पापनाश स्तवः | Paapnash Stavah

0

ॐ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् |

प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ||

चराचर गुरुं नाथं गोविन्दं शेषशायिनम् |

प्रणतोऽस्मि परं देवं स मे पापं व्यापोहतु ||

शंखिनं चक्रिणं शार्ङ्ग धारिणं स्रग्धरं परम् |

प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यापोहतु ||

दामोदरमुदारं तं पुंडरीकाक्षं अच्युतम् |

प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ||

नारायणं नरं शौरिं माधवं मधुसूदनम् |

प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ||

केशवं केशिहन्तारं कंसारिष्ट निषूदनम् |

प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु ||

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् |

प्रणतोऽस्मि श्रियः कांतं स मे पापं व्यपोहतु ||

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् |

वासुदेवं अनिर्देश्यं तमस्मि शरणं गतः ||

समस्तालंबनेभ्यो यं व्यावृत्य मनसो गतिम् |

ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ||

सर्वगं सर्वभूतं च सर्वस्याधारं ईश्वरम् |

वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ||

परमात्मानं अव्यक्तं यं यान्ति च सुमेधसः |

कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ||

पुण्यपाप विनिर्मुक्तो यं प्राप्य च पुनर्भवम् |

न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ||

ब्रह्म भूत्वा जगत्सर्वं सदेवासुर मानुषम् |

यः सृजत्यच्युतो देवान् तमस्मि शरणं गतः ||

ब्रह्मत्वं यस्य वक्त्रेभ्यः चतुर्वेदमयं वपुः |

वपुः प्रभोः परे जज्ञे तमस्मि शरणं गतः ||

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् |

श्रष्टृत्वे संस्थितं सृष्टौ तं नमोऽस्मि जनार्दनम् ||

धृता मही हता दैत्याः परित्राताः तथाऽमराः |

येन तं विष्णुं आदेश्य प्रणतोऽस्मि जनार्दनम् ||

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् |

तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ||

पातालवीथी भूतानि तथा लोकान् निहन्ति यः |

तमन्तपुरुषं रुद्रं प्रणतोऽस्मि जनार्दनम् ||

संभक्षयित्वा सकलं यथा सृष्टमिदं जगत् |

यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् ||

सुरासुराः पितृगणा यक्षगंधर्वराक्षसाः |

यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ||

समस्तदेवाः सकला मनुष्याणां च जातयः |

यस्यांशभूतां देवस्य सर्वगं तं नमाम्यहम् ||

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः |

एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ||

यस्मात् नान्यत् परं किंचिद् यस्मिन् सर्वं महात्मनि |

यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ||

यथा सर्वेषु भूतेषु गूढोऽग्निरिह दारुषु |

विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु ||

यथा सर्वमयं विष्णुं ब्रह्मादि सचराचरम् |

यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु में तथा ||

शुभाशुभानि कार्याणि रजः सत्त्वतमांसि च |

अनेकजन्म कर्मोत्थं पापं नश्यतु मे तथा ||

यन्निशायां च यत् प्रातःयन्मध्याह्ना – पराह्णयोः |

संध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ||

यत्तिष्ठता यद् व्रजता यच्च शय्यागतेन मे |

कृतं यदशुभं कर्म कायेन मनसाऽपि वा ||

अज्ञानतो ज्ञानतो वा मदात् चलितमानसैः |

तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् ||

परदार परद्रव्य वाञ्छाद्रोहोद्भवं च यत् |

परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् ||

यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने |

तद् यातु विलयं तोये यथा लवणभाजनम् ||

यद् बाल्ये यच्च कौमारे यत्पापं यौवने मम |

वयः परिणतौ यच्च यच्च जन्मान्तरे कृतम् ||

तन्नारायण गोविन्द हरे कृष्णेति कीर्तनात् |

प्रयातु विलयं तोये यथा लवणभाजनम् ||

विष्णवे वासुदेवाय हरये केशवाय च |

जनार्दनाय कृष्णाय नमो भूयो नमो नमः ||

भविष्यन् नरकज्ञाय नमः कंसविघातिने |

अरिष्टकेशि चाणूर देवारिक्षयिणे नमः ||

कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति |

कोऽन्यो बलान्नाशयिता दर्पं हैहयभूपतेः ||

कः करिष्यति चान्यो वै सागरे सेतुबन्धनम् |

वधिष्यति दशग्रीवं कः सामात्यपुरःसरम् ||

कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति |

प्रलम्ब पुतनादिनां त्वामृते मधुसूदन ||

नियन्ताऽप्यथवा शास्ता देवदेव भविष्यति ||

जपत्येवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् |

इष्टानिष्ट प्रसंगेभ्यो ज्ञानतोऽज्ञानतोऽपि वा ||

कृतं तेन तु यत्पापं सप्तजन्मान्तरेण वै |

महापातकसंज्ञं वा तथा चैवोपपातकम् ||

यज्ञादीनि च पुण्यानि जपहोम व्रतानि च |

नाश्येत् योगिनां सर्वं आमपात्रं इवांभसि ||

नरः संवत्सरं पूर्णतिलपात्राणि षोडश |

अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् ||

अविप्लुत ब्रह्मचर्यं संप्राप्य स्मरणं हरेः |

विष्णुलोकं अवाप्नोति सत्यमेतत् मयोदितम् ||

तदेतत् सत्यमुक्तं मे न ह्यल्पमसि वै मृषा |

राक्षसग्रस्त सर्वांगं तथा मामेष मुञ्जतु ||

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् |

स्तुतो हि भक्त्या नृणां स सर्वपाप हरो हरिः ||

|| इति श्री वामनपुराणे पापनाशन विष्णु स्तवः सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *