्दारैः पुत्रैरादाय मे धनम्॥४४ ॥

इति तस्य वचः श्रुत्वा सुरथः स नराधिपः॥४५ ॥

वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्॥४६ ॥

मार्कण्डेय उवाच॥४७ ॥

प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्॥४८ ॥

आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥४९ ॥

कथं ते किं नु सद्‌वृत्ता दुर्वृत्ताः किं नु मे सुताः॥५० ॥

मोह्यन्ते मोहिताश्चै्व मोहमेष्यन्ति चापरे।

तामुपैहि महाराज शरणं परमेश्वरीरम्॥५१ ॥

राजोवाच॥५२ ॥

विद्या तथैव क्रियते भगवद्विष्णुमायया।

तया त्वमेष वैश्ययश्च् तथैवान्ये विवेकिनः॥५३॥

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः॥५४ ॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।

एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥५५ ॥

तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥५६ ॥

ऋषिरुवाच॥५७ ॥

वैश्य उवाच॥५८ ॥

स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा।

ददाति वित्तं पुत्रांश्चर मतिं धर्मे गतिं शुभाम्॥५९ ॥

एवमेतद्यथा प्राह भवानस्मद्‌गतं वचः॥६० ॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।

सैवाभावे तथाऽलक्ष्मीर्विनाशायोपजायते॥६१ ॥

किं करोमि न बध्नाति मम निष्ठुरतां मनः।

यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥६२ ॥

सैव काले महामारी सैव सृष्टिर्भवत्यजा।

स्थितिं करोति भूतानां सैव काले सनातनी॥६३ ॥

पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः।

किमेतन्नाभिजानामि जानन्नपि महामते॥६४ ॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्व्र।

महाकाल्या महाकाले महामारीस्वरूपया॥६५ ॥

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु।

तेषां कृते मे निःश्वा सो दौर्मनस्यं च जायते॥६६ ॥

तयैतन्मोह्यते विश्वंत सैव विश्वं। प्रसूयते।

सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥६७ ॥

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥६८ ॥

एवं भगवती देवी सा नित्यापि पुनः पुनः।

सम्भूय कुरुते भूप जगतः परिपालनम्॥६९ ॥

मार्कण्डेय उवाच॥७० ॥

जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे।

निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥७१ ॥

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ॥७२ ॥

यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः।

दैत्याश्चज देव्या निहते शुम्भे देवरिपौ युधि॥७३ ॥

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्॥७४ ॥

पश्यतामेव देवानां तत्रैवान्तरधीयत।

तेऽपि देवा निरातङ्‌काः स्वाधिकारान् यथा पुरा॥७५ ॥

उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यतपार्थिवौ॥७६ ॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा॥७७ ॥

राजोवाच॥७८ ॥

ऋषिरुवाच॥७९ ॥

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्॥८०॥

दूरादेव पलायन्ते स्मरतश्चयरितं मम॥८१ ॥

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि॥८२ ॥

स्मरन्ममैतच्चरितं नरो मुच्येत संकटात्।

मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा॥८३ ॥

जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम।

अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः॥८४ ॥

पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे।

सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा॥८५ ॥

स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ॥८६ ॥

राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा।

आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥८७ ॥

दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ।

तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि॥८८ ॥

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः।

सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः॥८९ ॥

ममास्य च भवत्येषा विवेकान्धस्य मूढता॥९० ॥

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्।

अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः॥९१ ॥

ऋषिरुवाच॥९२ ॥

तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते।

युष्माभिः स्तुतयो याश्चभ याश्चत ब्रह्मर्षिभिःकृताः॥९३ ॥

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे॥९४॥

रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम।

युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम्॥९५ ॥

विषयश्च महाभाग याति चैवं पृथक् पृथक्।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे॥९६ ॥

प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते।

श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति॥९७ ॥

केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः।

ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्॥९८ ॥

विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्।

अन्यैश्चं विविधैर्भोगैः प्रदानैर्वत्सरेण या॥९९ ॥

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्॥१०० ॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।

पशुपुष्पार्घ्यधूपैश्चं गन्धदीपैस्तथोत्तमैः॥१०१ ॥

मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः।

ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु॥१०२ ॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम्।

रक्षोभूतपिशाचानां पठनादेव नाशनम्॥१०३ ॥

कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति॥१०४ ॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम्।

संघातभेदे च नृणां मैत्रीकरणमुत्तमम्॥१०५ ॥

लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि।

तथापि ममतावर्त्ते मोहगर्ते निपातिताः॥१०६ ॥

उपसर्गाः शमं यान्ति ग्रहपीडाश्चश दारुणाः।

दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥१०७॥

महामायाप्रभावेण संसारस्थितिकारिणा।

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः॥१०८ ॥

शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने।

ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम॥१०९ ॥

महामाया हरेश्चैषा तया सम्मोह्यते जगत्।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥११० ॥

रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते।

नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम्॥१११ ॥

बलादाकृष्य मोहाय महामाया प्रयच्छति।

तया विसृज्यते विश्वंम जगदेतच्चराचरम्॥११२ ॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।

पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥११३ ॥

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥११४ ॥

सर्वाबाधा विनिर्मुक्तो धनधान्यसुतान्वितः।

मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥११५ ॥

संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥११६ ॥

शरत्काले महापूजा क्रियते या च वार्षिकी।

तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः॥११७ ॥

राजोवाच॥११८ ॥

जानताऽजानता वापि बलिपूजां तथा कृताम्।

प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम्॥११९ ॥

भगवन् का हि सा देवी महामायेति यां भवान्॥१२० ॥

बलिप्रदाने पूजायामग्निकार्ये महोत्सवे।

सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च॥१२१ ॥

ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज।

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा॥१२२ ॥

यत्रैतत्पठ्यते सम्यङ्‌नित्यमायतने मम।

सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम्॥१२३ ॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥१२४ ॥

उपसर्गानशेषांस्तु महामारीसमुद्भवान्।

तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम॥१२५ ॥

ऋषिरुवाच॥१२६ ॥

तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः।

श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत्॥१२७ ॥

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥१२८ ॥

शत्रुतो न भयं तस्य दस्युतो वा न राजतः।

न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति॥१२९ ॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥१३० ॥

न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः।

भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम्॥१३१ ॥

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते॥१३२ ॥

अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः।

श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम्॥१३३ ॥

आस्तीर्य शेषमभजत्कल्पान्ते् भगवान् प्रभुः।

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ॥१३४ ॥

मधुकैटभनाशं च महिषासुरघातनम्।

कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥१३५ ॥

विष्णुकर्णमलोद्भूतो हन्तुं ब्रह्माणमुद्यतौ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥१३६ ॥

एभिः स्तवैश्च् मां नित्यं स्तोष्यते यः समाहितः।

तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्॥१३७ ॥

दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः॥१३८ ॥

देव्युवाच॥१३९ ॥

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्।

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्॥१४० ॥

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्॥१४१ ॥

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥१४२ ॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥१४३ ॥

ब्रह्मोवाच॥१४४ ॥

तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्‌पदम्।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥१४५ ॥

त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका॥१४६ ॥

भीमा देवीति विख्यातं तन्मे नाम भविष्यति।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति॥१४७ ॥

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः॥१४८ ॥

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः॥१४९ ॥

त्वमेव संध्या सावित्री त्वं देवि जननी परा।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥१५० ॥

दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति।

पुनश्चादहं यदा भीमं रूपं कृत्वा हिमाचले॥१५१ ॥

त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेत च सर्वदा।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥१५२ ॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥१५३ ॥

तथा संहृतिरूपान्तेा जगतोऽस्य जगन्मये।

महाविद्या महामाया महामेधा महास्मृतिः॥१५४ ॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः।

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः॥१५५ ॥

महामोहा च भवती महादेवी महासुरी।

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥१५६ ॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥१५७ ॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्च् दारुणा।

त्वं श्रीस्त्वमीश्विरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा॥१५८ ॥

भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि।

मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा॥१५९ ॥

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च।

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥१६० ॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥१६१ ॥

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी॥१६२ ॥

भक्षयन्त्याश्चा तानुग्रान् वैप्रचित्तान्महासुरान्।

रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥१६३ ॥

परापराणां परमा त्वमेव परमेश्वतरी।

यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके॥१६४ ॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्॥१६५ ॥

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा।

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्॥१६६ ॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा।

ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥१६७ ॥

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वोरः।

विष्णुः शरीरग्रहणमहमीशान एव च॥१६८ ॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे।

शुम्भो निशुम्भश्चैावान्यावुत्पत्स्येते महासुरौ॥१६९ ॥

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥१७० ॥

देव्युवाच॥१७१ ॥

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥१७२ ॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वकरि।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥१७३ ॥

बोधश्चं क्रियतामस्य हन्तुतमेतौ महासुरौ॥१७४ ॥

देवा ऊचुः॥१७५ ॥

ऋषिरुवाच॥१७६ ॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्॥१७७ ॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥१७८ ॥

देव्युवाच॥१७९ ॥

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥१८० ॥

प्रणतानां प्रसीद त्वं देवि विश्वागर्तिहारिणि।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥१८१ ॥

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥१८२ ॥

पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च् महोपसर्गान्॥१८३ ॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।

मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ॥१८४ ॥

विश्वेश्वरि त्वं परिपासि विश्वं॥

विश्वात्मिका धारयसीति विश्विम्।

विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः॥१८५ ॥

देवि प्रसीद परिपालय नोऽरिभीते-र्नित्यं यथासुरवधादधुनैव सद्यः।

क्रोधरक्तेुक्षणावत्तुं ब्रह्माणं जनितोद्यमौ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥१८६ ॥

रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र।

दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्व्म्॥१८७ ॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥१८८ ॥

विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या।

ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वाम्॥१८९ ॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥१९० ॥

एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम्।

रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या॥१९१ ॥

श्रीभगवानुवाच॥१९२ ॥

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्।

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥१९३ ॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥१९४ ॥

असुरासृग्वसापङ्‌कचर्चितस्ते करोज्ज्वलः।

शुभाय खड्‌गो भवतु चण्डिके त्वां नता वयम्॥१९५ ॥

किमन्येन वरेणात्र एतावद्धि वृतं मम॥१९६ ॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।

सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव॥१९७ ॥

ऋषिरुवाच॥१९८ ॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते॥१९९ ॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥२००॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।

पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते॥२०१ ॥

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः।

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥२०२ ॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥२०३ ॥

ऋषिरुवाच॥२०४ ॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते॥२०५ ॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥२०६ ॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे।

महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते॥२०७ ॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते॥ २०८ ॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे ।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते॥२०९ ॥

ऋषिरुवाच॥२१०॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले।

घोररूपे महारावे नारायणि नमोऽस्तु ते॥२११ ॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे॥२१२ ॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते॥२१३ ॥

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम्।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः॥२१४ ॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते॥२१५ ॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ॥२१६ ॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते॥२१७॥

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्॥२१८ ॥

शङ्‌खचक्रगदाशाङ्‌र्गगृहीतपरमायुधे।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते॥२१९ ॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च।

अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति॥२२० ॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे।

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते॥२२१॥

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना॥२२२ ॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि।

माहेश्वचरीस्वरूपेण नारायणि नमोऽस्तु ते॥२२३ ॥

एतद्वः कथितं सर्वममरारिविचेष्टितम्।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्॥२२४ ॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते॥२२५ ॥

इत्थं निशम्य देवानां वचांसि मधुसूदनः।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ॥२२६ ॥

शरणागतदीनार्तपरित्राणपरायणे।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥२२७ ॥

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।

निश्चिक्राम महत्तेजो ब्रह्मणः शंकरस्य च॥२२८ ॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥२२९ ॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत॥२३० ॥

सर्वमङ्‌गलमंङ्‌गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥२३१ ॥

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्॥२३२ ॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि।

विश्वषस्योपरतौ शक्ते नारायणि नमोऽस्तु ते॥२३३ ॥

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा॥२३४ ॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते॥२३५॥

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम्।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा॥२३६ ॥

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥२३७॥

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।

वारुणेन च जङ्घो्रू नितम्बस्तेजसा भुवः॥२३८ ॥

विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु।

त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः॥२३९ ॥

ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा।

वसूनां च कराङ्‌गुल्यः कौबेरेण च नासिका॥२४० ॥

त्वं वैष्णवी शक्तिरनन्तवीर्या विश्ववस्य बीजं परमासि माया।

सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥२४१ ॥

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा।

नयनत्रितयं जज्ञे तथा पावकतेजसा॥२४२ ॥

आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि।

अपां स्वरूपस्थितया त्वयैत- दाप्यायते कृत्स्नमलङ्‌घ्यवीर्ये॥२४३ ॥

भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा॥२४४ ॥

देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य।

प्रसीद विश्वेगश्वीरि पाहि विश्वंभ त्वमीश्विरी देवि चराचरस्य॥२४५ ॥

ततः समस्तदेवानां तेजोराशिसमुद्भवाम्।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः॥२४६ ॥

देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम्।

कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः॥२४७ ॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।

चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः॥२४८ ॥

ऋषिरुवाच॥२४९ ॥

शङ्‌खं च वरुणः शक्तिं ददौ तस्यै हुताशनः।

मारुतो दत्तवांश्चारपं बाणपूर्णे तथेषुधी॥२५० ॥

जज्वलुश्चा ऽग्नयः शान्ताः शान्ता दिग्जनितस्वनाः॥२५१ ॥

वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात्॥२५२ ॥

अवादयंस्तथैवान्ये ननृतुश्चावप्सरोगणाः।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः॥२५३ ॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्॥२५४ ॥

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः॥२५५ ॥

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः।

कालश्चो दत्तवान् खड्‌गं तस्याश्चर्म च निर्मलम्॥२५६ ॥

उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते॥२५७ ॥

क्षीरोदश्चामलं हारमजरे च तथाम्बरे।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च॥२५८ ॥

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः॥२५९ ॥

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम्॥२६० ॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्॥२६१ ॥

अङ्‌गुलीयकरत्नानि समस्तास्वङ्‌गुलीषु च।

विश्वौकर्मा ददौ तस्यै परशुं चातिनिर्मलम्॥२६२ ॥

तमायान्तं ततो देवी सर्वदैत्यजनेश्ववरम्।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि॥२६३ ॥

अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्।

अम्लानपङ्‌कजां मालां शिरस्युरसि चापराम्॥२६४ ॥

स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥२६५ ॥

अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम्।

हिमवा‍न् वाहनं सिंहं रत्नाचनि विविधानि च॥२६६ ॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।

उत्पात्य भ्रामयामास चिक्षेप धरणीतले॥२६७ ॥

ददावशून्यं सुरया पानपात्रं धनाधिपः।

शेषश्चन सर्वनागेशो महामणिविभूषितम्॥२६८ ॥

नियुद्धं खे तदा दैत्यश्चणण्डिका च परस्परम्।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम्॥२६९ ॥

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्॥

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा॥२७० ॥

उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः।

तत्रापि सा निराधारा युयुधे तेन चण्डिका॥२७१ ॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः॥२७२ ॥

तलप्रहाराभिहतो निपपात महीतले।

स दैत्यराजः सहसा पुनरेव तथोत्थितः॥२७३ ॥

अमायतातिमहता प्रतिशब्दो महानभूत्।

चुक्षुभुः सकला लोकाः समुद्राश्च् चकम्पिरे॥२७४ ॥

स मुष्टिं पातयामास हृदये दैत्यपुङ्‌गवः।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत्॥२७५ ॥

चचाल वसुधा चेलुः सकलाश्चद महीधराः।

जयेति देवाश्चल मुदा तामूचुः सिंहवाहिनीम्॥२७६ ॥

चिच्छेदापततस्तस्य मुद्‌गरं निशितैः शरैः।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान्॥२७७ ॥

तुष्टुवुर्मुनयश्चैकनां भक्तिनम्रात्ममूर्तयः।

दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः॥२७८ ॥

हताश्वः स तदा दैत्यश्छिदन्नधन्वा विसारथिः।

जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यतः॥२७९ ॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः॥२८० ॥

तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका।

धनुर्मुक्तैः शितैर्बाणैश्चवर्म चार्ककरामलम्॥२८१ ॥

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा॥२८२ ॥

ततः खड्‌गमुपादाय शतचन्द्रं च भानुमत्।

अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥२८३ ॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्॥२८४ ॥

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम्॥२८५ ॥

दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्॥२८६ ॥

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः।

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः॥२८७ ॥

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्।

महिषासुरसेनानीश्चिधक्षुराख्यो महासुरः॥२८८ ॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वभरी।

बभञ्ज लीलयैवोग्रहुङ्‌कारोच्चारणादिभिः॥२८९॥

युयुधे चामरश्चा्न्यैश्चुतुरङ्‌गबलान्वितः।

रथानामयुतैः षड्‌भिरुदग्राख्यो महासुरः॥२९० ॥

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका।

बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः॥२९१ ॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।

पञ्चाशद्‌भिश्च् नियुतैरसिलोमा महासुरः॥२९२ ॥

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैःव दारुणैः।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम्॥२९३ ॥

अयुतानां शतैः षड्‌भिर्बाष्कलो युयुधे रणे।

गजवाजिसहस्रौघैरनेकैः परिवारितः॥२९४ ॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।

पश्यतां सर्वदेवानामसुराणां च दारुणम्॥२९५ ॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः॥२९६ ॥

ऋषिरुवाच।।२९७ ॥

युयुधे संयुगे तत्र रथानां परिवारितः।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः॥२९८ ॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव॥२९९ ॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा॥३०० ॥

देव्युवाच॥३०१ ॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा॥३०२ ॥

ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम्।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका॥३०३ ॥

युयुधुः संयुगे देव्या खड्‌गैः परशुपट्टिशैः।

केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे॥३०४ ॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः॥३०५॥

देवीं खड्गकप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका॥३०६ ॥

देव्युवाच॥३०७ ॥

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः॥३०८ ॥

बलावलेपाद्दुष्टे त्वं मा दुर्गे गर्वमावह।

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥३०९ ॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वकरी।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी॥३१० ॥

निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम्।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥३११ ॥

चचारासुरसैन्येषु वनेष्विव हुताशनः।

निःश्वारसान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका॥३१२ ॥

ऋषिरुवाच॥३१३ ॥

त एव सद्यः सम्भूता गणाः शतसहस्रशः।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः॥३१४ ॥

केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात्।

भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः॥३१५ ॥

नाशयन्तोऽसुरगणान् देवीशक्त्यु पबृंहिताः।

अवादयन्त पटहान् गणाः शङ्‌खांस्तथापरे॥३१६ ॥

खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः।

वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे॥३१७ ॥

मृदङ्‌गांश्चा तथैवान्ये तस्मिन् युद्धमहोत्सवे।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥३१८ ॥

माहेश्वणरीत्रिशूलेन भिन्नाः पेतुस्तथापरे।

वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि॥३१९॥

खड्‌गादिभिश्चय शतशो निजघान महासुरान्।

पातयामास चैवान्यान् घण्टास्वनविमोहितान्॥३२० ॥

कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः।

ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः॥३२१ ॥

असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत्।

केचिद् द्विधा कृतास्तीक्ष्णैः खड्‌गपातैस्तथापरे॥३२२ ॥

ततः सिंहश्चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान्।

असुरांस्तांस्तथा काली शिवदूती तथापरान्॥३२३ ॥

विपोथिता निपातेन गदया भुवि शेरते।

वेमुश्चा केचिद्रुधिरं मुसलेन भृशं हताः॥३२४ ॥

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः।

शिरश्चिच्छेद खड्‌‍गेन ततोऽसावपतद्भुवि॥३२५ ॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे॥३२६ ॥

भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः।

महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्॥३२७ ॥

श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे॥३२८ ॥

शूलहस्तं समायान्तं निशुम्भममरार्दनम्।

हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका॥३२९ ॥

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः।

विच्छिन्नजङ्‌घास्त्वपरे पेतुरुर्व्यां महासुराः॥३३० ॥

तस्यापतत एवाशु गदां चिच्छेद चण्डिका।

खड्‌गेन शितधारेण स च शूलं समाददे॥३३१ ॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः॥३३२ ॥

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्।

अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः॥३३३ ॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।

ननृतुश्चा परे तत्र युद्धे तूर्यलयाश्रिताः॥३३४ ॥

ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी।

चिच्छेद तानि चक्राणि स्वशरैः सायकांश्चश तान्॥३३५ ॥

कबन्धाश्छिन्नशिरसः खड्‌गशक्त्यृष्टिपाणयः।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः॥३३६ ॥

पुनश्चश कृत्वा बाहूनामयुतं दनुजेश्वथरः।

चक्रायुधेन दितिजश्छा दयामास चण्डिकाम्॥३३७ ॥

पातितै रथनागाश्वैषरसुरैश्चह वसुन्धरा।

अगम्या साभवत्तत्र यत्राभूत्स महारणः॥३३८ ॥

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः।

आजघान शरैर्देवीं कालीं केसरिणं तथा॥३३९ ॥

शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्॥३४० ॥

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्।

स तदाभिहतो भूमौ मूर्च्छितो निपपात ह॥३४१ ॥

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्॥३४२ ॥

शुम्भमुक्ताञ्छरान्दे वी शुम्भस्तत्प्रहिताञ्छरान्।

चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः॥३४३ ॥

स च सिंहो महानादमुत्सृजन्धुतकेसरः।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति॥३४४ ॥

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्।

निर्घातनिःस्वनो घोरो जितवानवनीपते॥३४५ ॥

देव्या गणैश्चर तैस्तत्र कृतं युद्धं महासुरैः।

यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि॥३४६ ॥

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा।

आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया॥३४७ ॥

ऋषिररुवाच॥३४८ ॥

दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा।

तदा जयेत्यभिहितं देवैराकाशसंस्थितैः॥३४९ ॥

निहन्यमानं तत्सैन्यमवलोक्य महासुरः।

सेनानीश्चि क्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥३५० ॥

अट्टाट्टहासमशिवं शिवदूती चकार ह।

तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ॥३५१ ॥

स देवीं शरवर्षेण ववर्ष समरेऽसुरः।

यथा मेरुगिरेः श्रृङ्‌गं तोयवर्षेण तोयदः॥३५२ ॥

ततः काली समुत्पत्य गगनं क्ष्मामताडयत्।

कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥३५३ ॥

तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।

जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥३५४ ॥

ततः सिंहो महानादैस्त्याजितेभमहामदैः।

पूरयामास गगनं गां तथैव दिशो दश॥३५५ ॥

चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम्।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः॥३५६ ॥

पूरयामास ककुभो निजघण्टास्वनेन च।

समस्तदैत्यसैन्यानां तेजोवधविधायिना॥३५७ ॥

सच्छिन्नधन्वा विरथो हताश्वोन हतसारथिः।

अभ्यधावत तां देवीं खड्‌गचर्मधरोऽसुरः॥३५८ ॥

तमायान्तं समालोक्य देवी शङ्‌खमवादयत्।

ज्याशब्दं चापि धनुषश्चीकारातीव दुःसहम्॥३५९ ॥

सिंहमाहत्य खड्‌गेन तीक्ष्णधारेण मूर्धनि।

आजघान भुजे सव्ये देवीमप्यतिवेगवान्॥३६० ॥

स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः।

भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः॥३६१ ॥

तस्याः खड्‌गो भुजं प्राप्य पफाल नृपनन्दन।

ततो जग्राह शूलं स कोपादरुणलोचनः॥३६२ ॥

तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे।

भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम्॥३६३ ॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्॥३६४ ॥

ततः परशुहस्तं तमायान्तं दैत्यपुङ्‌गवम्।

आहत्य देवी बाणौघैरपातयत भूतले॥३६५ ॥

दृष्ट्वाम तदापतच्छूलं देवी शूलममुञ्चत।

तच्छूलं शतधा तेन नीतं स च महासुरः॥३६६ ॥

आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति।

सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता॥३६७ ॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।

आजगाम गजारूढश्चारमरस्त्रिदशार्दनः॥३६८ ॥

कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः।

आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत्॥३६९ ॥

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्।

हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम्॥३७० ॥

छिन्ने चर्मणि खड्‌गे च शक्तिं चिक्षेप सोऽसुरः।

तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥३७१ ॥

भग्नां शक्तिं निपतितां दृष्‌ट्वा क्रोधसमन्वितः।

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्॥३७२ ॥

ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम्।

निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम्॥३७३ ॥

ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा॥३७४ ॥

निशुम्भो निशितं खड्‌गं चर्म चादाय सुप्रभम्।

अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्॥३७५ ॥

युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ।

युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः॥३७६ ॥

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः।

ताडयामास चाङ्‌गेषु शस्त्रौघैरसुरेश्वतरौ॥३७७ ॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।

करप्रहारेण शिरश्चा्मरस्य पृथक्कृतम्॥३७८ ॥

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः।

शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः॥३७९॥

उदग्रश्चे रणे देव्या शिलावृक्षादिभिर्हतः।

दन्तमुष्टितलैश्चै व करालश्चक निपातितः॥३८० ॥

आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः।

निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः॥३८१ ॥

देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम्।

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्॥३८२ ॥

तस्याग्रतस्तथा पृष्ठे पार्श्वरयोश्च। महासुराः।

संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः॥३८३ ॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी॥३८४ ॥

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।

अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया॥३८५ ॥

बिडालस्यासिना कायात्पातयामास वै शिरः।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्॥३८६ ॥

चकार कोपमतुलं रक्तबीजे निपातिते।

शुम्भासुरो निशुम्भश्चे हतेष्वन्येषु चाहवे॥३८७ ॥

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः।

माहिषेण स्वरूपेण त्रासयामास तान् गणान्॥३८८ ॥

ऋषिरुवाच॥३८९ ॥

कांश्चितुण्डप्रहारेण खुरक्षेपैस्तथापरान्।

लाङ्‌गूलताडितांश्चारन्याञ्छृङ्‌गाभ्यां च विदारितान्॥३९० ॥

भूयश्चे्च्छाम्यहं श्रोतुं रक्तबीजे निपातिते।

चकार शुम्भो यत्कर्म निशुम्भश्चा तिकोपनः॥३९१ ॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।

निःश्वासपवनेनान्यान् पातयामास भूतले॥३९२ ॥

विचित्रमिदमाख्यातं भगवन् भवता मम।

देव्याश्चदरितमाहात्म्यं रक्तबीजवधाश्रितम्॥३९३ ॥

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः।

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका॥३९४ ॥

राजोवाच॥३९५ ॥

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।

श्रृङ्‌गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च॥३९६ ॥

तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धतः॥३९७ ॥

वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत।

लाङ्‌गूलेनाहतश्चासब्धिः प्लावयामास सर्वतः॥३९८ ॥

नीरक्तश्ची महीपाल रक्तबीजो महासुरः।

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप॥३९९ ॥

धुतश्रृङ्‌गविभिन्नाश्च‍ खण्डं खण्डं ययुर्घनाः।

श्वा्सानिलास्ताः शतशो निपेतुर्नभसोऽचलाः॥४०० ॥

जघान रक्तबीजं तं चामुण्डापीतशोणितम्।

स पपात महीपृष्ठे शस्त्रडसङ्घसमाहतः॥४०१ ॥

इति क्रोधसमाध्मातमापतन्तं महासुरम्।

दृष्ट्‌वा सा चण्डिका कोपं तद्वधाय तदाकरोत्॥४०२ ॥

तांश्चमखादाथ चामुण्डा पपौ तस्य च शोणितम्।

देवी शूलेन वज्रेण बाणैरसिभिर्ऋष्टिभिः॥४०३ ॥

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम्।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे॥४०४ ॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति।

मुखे समुद्गता येऽस्या रक्तपातान्महासुराः॥४०५ ॥

ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः।

छिनत्ति तावत्पुरुषः खड्‌गपाणिरदृश्यत॥४०६ ॥

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम्॥४०७ ॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।

तं खड्‌गचर्मणा सार्धं ततः सोऽभून्महागजः॥४०८ ॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम्।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम्॥४०९ ॥

करेण च महासिंहं तं चकर्ष जगर्ज च।

कर्षतस्तु करं देवी खड्‌गेन निरकृन्तत॥४१० ॥

भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम्॥४११ ॥

ततो महासुरो भूयो माहिषं वपुरास्थितः।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम्॥४१२ ॥

भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान्।

एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति॥४१३ ॥

ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्।

पपौ पुनः पुनश्चैजव जहासारुणलोचना॥४१४ ॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान्।

रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना॥४१५ ॥

ननर्द चासुरः सोऽपि बलवीर्यमदोद्‌धतः।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान्॥४१६ ॥

तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा।

उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु॥४१७ ॥

सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः।

उवाच तं मदोद्‌धूतमुखरागाकुलाक्षरम्॥४१८ ॥

तैश्चाऽसुरासृक्सम्भूतैरसुरैः सकलं जगत्।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्॥४१९ ॥

देव्युवाच॥४२० ॥

तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि।

पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः॥४२१ ॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः॥४२२ ॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक्।

मातॄः कोपसमाविष्टो रक्तबीजो महासुरः॥४२३ ॥

ऋषिरुवाच॥४२४ ॥

शक्त्या जघान कौमारी वाराही च तथासिना।

माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्॥४२५ ॥

एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम्।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्॥४२६ ॥

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः।

सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरैः॥४२७ ॥

ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः।

अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृतः॥४२८ ॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह।

गदया ताडयामास ऐन्द्री तमसुरेश्व रम्॥४२९ ॥

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः।

तया महासिना देव्या शिरश्छित्त्वा निपातितः॥४३० ॥

पुनश्चत वज्रपातेन क्षतमस्य शिरो यदा।

ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः॥४३१ ॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।

प्रहर्षं च परं जग्मुः सकला देवतागणाः॥४३२ ॥

ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम्॥४३३ ॥

तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः।

जगुर्गन्धर्वपतयो ननृतुश्चायप्सरोगणाः॥४३४ ॥

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः।

तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः॥४३५ ॥

ऋषिरुवाच॥४३६ ॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम्।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः॥४३७ ॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्‌गमचारुदेहाः॥४३८ ॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः।

ततश्चै न्द्री स्ववज्रेण रक्तबीजमताडयत्॥४३९ ॥

देव्या यया ततमिदं जगदात्मशक्त्या निश्शे षदेवगणशक्तिसमूहमूर्त्या।

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥४४० ॥

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः।

समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः॥४४१ ॥

यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्चम न हि वक्तुमलं बलं च।

सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु॥४४२ ॥

पलायनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान्।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः॥४४३ ॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वमम्॥४४४ ॥

इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान्।

दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः॥४४५ ॥

किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि।

किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु॥४४६॥

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः।

पेतुः पृथिव्यां पतितांस्तांश्च।खादाथ सा तदा॥४४७ ॥

हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा।

सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या॥४४८ ॥

नखैर्विदारितांश्चातन्यान् भक्षयन्ती महासुरान्।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा॥४४९ ॥

यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-रुच्चार्यसे त्वमत एव जनैः स्वधा च॥४५० ॥

तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः।

वाराहमूर्त्या न्यपतंश्चषक्रेण च विदारिताः॥४५१ ॥

या मुक्तिहेतुरविचिन्त्यमहाव्रता त्व-मभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-र्विर्द्यासि सा भगवती परमा हि देवि॥४५२ ॥

ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः।

पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः॥४५३ ॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-मुद्‌गीथरम्यपदपाठवतां च साम्नाम्।

देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री॥४५४ ॥

माहेश्वणरी त्रिशूलेन तथा चक्रेण वैष्णवी।

दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना॥४५५ ॥

मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्‌गा।

श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा॥४५६ ॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः।

ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति॥४५७ ॥

ईषत्सहासममलं परिपूर्णचन्द्र-बिम्बानुकारि कनकोत्तमकान्तिकान्तम्।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण॥४५८ ॥

तस्याग्रतस्तथा काली शूलपातविदारितान्।

खट्‌वाङ्‌गपोथितांश्चा।रीन् कुर्वती व्यचरत्तदा॥४५९ ॥

दृष्ट्‌वा तु देवि कुपितं भ्रुकुटीकराल-मुद्यच्छशाङ्‌कसदृशच्छवि यन्न सद्यः।

प्राणान्मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन॥४६० ॥

सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वःधान्।

चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभिः॥४६१ ॥

देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि।

विज्ञातमेतदधुनैव यदस्तमेत-न्नीतं बलं सुविपुलं महिषासुरस्य॥४६२ ॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः।

ववर्षुरुद्धतामर्षास्तां देवीममरारयः॥४६३ ॥

ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः।

धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना॥४६४ ॥

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः।

अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता॥४६५ ॥

धर्म्याणि देवि सकलानि सदैव कर्मा-ण्यत्यादृतः प्रतिदिनं सुकृती करोति।

स्वर्गं प्रयाति च ततो भवतीप्रसादात् लोकत्रयेऽपि फलदा ननु देवि तेन॥४६६ ॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्।

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता॥४६७ ॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि।

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता॥४६८ ॥

बलावलेपादथ चेद्भवन्तो युद्धकाङ्‌क्षिणः।

तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः॥४६९ ॥

एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम्।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि॥४७० ॥

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ॥४७१ ॥

दृष्ट्‌वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम्।

लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी॥४७२ ॥

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः॥४७३ ॥

खड्‌गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम्।

यन्नागता विलयमंशुमदिन्दुखण्ड-योग्याननं तव विलोकयतां तदेतत्॥४७४ ॥

सा चाह धूम्रजटिलमीशानमपराजिता।

दूत त्वं गच्छ भगवन् पार्श्वंर शुम्भनिशुम्भयोः॥४७५ ॥

दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥४७६ ॥

ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा।

चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी॥४७७ ॥

केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र।

चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि॥४७८ ॥

ततः परिवृतस्ताभिरीशानो देवशक्तिभिः।

हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽऽहचण्डिकाम्॥४७९ ॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा।

नीता दिवं रिपुगणा भयमप्यपास्त-मस्माकमुन्मदसुरारिभवं नमस्ते॥४८० ॥

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा॥४८१ ॥

शूलेन पाहि नो देवि पाहि खड्‌गेन चाम्बिके।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च॥४८२ ॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः॥४८३ ॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥४८४ ॥

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः।

शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्॥४८५ ॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।

यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम्॥४८६ ॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता।

शङ्‌खचक्रगदाशाङ्‌र्गखड्‌गहस्ताभ्युपाययौ॥४८७ ॥

खड्‌गशूलगदादीनि यानि चास्त्राणी तेऽम्बिके।

करपल्लवसङ्‌गीनि तैरस्मान् रक्ष सर्वतः॥४८८ ॥

कौमारी शक्तिहस्ता च मयूरवरवाहना।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी॥४८९ ॥

ऋषिरुवाच॥४९० ॥

माहेश्व्री वृषारूढा त्रिशूलवरधारिणी।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा॥४९१ ॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः॥४९२ ॥

हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः।

आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते॥४९३ ॥

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता।

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्॥४९४ ॥

यस्य देवस्य यद्रूपं यथाभूषणवाहनम्।

तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ॥४९५ ॥

देव्युवाच॥४९६ ॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चचण्डिकां ययुः॥४९७ ॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम्॥४९८ ॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्।

भवायामरसिंहानामतिवीर्यबलान्विताः॥४९९ ॥

देवा ऊचुः॥५०० ॥

तं निनादमुपश्रुत्य दैत्यसैन्यैश्चरतुर्दिशम्।

देवी सिंहस्तथा काली सरोषैः परिवारिताः॥५०१ ॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते॥५०२ ॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्‌मुखा।

निनादैर्भीषणैः काली जिग्ये विस्तारितानना॥५०३ ॥

यदयं निहतः शत्रुरस्माकं महिषासुरः।

यदि चापि वरो देयस्त्वयास्माकं महेश्वमरि॥५०४ ॥

ततः सिंहो महानादमतीव कृतवान् नृप।

घण्टास्वनेन तन्नादमम्बिका चोपबृंहयत्॥५०५ ॥

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः।

यश्चम मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने॥५०६ ॥

आयान्तं चण्डिका दृष्ट्‌वा तत्सैन्यमतिभीषणम्।

ज्यास्वनैः पूरयामास धरणीगगनान्तरम्॥५०७ ॥

तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम्।

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके॥५०८ ॥

इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः॥५०९ ॥

ऋषिरुवाच॥५१० ॥

कालका दौर्हृद मौर्याः कालकेयास्तथासुराः।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम॥५११ ॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽऽत्मनः।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप॥५१२ ॥

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥५१३ ॥

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा।

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी॥५१४ ॥

अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥५१५ ॥

पुनश्चे गौरीदेहात्सा समुद्भूता यथाभवत्।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः॥५१६ ॥

ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥५१७ ॥

रक्षणाय च लोकानां देवानामुपकारिणी।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते॥५१८ ॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वारः॥५१९ ॥

“ॐ क्लीं” ऋषिरुवाच॥५२० ॥

“ॐ” ऋषिरुवाच॥५२१॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः।

त्रैलोक्यं यज्ञभागाश्चम हृता मदबलाश्रयात्॥५२२ ॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।

चामुण्डेति ततो लोके ख्याता देवि भविष्यसि॥५२३ ॥

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम्।

कौबेरमथ याम्यं च चक्राते वरुणस्य च॥५२४ ॥

तावानीतौ ततो दृष्ट्‌वा चण्डमुण्डौ महासुरौ।

उवाच कालीं कल्याणी ललितं चण्डिका वचः॥५२५ ॥

तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च।

ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः॥५२६ ॥

ऋषिरुवाच॥५२७ ॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः।

महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्॥५२८ ॥

मया तवात्रोपहृतौ चण्डमुण्डौ महापशू।

युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि॥५२९ ॥

तयास्माकं वरो दत्तो यथाऽऽपत्सु स्मृताखिलाः।

भवतां नाशयिष्यामि तत्क्षणात्परमापदः॥५३० ॥

शिरश्च ण्डस्य काली च गृहीत्वा मुण्डमेव च।

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम्॥५३१ ॥

इति कृत्वा मतिं देवा हिमवन्तं नगेश्वमरम्।

जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः॥५३२ ॥

हतशेषं ततः सैन्यं दृष्टवा चण्डं निपातितम्।

मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम्॥५३३ ॥

देवा ऊचुः॥५३४ ॥

अथ मुण्डोऽभ्यधावत्तां दृष्ट्‌वा चण्डं निपातितम्।

तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा॥५३५ ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥५३६ ॥

उत्थाय च महासिं हं देवी चण्डमधावत।

गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत्॥५३७ ॥

रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नमः।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥५३८ ॥

ततो जहासातिरुषा भीमं भैरवनादिनी।

काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला॥५३९ ॥

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।

नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥५४० ॥

तानि चक्राण्यनेकानि विशमानानि तन्मुखम्।

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम्॥५४१ ॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥५४२ ॥

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।

छादयामास चक्रैश्च् मुण्डः क्षिप्तैः सहस्रशः॥५४३ ॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः॥५४४ ॥

क्षणेन तद् बलं सर्वमसुराणां निपातितम्।

दृष्ट्‌वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम्॥५४५ ॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै॥५४६ ॥

असिना निहताः केचित्केचित्खट्‌वाङ्‌गताडिताः।

जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा॥५४७ ॥

नमस्तस्यै॥५४८ ॥

बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम्।

ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत् तथा॥५४९ ॥

नमस्तस्यै नमो नमः॥५५० ॥

तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः।

मुखेन जग्राह रुषा दशनैर्मथितान्यपि॥५५१ ॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते। नमस्तस्यै॥५५२ ॥

एकं जग्राह केशेषु ग्रीवायामथ चापरम्।

पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत्॥५५३ ॥

नमस्तस्यै॥५५४ ॥

तथैव योधं तुरगै रथं सारथिना सह।

निक्षिप्य वक्त्रे दशनैश्चनर्वयन्त्यतिभैरवम्॥५५५ ॥

नमस्तस्यै नमो नमः॥५५६ ॥

पार्ष्णिग्राहाङ्‌कुशग्राहियोधघण्टासमन्वितान्।

समादायैकहस्तेन मुखे चिक्षेप वारणान्॥५५७ ॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै॥५५८ ॥

सा वेगेनाभिपतिता घातयन्ती महासुरान्।

सैन्ये तत्र सुरारीणामभक्षयत तद्‌बलम्॥५५९ ॥

नमस्तस्यै॥५६० ॥

अतिविस्तारवदना जिह्वाललनभीषणा।

निमग्नारक्तनयना नादापूरितदिङ्‌मुखा॥५६१ ॥

नमस्तस्यै नमो नमः॥५६२ ॥

विचित्रखट्‌वाङ्‌गधरा नरमालाविभूषणा।

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा॥५६३ ॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै॥५६४ ॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।

काली करालवदना विनिष्क्रान्तासिपाशिनी॥५६५ ॥

नमस्तस्यै॥५६६ ॥

ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति।

कोपेन चास्या वदनं मषीवर्णमभूत्तदा॥५६७ ॥

नमस्तस्यै नमो नमः॥५६८ ॥

ते दृष्ट्‌वा तां समादातुमुद्यमं चक्रुरुद्यताः।

आकृष्टचापासिधरास्तथान्ये तत्समीपगाः॥५६९ ॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता।नमस्तस्यै॥५७० ॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।

सिंहस्योपरि शैलेन्द्रशृङ्‌गे महति काञ्चने॥५७१ ॥

नमस्तस्यै॥५७२ ॥

आज्ञप्तास्ते ततो दैत्याश्चाण्डमुण्डपुरोगमाः।

चतुरङ्गाबलोपेता ययुरभ्युद्यतायुधाः॥५७३ ॥

नमस्तस्यै नमो नमः॥५७४ ॥

ऋषिरुवाच॥५७५ ॥

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता॥ नमस्तस्यै॥५७६ ॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्॥५७७ ॥

नमस्तस्यै॥५७८ ॥

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम्॥५७९ ॥

नमस्तस्यै नमो नमः॥५८० ॥

हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ।

तत्र गच्छत गत्वा च सा समानीयतां लघु॥५८१ ॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता॥नमस्तस्यै॥५८२ ॥

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ॥५८३ ॥

नमस्तस्यै॥५८४ ॥

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः॥५८५ ॥

नमस्तस्यै नमो नमः॥५८६ ॥

क्षणेन तद्‌बलं सर्वं क्षयं नीतं महात्मना।

तेन केसरिणा देव्या वाहनेनातिकोपिना॥५८७ ॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता॥नमस्तस्यै॥५८८ ॥

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे।

पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः॥५८९ ॥

नमस्तस्यै॥५९० ॥

केषांचित्पाटयामास नखैः कोष्ठानि केसरी।

तथा तलप्रहारेण शिरांसि कृतवान् पृथक्॥५९१ ॥

नमस्तस्यै नमो नमः॥५९२ ॥

कांश्चिरत् करप्रहारेण दैत्यानास्येन चापरान्।

आक्रम्य चाधरेणान्यान्‌ स जघान महासुरान्॥५९३ ॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता॥नमस्तस्यै॥५९४ ॥

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः॥५९५ ॥

नमस्तस्यै॥५९६ ॥

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वाधैः॥५९७ ॥

नमस्तस्यै नमो नमः॥५९८ ॥

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः।

हुंकारेणैव तं भस्म सा चकाराम्बिका ततः॥५९९ ॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता॥नमस्तस्यै॥६०० ॥

ऋषिरुवाच॥६०१ ॥

नमस्तस्यै॥६०२ ॥

दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः।

बलान्नयसि मामेवं ततः किं ते करोम्यहम्॥६०३ ॥

नमस्तस्यै नमो नमः॥६०४ ॥

देव्युवाच॥६०५ ॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता॥नमस्तस्यै॥६०६ ॥

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम्॥६०७ ॥

नमस्तस्यै॥६०८ ॥

स दृष्ट्‌वा तां ततो देवीं तुहिनाचलसंस्थिताम्।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः॥६०९ ॥

नमस्तस्यै नमो नमः॥६१० ॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः।

वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ॥६११ ॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता॥नमस्तस्यै॥६१२ ॥

ऋषिरुवाच॥६१३ ॥

नमस्तस्यै॥६१४ ॥

तत्परित्राणदः कश्चिंद्यदि वोत्तिष्ठतेऽपरः।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा॥६१५ ॥

नमस्तस्यै नमो नमः॥६१६ ॥

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः।

तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम्॥६१७ ॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता॥नमस्तस्यै॥६१८ ॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्॥६१९ ॥

नमस्तस्यै॥६२० ॥

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।

समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥६२१ ॥

नमस्तस्यै नमो नमः॥६२२ ॥

ऋषिरुवाच॥६२३ ॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता॥नमस्तस्यै॥६२४ ॥

स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः।

तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॥६२५ ॥

नमस्तस्यै॥६२६ ॥

एवमेतद् बली शुम्भो निशुम्भश्चायतिवीर्यवान्।

किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा॥६२७ ॥

नमस्तस्यै नमो नमः॥६२८ ॥

देव्युवाच॥६२९ ॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता॥नमस्तस्यै॥६३० ॥

सा त्वं गच्छ मयैवोक्ता पार्श्वंय शुम्भनिशुम्भयोः।

केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि॥६३१ ॥

नमस्तस्यै॥६३२ ॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।

शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम्॥६३३ ॥

नमस्तस्यै नमो नमः॥६३४ ॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।

तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका॥६३५ ॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता॥नमस्तस्यै॥६३६ ॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।

त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः॥६३७ ॥

नमस्तस्यै॥६३८ ॥

दूत उवाच॥६३९ ॥

नमस्तस्यै नमो नमः॥६४० ॥

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः।

मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु॥६४१ ॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता॥नमस्तस्यै॥६४२ ॥

यो मां जयति संग्रामे यो मे दर्पं व्यपोहति।

यो मे प्रतिबलो लोके स मे भर्ता भविष्यति॥६४३ ॥

नमस्तस्यै॥६४४ ॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।

श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा॥६४५ ॥

नमस्तस्यै नमो नमः॥६४६ ॥

सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम्।

त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः॥६४७ ॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता॥नमस्तस्यै॥६४८ ॥

देव्युवाच॥६४९ ॥

नमस्तस्यै॥६५० ॥

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।

दुर्गा भगवती भद्रा ययेदं धार्यते जगत्॥६५१ ॥

नमस्तस्यै नमो नमः॥६५२ ॥

ऋषिरुवाच॥६५३ ॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता॥नमस्तस्यै॥६५४ ॥

परमैश्व र्यमतुलं प्राप्स्यसे मत्परिग्रहात्।

एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज॥६५५ ॥

नमस्तस्यै॥६५६ ॥

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम्।

भज त्वं च चञ्चलापाङ्‌गि रत्नरभूतासि वै यतः॥६५७ ॥

नमस्तस्यै नमो नमः॥६५८ ॥

स्त्रीरत्नाभूतां त्वां देवि लोके मन्यामहे वयम्।

सा त्वमस्मानुपागच्छ यतो रत्न भुजो वयम्॥६५९ ॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता॥नमस्तस्यै॥५६० ॥

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च।

रत्न भूतानि भूतानि तानि मय्येव शोभने॥६६१ ॥

नमस्तस्यै॥६६२ ॥

क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः।

उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम्॥६६३ ॥

नमस्तस्यै नमो नमः॥६६४ ॥

त्रैलोक्ये वररत्नानि मम वश्यापन्यशेषतः।

तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम्॥६६५ ॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता॥नमस्तस्यै॥६६६ ॥

मम त्रैलोक्यमखिलं मम देवा वशानुगाः।

यज्ञभागानहं सर्वानुपाश्ना मि पृथक् पृथक्॥६६७ ॥

नमस्तस्यै॥६६८ ॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।

निर्जिताखिलदैत्यारिः स यदाह श्रृणुष्व तत्॥६६९ ॥

नमस्तस्यै नमो नमः॥६७० ॥

देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वणरः।

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः॥६७१ ॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥६७२ ॥

दूत उवाच॥६७३ ॥

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत्।

नमस्तस्यै॥६७४ ॥

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने।

सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा॥६७५ ॥

नमस्तस्यै॥६७६ ॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम।

यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु॥६७७ ॥

नमस्तस्यै नमो नमः॥६७८ ॥

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।

प्रेषयामास सुग्रीवं दूतं देव्या महासुरम्॥६७९ ॥

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता।

करोतु सा नः शुभहेतुरीश्वसरी शुभानि भद्राण्यभिहन्तु चापदः॥६८० ॥

ऋषिरुवाच॥६८१ ॥

या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते।

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः॥६८२॥

एवं दैत्येन्द्र रत्नादनि समस्तान्याहृतानि ते।

स्त्रीरत्ननमेषा कल्याणी त्वया कस्मान्न गृह्यते॥६८३ ॥

ऋषिरुवाच॥६८४ ॥

निशुम्भस्याब्धिजाताश्चस समस्ता रत्नजातयः।

वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी॥६८५ ॥

एवं स्तवादियुक्तानां देवानां तत्र पार्वती।

स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन॥६८६ ॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता।

पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे॥६८७ ॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का।

शरीरकोशतश्चा्स्याः समुद्भूताब्रवीच्छिवा॥६८८ ॥

छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति।

तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः॥६८९ ॥

स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः।

देवैः समेतैः समरे निशुम्भेन पराजितैः॥६९० ॥

निधिरेष महापद्मः समानीतो धनेश्व्रात्।

किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम्॥६९१ ॥

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका।

कौशिकीति समस्तेषु ततो लोकेषु गीयते॥६९२ ॥

विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्‌गणे।

रत्ननभूतमिहानीतं यदासीद्वेधसोऽद्भुतम्॥६९३ ॥

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती।

कालिकेति समाख्याता हिमाचलकृताश्रया॥६९४ ॥

ऐरावतः समानीतो गजरत्नंस पुरन्दरात्।

पारिजाततरुश्चा यं तथैवोच्चैःश्रवा हयः॥६९५ ॥

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम्।

ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः॥६९६ ॥

यानि रत्नाठनि मणयो गजाश्वानदीनि वै प्रभो।

त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे॥६९७ ॥

ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा।

काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम्॥६९८ ॥

स्त्रीरत्नामतिचार्वङ्‌गी द्योतयन्ती दिशस्त्विषा।

सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति॥६९९ ॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।

ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर॥७००ॐ॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येऽध्यायः॥

मन्त्र प्रतिलोम दुर्गासप्तशती का पाठ करने के बाद अङ्गन्यास कर ध्यान पूर्वक देवी सूक्त का पाठ करें। एवं एक माला नवार्ण मन्त्र का जप कर रहस्यत्रय (प्राधानिक,मूर्ति,वैकृतिक रहस्यम्)का भी पाठ करे।

1 thought on “मन्त्र प्रतिलोम दुर्गासप्तशती || Mantra Pratilom Durga Saptashati

  1. Namaskar Sir ji, Please share the tantra or text name where this type of prayog/ parayan vidhi is mentioned. Kis tantra mein kahan gaya hain iss prakar ki paatya vidhi, Krupaya batayein.

Leave a Reply

Your email address will not be published. Required fields are marked *