प्रातःस्मरण || Pratah Smaran

0

प्रात:काल ब्राह्ममुहूर्त में उठकर नित्य-प्रति नित्य-कर्मादि प्रातःस्मरण करें ।

करदर्शनम्

वागीशाद्या: सुमनस: सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्या: स्युस्तं नमामि गजाननम् ॥१॥

अथोच्यते द्विजातीनां नित्यकर्म गथाविधि । यत्कृत्वा पुण्यमाप्नोति तस्मान्नित्यं समाचरेत् ॥२॥

कर-दर्शन

प्रत्येक मनुष्य प्रात:काल ब्राह्ममुहूर्त में उठकर सर्वप्रथम अपने दोनों हाथों का दर्शन करते हुए नीचे लिखे
हुए मन्त्र को बोलें—

कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती । करमूले स्थितो ब्रह्मा प्रभाते करदर्शनम् ॥ (आचारप्रदीप)

‘मनुष्य के दोनों हाथों के अग्रभाग में लक्ष्मी, मध्य में सरस्वती और मूल में ब्रह्मा रहते हैं ।

अत: प्रात:काल सर्वप्रथम अपने हाथों का दर्शन करना चाहिये ।’

पृथिवी-प्रार्थना

पश्चात् पृथिवी माता को हाथ से स्पर्श कर प्रणाम करें और पादस्पर्श के लिये क्षमा माँगते हुए पृथ्वी
पर पैर रक्खें ।

समुद्रवसने देवि ! पर्वतस्तनमण्डले । जगन्मातर्नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ (मदनपारिजात)

‘हे जगन्मात ! हे समुद्ररूपी वस्त्रों को धारण करनेवाली ! और पर्वतरूप स्तनों से युक्त पृथिवी देवि ! तुम को नमस्कार है । तुम मेरे पादस्पर्श को क्षमा करो ।’

पश्चात् हाथ, मुख धोकर अपने गुरु, माता, पिता आदि गुरुजनों को प्रणाम करें । अनन्तर गणेश आदि अपने इष्टदेवताओं का प्रातःस्मरण करें

 

प्रातः स्मरण

(१) गणेशजी की स्तुति

प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥
प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् ।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय ॥२॥
प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाह- मुत्साहवर्द्धनमहं सुतमीश्वरस्य ॥३॥
श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् । प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान् ॥ (सद्धर्मचिन्तामणि)

(२) शिवजी की स्तुति

प्रात: स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्विकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातनमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥१॥
प्रातनमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं च विकारशून्यं संसाररोगहरमौषधमद्वितीयम् ॥३॥
प्रात: समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।
ते दुःखजातं बहुजन्मजातं हित्वा पदं यान्ति तदेव शम्भो: ॥४॥ (सद्धर्मचिन्तामणि)

(३) नारायण की स्तुति

प्रात: स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम् ।
ग्राहाभिमूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंस: ।
नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥२॥
प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङघ्रिगजेन्द्रधोर- शोकप्रणाशनकरो धृतशङखचक्र: ॥३॥
श्लोकत्रयमिदं पुण्यं प्रात: प्रात: पठेन्नर: । लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरि: ॥४॥(आचारमयूख)

(४) सूर्य की स्तुति

प्रात: स्मरामि खलु तत्सवितुर्व रेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङञनोभि- र्ब्रह्मेन्द्रपूर्वकसुरैविवुधैर्नुतमचिंतं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च ।
तं सर्वलोककलनात्मककालमूर्त्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
श्लोकत्रयमिदं भानो: प्रात: प्रात: पठेत्तु य: । स सर्वव्याधिविनिर्मुक्त: परं सुखमवाप्नुयात् ॥४॥ (सद्धर्मचिन्तामणि)

(५) दुर्गा की स्तुति

प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड- शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलापदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारवन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णो: ॥३॥
श्लोकत्रयमिदं देव्याश्चण्डिकाया: पठेन्नर: । सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥ (सद्धर्मचिन्तामणि)

(६) राम की स्तुति

प्रात: स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् ।
कर्णावलम्बिचलकुण्डलशोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥
प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: ।
यद्राजसंसदि विभज्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्य: ॥२॥
प्रातर्नमामि रघुनाथपदारविन्दं वज्राङ्कशादिशुभरेखि सुखावहं मे ।
योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्या: ॥३॥
प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहन्ति ।
यत्पार्वती स्वपतिना सह मोक्षकामा प्रीत्या सहस्त्रहरिनामसमं जजाप ॥४॥
प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढयां ध्येवां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥५॥
य: श्लोकपञ्चकमिदं प्रयत: पठेद्धि नित्यं प्रभातसमये पुरुष प्रबुद्ध: ।
श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥६॥(आह्विककर्मप्रकाश)

(७) ऋषियों की स्तुति

भृगुर्वसिष्ठ: क्रतुरङ्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम: ।

रेभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥

सनत्कुमार: सनक: सनन्दन: सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्त स्वरा: सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥
सप्तार्णवा: सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥
पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज: ।
नभ: सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्र भातम् ॥४॥
इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।
दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥५॥

(८) पुण्यश्लोकजनों की स्तुति

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिर: । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दन: ॥१॥
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: । कृप: परशुरामश्च सप्तैते चिरजीविन: ॥२॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं सोऽदी सर्वव्याधिविवजित:॥३॥
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा । पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥४॥
उमा उषा च वैदेही रमा गङगेति पञ्चकम् । प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥५॥
सोमनाथो वैजनाथो धन्वन्तरिरथाश्विनौ । पञ्चैतान्य: स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥६॥
हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् । पञ्चकं वै स्मरेन्नित्यं घोरसङकटनाशनम् ॥७॥
रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् । पञ्चैतान् संस्मरेन्नित्यं भवबाधा विनश्यति ॥८॥
रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपि: । पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥९॥ (पद्मपुराण)

(९) नवप्रहों की स्तुति

ब्रह्मा मुरारिस्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम् ॥ (वामनपुराण)

नवग्रह सुप्रभातम्

सूर्यः

पूर्वापराद्रि सञ्चार चराचरविकासक ।

उत्तिष्ठ लोककल्याण सूर्यनारायण प्रभो ॥ १॥ कुरु कल्याण

सप्ताश्वरश्मिरथ सन्ततलोकचार

श्री द्वादशात्मकमनीयत्रिमूर्तिरूप ।

मनोज्ञत्रिमूर्तिरूप सन्ध्यात्रयार्चित वरेण्य दिवाकरेशा

श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥ २॥

अज्ञानगाहतमसःपटलं विदार्य

ज्ञानातपेन परिपोषयसीह लोकम् ।

आरोग्यभाग्यमति सम्प्रददासि भानो

श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥ ३॥

छायापते सकलमानवकर्मसाक्षिन्

सिंहाख्यराश्यधिप पापविनाशकारिन् ।

पीडोपशान्तिकर पावन काञ्चनाभ

श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥ ४॥

चन्द्र

सर्वलोकसमुल्हास शङ्करप्रियभूषणा ।

उत्तिष्ठ रोहिणीकान्त चन्द्रदेव नमोऽस्तुते ॥ ५॥

इन्द्रादि लोकपरिपालक कीर्तिपात्र

केयूरहारमकुटादि मनोज्ञगात्र ।

लक्ष्मीसहोदर दशाश्वरथप्रयाण

श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥ ६॥

श्री वेङ्कटेशनयन स्मरमुख्यशिष्य

वन्दारुभक्तमनसामुपशाम्य पीदाम् ।

लोकान् निशाचर सदा परिपालय त्वम्

श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥ ७॥

नीहारकान्तिकमनीयकलाप्रपूर्ण

पीयूषवृष्टिपरिपोषितजीवलोक ।

सस्यादिवर्धक शशाङ्क विराण्मनोज

श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥ ८॥

आङ्गारक

मेरोः प्रदक्षिणं कुर्वन् जीवलोकं च रक्षसि ।

अङ्गारक ग्रहोत्तिष्ठ रोगपीडोपशान्तये ॥ ९॥

आरोग्यभाग्यममितं वितरन् महात्मन्

रोगाद्विमोचयसि सन्ततमात्मभक्तान् ।

आनन्दमाकलय मङ्गलकारक त्वम्

मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥ १०॥

सूर्यस्य दक्षिणदिशामधिसंवदानः

कारुण्यलोचन विशालदृशानुगृह्य ।

त्वद्ध्यानतत्परजनाननृणान् करोषि

मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥ ११॥

बुध

बुध प्राज्ञ बुधाराध्य सिंहवाहन सोमज ।

उत्तिष्ठ जगतां मित्र बुद्धिपीडोपशान्तये ॥ १२॥

हे पीतवर्ण सुमनोहरकान्तिकाय

पीताम्बर प्रमुदिताखिललोकसेव्य ।

श्रीचन्द्रशेखरसमाश्रितरक्षकस्त्वम् ।

ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥ १३॥

द्राक्षागुलुच्छपदबन्धकवित्वदातः

आनन्दसंहितविधूतसमस्तपाप ।

कन्यापते मिथुनराशिपते नमस्ते

ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥ १४॥

गुरु

धनुर्मीनादि देवेश देवतानां महागुरो ।

ब्रह्मजात समुत्तिष्ठ पुत्रपीडोपशान्तये ॥ १५॥

इन्द्रादि देवबहुमानितपुत्रकार

आचार्यवर्य जगतां श्रितकल्पपूज ।

तारापते सकलसन्नुतधीप्रभाव

श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥ १६॥

पद्मासनस्थ कनकाम्बर दीनबन्धो

भक्तार्तिहार सुखकारक नीतिकर्तः ।

वाग्रूपभेदसुविकासक पण्डितेज्य

श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥ १७॥

शुक्र

तुलावृषभराशीश पञ्चकोनस्थितग्रह ।

शुक्रग्रह समुत्तिष्ठा पत्नीपीडोपशान्तये ॥ १८॥

श्वेताम्बरादि बहुशोभितगौरगात्र

ज्ञानैकनेत्र कविसन्नुतिपात्र मित्र ।

प्रज्ञाविशेषपरिपालितदैत्यलोक

हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥ १९॥

सञ्जीविनीप्रमुखमन्त्ररहस्यवेदिन्

तत्त्वाखिलज्ञ रमणीयरथाधिरूढ ।

राज्यारियोगकर दैत्यहितोपदेशिन्

हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥ २०॥

शनैश्चर

मण्डले धनुराकारे संस्थितः सूर्यनन्दन ।

नीलदेह समुत्तिष्ठ प्राणपीडोपशान्तये ॥ २१॥

चापासनस्थ वरगृध्ररथप्रयाण

कालाञ्जनाभ यमसोदर काकवाह ।

भक्तप्रजावनसुदीक्षित शम्भुसेविन्

श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २२॥

संसारसक्तजनदुष्परिस्वप्रदातः

भक्तिप्रपन्नजनमङ्गलसन्निधातः ।

श्रीपार्वतीपतिदयामयदृष्टिप्रवाच

श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २३॥

तैलान्नदीपतिलनीलसुपुष्पसक्तः

कुम्भादिपत्यमकराधिपये वहित्वम् ।

निर्भीक कामित फलप्रद नीलवासः

श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥ २२॥

राहु

गौहुते अधिदेवता राहो सर्पाः प्रत्यधिदेवताः ।

राहुग्रह समुत्तिष्ठा नेत्रपीडोपशान्तये ॥ २५॥

नीलाम्बरादि समलङ्कृत सैंहिकेय

ज्ञानप्रसन्न वरदानसुखावहस्त्वम् ।

शूर्पासनस्थ सुजनावह सौम्यरूप

राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥ २६॥

सिंहाधिपश्च तनु सिंहगतासनस्त्वम्

मेर्वप्रदक्षिण चरदुत्तरकायशोभिम् ।

आदित्यचन्द्रग्रसनाग्रहलग्नचित्त

राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥ २७॥

केतुः

चित्रगुप्तब्रह्मदेवौ अधिप्रत्यधिदेवते ।

केतुग्रह समुत्तिष्ठ ज्ञानपीडोपशान्तये ॥ २८॥

चित्रं च ते ध्वजरथादि समस्तमेव

सयेतरं च गमनं परितस्तु मेरुम् ।

सूर्यस्य वायुदितिसञ्चरतीह नित्यम्

केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥ २९॥

त्वन्मन्त्रजापपरसज्जन संस्तुतस्सन्

ज्ञानं तनोशि विमलं परिहार्य पीडाम् ।

एवम् हि सन्ततमनन्तदयां कुरु त्वम्

केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥ ३०॥

फलश्रुति

नित्यं नवग्रहदेवतानामिह सुप्रभातम् ।

ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ॥

तेशां प्रभातसमये स्मृतिरङ्गभाजाम् ।

प्रज्ञां परार्धसुलभां परमां प्रसूते ॥

आदित्याय च सोमाय मङ्गलाय बुधाय च ।

गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॥

वेदोक्त प्रातःस्मरण-सूक्त

ॐ प्रातरग्निं प्रातरिन्द्रर्ठ० हवामहे प्रातर्मित्रावरुणा प्रातरश्चिना ।
प्रातर्भगं पूषणं ब्रह्मणस्पति प्रात: सोममुत रुद्रर्ठ० हुवेम ॥१॥
प्रातर्ज्जितं भगमुग्रर्ठ० हुवेम व्वयं पुत्रमदितेर्यो व्विधर्त्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्न: ।
भग प्र नो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्त: स्याम ॥३॥
उतेदानीं भगवन्त: स्यामोत प्रपित्व ऽउत मध्येऽअह्नाम् ।
उतोदिता मघवन्त्सूर्यस्य व्वयं देवाना सुमतौ स्याम ॥४॥
भग ऽएव भगवाँ२ ऽअस्तु देवास्तेन व्वयं भगवन्त: स्याम ।
तं त्वा भग सर्व्व ऽइज्जोहवीति स नो भग पुरऽएता भवेह ॥५॥
समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय ।
अर्व्वाचीनं व्वसुविदं भगं नो रथमिवाश्वा व्वाजिनऽआवहन्तु ॥६॥
अश्वावतीर्गोमतीर्न ऽउषासो व्वीरवती: सदमुच्छन्तु भद्रा: ।
घृतं दुहाना व्विश्वत: प्रपीता यूयं पात स्वस्तिभि: सदा न: ॥७॥

॥ श्रीहनूमत्स्मरणम् ॥

प्रातः स्मरामि हनुमन्तमनन्तवीर्यंश्रीरामचन्द्रचरणाम्बुजचञ्चरीकम् ।

लङ्कापुरीदहननन्दितदेववृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥ १॥

माध्यं नमामि वृजिनार्णवतारणैक – धीरं शरण्यमुदितानुपमप्रभावम् ।

सीताऽऽधिसिन्धुपरिशोषणकर्मदक्षं वन्दारुकल्पतरुमव्ययमाञ्जनेयम् ॥ २॥

सायं भजामि शरणोपसृताखिलार्ति – पुञ्जप्रणाशनविधौ प्रथितप्रतापम् ।

अक्षान्तकं सकलराक्षसवंशधूम – केतुं प्रमोदितविदेहसुतं दयालुम् ॥ ३॥

भगवद्भक्तस्मरणम्

प्रह्लादनारदपराशरपुण्डरीक-

व्यासाऽम्बरीषशुकशौनकभीष्मदाल्भ्यान् ।

रुक्माङ्गदाऽर्जुनवसिष्ठविभीषणादीन्

पुण्यानिमान् परमभागवतान् स्मरामि ॥

भगवत्स्तुतिः

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ १॥

पिता माता गुरुर्भ्राता सखा बन्धुस्त्वमेव मे ।

विद्या सत्कर्म वित्तं च पुरस्पृष्ठे च पार्श्वयोः ॥ २॥

जन्मभूमिदर्शनफलम्

कपिलागोसहस्रं च यो ददाति दिनेदिने ।

तत्फलं समवाप्नोति जन्मूभूमेः प्रदर्शनात् ॥ १॥

जन्मान्तरसहस्रेण यत्पापं समुपार्जितम् ।

तत्सर्वं नाशमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ २॥

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।

मोक्षार्थी मोक्षमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ ३॥

तुलसीस्तुतिः

देवैस्त्वं निर्मिता पूर्वमर्चिताऽसि मुनीश्वरैः ।

नमो नमस्ते तुलसि! पापं हर हरिप्रिये ॥ १॥

यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।

यदग्रे सर्ववेदाश्च तुलसि! त्वां नमाम्यहम् ॥ २॥

दत्तात्रेयस्तुतिः

पीताम्बरालङ्कृतपृष्ठभागं भस्मावगुण्ठाऽखिलरुक्मदेहम् ।

विद्युत्सदापिङ्गजटाभिरामं श्रीदत्तयागीशमहंनतोऽस्मि ॥ १॥

ब्रह्मानन्दं परमसुखदं केक्त्यं ज्ञानमूर्तिं

द्वन्द्वातीतं गगनसदृशंतत्त्वमस्यादिलक्ष्यम् ।

एक नित्यं विमलमचलं सर्वधीसाक्षिभूतं

भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ २॥

पाण्डुरङ्गस्तुतिः

समचरणसरोजं सान्द्रनीलाम्बुदाभं

जघननिहितपाणिं मण्डनं मण्डनानाम् ।

तरुणतुलसिमालाकन्धरं कञ्जनेत्रं

सदयधवलहासं विट्ठलं चिन्तयामि ॥

बुद्धस्तुतिः

ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं

पश्याऽनङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि ।

मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् ।

शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥

जिनस्तुतिः

आबाहूद्गतमण्डलाग्ररुचयः सन्नद्धवक्षःस्थलाः

सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।

उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा

योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥

जिनेन्द्रस्तुतिः

सम्पूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् ।

देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवान् जिनेन्द्रः ॥

महावीरस्तुतिः

यदीये चैतन्ये मुकुर इव भावाश्चिदचितः

समं भ्रान्तिं ध्रौव्यव्ययजनिलसन्तोऽन्तरहिताः ।

जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो

महावीरः स्वामी नयनपथगामी भवतु मे ॥

सत्यरूपस्तुतिः

सत्यरूपं सत्यसन्धं सत्यनारायर्ण हरिणे

यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥ १॥

त्रैलोक्यचैतन्यमयादिदेव! श्रीनाथ! विष्णो! भवदाज्ञया वै

प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ २॥

दुःस्वप्ननाशनदेवस्मरणम्

अविमुक्तचरणयुगलं दक्षिणमूर्तेश्च कुक्कुटचतुष्कम् ।

स्मरणं वाराणस्यां निहन्ति स्वप्नमशकुनं च ॥

प्रातर्वन्दनीयस्तुतिः

प्रातःकाले पिता माता ज्येष्ठभ्राता तथैव च ।

आचार्याः स्थविराश्चैव वन्दनीया दिने दिने ॥

प्रातर्दर्शनम्

कपिलां दर्पणं धेनुं भाग्यवन्तं च भूपतिम् ।

आचार्यं अन्नदातारं प्रातः पश्येद् बुधो जनः ॥ १॥

श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा ।

प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥ २॥

Leave a Reply

Your email address will not be published. Required fields are marked *