सशक्तिशिवनवकम् || Sashakti Shiva Navakam

0

सशक्तिशिवनवकम् || Sasakti Shiva Navakam || Sashakti Shiva Navakam
वेदशास्त्रपुराणेतिहासकाव्यकलादिषु।

विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ॥१॥

चतुर्द्शासु विद्यासु चतुष्षष्टिकलासु च।

चतुरां धियमाधेहि ऐं नमः क्लीं शिवाय सौ॥२॥

मीमांसायां समस्तायां शब्दशास्त्रे विशेषतः।

देहि मे देव संप्राज्ञं ऐं नमः क्लीं शिवाय सौ॥३॥

गणितेषु च सर्वज्ञ देहि मे परमेश्वर।

सम्यक् ज्ञानं जगन्नाथ ऐं नमः क्लीं शिवाय सौ॥४॥

सकलेष्वपि काव्येषु सकलासु कलासु च।

साहित्यं देहि मे वाचं ऐं नमः क्लीं शिवाय सौ॥५॥

हृदयाम्बुरुहे नित्यं वस मे परमेश्वर।

हर मे दुरितं शश्वत् ऐं नमः क्लीं शिवाय सौ॥६॥

जन्मान्तरकृतं पापं बुद्धेर्जाड्यकरं शिव।

जहि जन्तुषु निन्दां च ऐं नमः क्लीं शिवाय सौ॥७॥

विषयेषु विरक्तिं च विविधेषु विधेहि मे।

विनतेष्टद विश्वेश ऐं नमः क्लीं शिवाय सौ॥८॥

मुक्तिमार्गपरं चित्तं कुरु मे जगदीश्वर।

मुग्धचन्द्रकलाचूड ऐं नमः क्लीं शिवाय सौ॥९॥

इत्येतद् नवकं नित्यं भक्तितो यः पठेन्नरः।

प्रारंभास्तस्य सिध्यन्ति प्रार्थितं चापि सिध्यति ॥१०॥

Leave a Reply

Your email address will not be published. Required fields are marked *