अथ पुराणोक्त श्रीसूक्तम्, Puronakta Shrisuktam

0

हिरण्यवर्णा हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरुपाम् |

लक्ष्मीमृगीरुपधरां श्रियं त्वं मदर्थमाकारय जातवेदः ||

यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोडश्वात्म जमित्रसाहान् |

लभेयमाशु ह्यनपायिनीं मां मदर्थमाकारय जातवेदः ||

प्रत्याह्वयेतामहमश्वपूर्वां देवीं श्रियं मध्यरथादियुक्ताम् |

प्रभोधिनीं हस्सिुबृंहितेनाहूता मया सा किल सेविता वै ||

कां सुस्मितां तामिह पद्मवर्णामार्द्रा सुवर्णा वरणां ज्वलन्तीम् |

तृप्तां हि भक्तानथ तर्पयन्तीमुपह्वयेडहं कमलासनस्थाम् ||

लोके ज्वलन्ती यशसा प्रभासां चन्द्रामुदारामुत देवजुष्टाम् |

तां पद्मरुपां शरणं प्रपद्ये प्रियं वृणे त्वां व्रजतामलक्ष्मीः ||

वनस्पतिस्ते तपसोडर्धजातो वृक्षोंडथ बिल्वस्तरुणार्कवर्णे |

फलानि तस्य त्वदनुग्रहेण माया अलक्ष्मीश्व नुदन्तु बाह्याः ||

उपैतु मां देवसखः कुबेर सा दक्षकन्या मणिना च कीर्तिः |

जातोडस्मि राष्ट्रे किल मर्त्यलोके कीर्ति समृद्धि च ददातु मह्यम् ||

क्षुत्तृट्कृशाङ्गीं मलिनामलक्ष्मीं तवाग्रजातामुत नाशयामि |

सर्वामभूतिं ह्यसमद्धिमम्ब गृहाश्च निष्कासय मे द्रुतं त्वम् ||

केनाप्यधृष्यामथ गन्धचिन्हां पुष्टां गवाश्वादियुतां च नित्यम् |

पद्मालये सर्वजनेश्वरीं तां प्रत्याह्वयेडहं खलु मत्समीपम् ||

लभेमहि श्रीर्मनसश्रव कामं वाचस्तु सत्यं च सुकल्पितं वै |

अन्नस्य भक्ष्यं च पयः पशूनां सम्पद्धिमरुयाश्रयतां यशश्रव ||

मयि प्रसादं कुरु कर्दम त्वं प्रजावती श्रीरभवत्तवया हि |

कुले प्रतिष्ठापय मे श्रियं वै त्वन्मातरं तामुत पद्मालाम् ||
स्निग्धानि चापोऽभिसृजं त्वजंस्त्रं चिक्लीत वासं कुरु मदगृहे त्वम् |

कुले श्रियं मातरमाशु मेऽद्य श्रीपुत्रसंवासयतां च देवीम् ||

तां पिङ्गलां पुष्करिणीं च लक्ष्मीमार्द्रा च पुष्टिं सुभपद्ममालाम् |

चंद्रप्रकाशां च हिरण्यरुपां मदर्थमाकारय जातवेदः ||

आर्द्रां तथा यष्टिकरीं सुवर्णां तां यष्टिरुपामथ हेममालाम् |

सूर्यप्रकाशांश्च हिरण्यरुपां मदर्थमाकारय जातवेदः ||

यस्यां प्रभुतं कनकं च गावो दासीस्तुरङ्गान् पुरुषांश्च सत्याम् |

विन्देयमाशु ह्यनपायिनीं तां मदर्थमाकारय जातवेदः ||

श्रियः पंचदशश्लोकं सूक्तं पौराणमन्वहम् |

यः पठेज्जुहुयाच्चाज्यं श्रेयुतः सततं भवेत् ||

|| इति पुराणोक्त श्रीसूक्तम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *