शमी पूजन स्तोत्र, Shami Pujan Stotra

0

अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये |

जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ ||

त्वं चापराजिते देवि शमीवृक्षस्थिते जये |

राज्यं मे देहि विश्वेशि शत्रूणां च पराजयम् || २ ||

अमङ्गलानां शमनीं, दुःकृतस्य च शमनीम् |

दुःस्वप्नशमनीं धन्यां, प्रपद्येऽहं शमीं शमाम् || ३ ||

शमी शमयते रोगान्, शमी शमयते रिपून् |

शमी शमयते पापं, शमी सर्वार्थसाधिनी || ४ ||

अर्जुनस्य धनुर्धात्री,रामस्य शोकनाशिनी |

लक्ष्मणप्राणदात्री च, सीताशोकशमङ्करी || ५ ||

अपराजिते नमस्तेऽस्तु, जयदे कामदायिनी |

यात्रामहं करिष्यामि, सिद्धिं सर्वत्र मे कुरु || ६ ||

मन्त्रैर्वेदमयैश्चैव, पूज्येच्च शमीस्थिताम् |

अपराजितां भद्ररूपां, विजयार्थप्रदां शिवाम् || ७ ||

क्रमेणेन्द्रस्य ककुभिः, विन्यसेत् तु पदं क्रमात् |

रिपोः प्रतिकृतिं कृत्वा, पांशुना तलरूपिणीम् || ८ ||

शरेण शरपुड्खेंण, बिद्धेद् हृदयमर्मणि |

दिशां विजयमन्त्राश्च, असिरुपा द्विजातिभिः || ९ ||

पाठनीयास्ततो गेहं, गच्छेच्चैव पुरोधसा |

मांगल्यंभिषेकं च, गुणप्राशनमेव च || १० ||

स्वस्तिवाच्या द्विजाश्चैव, बन्दीभ्योऽभयदक्षिणां |

देयाधिक्यं च रजतं, वस्त्रादिनवभूषणम् || ११ ||

परिधयं स्वयं चैव (चैय) पत्नीभ्यो देयमेव च |

पुत्रादिभ्यो स्त्रुषादिभ्यो, मन्त्रीभ्यो देयमेव च || १२ ||

अदेयमपि तत्काले, देयं श्रद्धा |

सम्भाव्य पौरान् भृत्यांश्च, तेषामुत्सर्जनं ततः || १३ ||

ततः पुरोधसा साकं, स्वयं गच्छेच्छमीं पुनः |

वामदक्षिण पार्श्वेभ्यो, गृहीत्वा मृत्तिकां ततः || १४ ||

श्रीधरं च हिरण्यं च, पट्ट कूलं समर्पयेत् |

गुरुं सम्पूज्य सस्त्रीकं, ततो गच्छेद् गृहं प्रति || १५ ||

|| अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *