नारायणसूक्तम् || Narayan Suktam

0

॥ नारायणसूक्तम् ॥

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ।।
विश्वतः परमान्नित्यं विश्वं नारायण ँ हरिम् ।
विश्वमेवेदं पुरुषस्तद् विश्वमुपजीवति ।।
पतिं विश्वस्यात्मेश्वर ँ शाश्वत ँ शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ।
नारायण परो ज्योतिरात्मा नारायणः परः।।
नारायण परं ब्रह्मतत्त्वं नारायणः परः ।
नारायण परो ध्याता ध्यानं नारायणः परः।।
यच्च किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।।
अनन्तमव्ययं कवि ँ समुद्रेऽन्तं विश्वशंभुवम् ।
पद्मकोशप्रतीकाश ँ हृदयं चाप्यधोमुखम् ॥
अधौ निष्ट्या वितस्यान्ते नाभ्यामुपरि तिष्ठति ।
ज्वालमालाकुलं भाति विश्वस्याऽयतनं महत् ।।
सन्तत ँ शिलाभिस्तु लम्बत्याकोशसंनिभम् ।
तस्यान्ते सुषिर ँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ।।
तस्य मध्ये महानगग्निर्विश्वार्चिर्विश्वतोमुखः।
सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः।।
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तता ।
संतापयति स्वं देहमापादतलमस्तकः।।
तस्य मध्ये वह्रिशिखा अणीयोर्ध्वा व्यवस्थितः।
नीलतोयदमध्यस्थाद् विद्युल्लेखेव भास्वरा ।।
नीवारशूकवत् तन्वी पीता भास्वत्यणूपमा ।
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः।।
स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *