श्री शिव सहस्रनाम स्तोत्रम् शङ्करसंहितायां स्कन्द महापुराणान्तर्गतम् || Shiv Sahastranam Sankarasahita Skandapuran

0

इससे पूर्व शिवजी सहस्त्र नाम श्रृंखला के अन्तर्गत स्कन्दपुराणान्तर्गतम् श्रीशिवसहस्रनामस्तोत्रम् दिया गया अब स्कन्दपुराणान्तर्गतम् शङ्करसंहिता में लिखा श्रीशिवसहस्रनामस्तोत्रम् दिया जा रहा है।

 

|| श्रीशिवसहस्रनामस्तोत्रम् शङ्करसंहितायां स्कन्दमहापुराणान्तर्गतम् ||

(श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे)

हरश्शम्भुर्महादेवो नीलकण्ठस्सदाशिवः ।

भर्ता वरः पाण्डराङ्ग आनन्दश्शान्तविग्रहः ॥ १॥

एकोऽनन्तो मृगधरः शूलपाणिर्भवः शिवः ।

वह्निमध्यनटो मुक्तः स्वयम्भूर्निशिनर्तनः ॥ २॥

नन्दी परशुपाणिश्च ज्योतिर्भस्माङ्गरागभृत् ।

गजोत्पादी कपाली च नित्यश्शुद्धोऽग्निधारकः ॥ ३॥

शङ्करो भूरथो मेरुचापो वृषभवाहनः ।

उत्पत्तिशून्यो भूतेशो नागाभरणधारणः ॥ ४॥

उमार्धदेही हिमवज्जामाता भर्ग उत्तमः ।

उमापतिर्वह्निपाणिश्छेत्ता प्रलयनिर्भयः ॥ ५॥

एकरुद्रः पार्थबाणप्रदो रुद्रोऽतिवीर्यवान् ।

रविचक्ररथस्तद्वत्सोमचक्ररथःस्मृतः ॥ ६॥

दिगम्बरस्सर्वनेता विष्णुमत्स्यनिबर्हकः ।

मत्स्यनेत्रापहारीच मत्स्यनेत्र विभूषणः ॥ ७॥

मत्स्यपूजितपादश्च तथैव कमलासनः ।

वेदवेद्यः स्मृतस्तद्वद्वेदाश्वरथ ईरितः ॥ ८॥

वेदश्च वेदकौपीनो वेदनुपूरकस्तथा ।

वेदवाक्यो वेदमूर्तिर्वेदान्तो वेदपूजितः ॥ ९॥

सर्वेश्वरो नादवाच्यो ब्रह्ममूर्धनिकृन्तनः ।

ताण्डवश्चामृतस्तद्वदूर्ध्वताण्डवपण्डितः ॥ १०॥

आनन्दश्चण्ड आनन्दताण्डवः पूषदन्तभित् ।

भगनेत्रहरस्तद्वद्गजचर्माम्बरप्रियः ॥ ११॥

कामान्तको व्याघ्रभेदी मृगी चैकाङ्गकस्तथा ।

निर्विकारः पशुपतिस्सर्वात्मगोचरस्तथा ॥ १२॥

अग्रिनेत्रो भानुनेत्रश्चन्द्रनेत्रोऽपि कथ्यते ।

कूर्मनिग्राहकः कूर्मकपालाहारकस्तथा ॥ १३॥

कूर्मपूज्यस्तथा कूर्मकपालाभरणस्तथा ।

व्याघ्रचर्माम्बरः स्वामी तथा पाशविमोचकः ॥ १४॥

ओङ्काराभेनद् द्वन्द्वभञ्जकज्ञानमूर्तयः ।

विष्णुबाणो गणपतिः पूतोऽयन्तु पुरातनः ॥ १५॥

भूतनुश्च कृपामूर्तिः विष्णूत्पादकपादवान्।

सुब्रह्मण्यपिता ब्रह्मपिता स्थाणुरथ स्मृतः ॥ १६॥

अर्भकक्षीरजलधिप्रदो पोत्रिविभेदकः ।

पोत्रिदन्तापहारी च पोत्रिदन्तविभूषणः ॥ १७॥

पोत्रिपूजितपादश्च चन्द्रपुष्पेषुकस्तथा ।

सर्वोपादानकस्तद्वदार्द्रभोऽग्निसमाकृतिः ॥ १८॥

मातापितृविहीनश्च धर्माधर्मावुभावपि ।

नियुक्तरथसारथ्यब्रह्मपूजितपादवान् ॥ १९॥

रक्तपिङ्गजटो विष्णुरभयो भानुदीपवान्।

भूतसेनो महायोगी योगी कालियनर्तनः ॥ २०॥

गीतप्रियो नारसिंहनिग्रहीताऽपि कथ्यते।

नारसिंहशिरोभूषो नारसिंहत्वगम्बरः ॥ २१॥

नारसिंहत्वगुत्पाटी नारासिंहसुपूजितः ।

अणुरूपी महारूपी अतिसुन्दरविग्रहः ॥ २२॥

आचार्यश्च पुण्यगिरिराचार्योऽपि च कथ्यते।

भिक्षामर्दनगोलानां गिरिष्वाचार्य ईरितः ॥ २३॥

तथैषाष्टमहासिद्धिरन्तकान्तक ईरितः ।

घोरस्तथैव गिरिशः कृतमालविभूषणः ॥ २४॥

वृषध्वजो डमरुकधरो विष्ण्वक्षिधारकः ।

रक्ताङ्गश्च ब्रह्मसृष्टिप्रदश्चाभयरूपवान् ॥ २५॥

विष्णुरक्षाप्रदस्तद्वदष्टैश्वर्यसमन्वितः ।

तथैवाष्टगुणेशो वै चाष्टमङ्गलकेश्वरः ॥ २६॥

बकासुरस्य हर्ता च बकपक्षधरोऽपि सः ।

तथा मन्मथनाथोऽपि वासुदेवसुतप्रदः ॥ २७॥

महावतोऽध्वनित्यश्च त्यक्तकेतक ईरितः ।

महाव्रतो बिल्वमालाधारी पाशुपतः स्मृतः ॥ २८॥

त्रिधाभाश्च परञ्ज्योतिर्द्विसहस्रद्विजो भवान् ।

त्रिविक्रमनिहन्ता च त्रिविक्रमसुपूजितः ॥ २९॥

त्रिविक्रमत्वगुत्पाटी तथा तच्चर्मकञ्चुकः ।

त्रिविक्रमास्थिदण्डी च सर्वो मध्यस्थकोऽपि सः ॥ ३०॥

वटमूलो वेणिजटस्तथा विष्ण्वस्थिभूषणः ।

विकृतो विजयश्चैव तथा भक्तकृपाकरः ॥ ३१॥

स्तोत्रपूजाप्रियो रामवरदो हृदयाम्बुजः ।

तथा परशुरामैनोहारकस्तेन पूजितः ॥ ३२॥

रुद्राक्षमाली भोगी च महाभोगी च संस्मृतः ।

भोगातीतश्च सर्वेशो योगातीतो हरिप्रियः ॥ ३३॥

वेदवेदान्तकर्ता च त्र्यम्बकमनोहरौ ।

विनायको वितरणो विचित्रो व्रत इत्यपि ॥ ३४॥

परमेशो विरूपाक्षो देवदेवस्त्रिलोचनः ।

वैणिको विष्टरस्थोऽयं तथा क्षीरसमाकृतिः ॥ ३५॥

आरणः काठकश्चैव सुमुखोऽमृतवागपि ।

धुस्तूरपुष्पधारी च ऋग्यजुर्वेदिनावुभौ ॥ ३६॥

सामवेदी तथाऽथर्ववेदी कामिककारणौ ।

विमलो मकुटश्चैव वातुलोऽचिन्त्ययोगजौ ॥ ३७॥

दीप्तस्सूक्ष्मस्तथैवायं वीरश्च किरणोऽपि च ।

अजितश्च सहस्रश्च अंशुमान् सुप्रभेदकः ॥ ३८॥

तथा विजयनिश्वासौ नाम्ना स्वायम्भुवोऽप्ययम् ।

अनलो रौरवश्चन्द्रज्ञानो बिम्ब उदीरितः ॥ ३९॥

प्रोद्गीतो ललितस्सिद्धस्तथा सन्ताननामवान्।

शर्वोत्तरस्तथाचार्यपारमेश्वर ईरितः ॥ ४०॥

उपागमसमाख्योऽपि तथा शिवपुराणकः ।

भविष्यच्च तथैवायं मार्कण्डेयोऽपि लैङ्गकः ॥ ४१॥

स्कान्दो वराहोऽपि तथा वामनो मत्स्यकूर्मकौ ।

ब्रह्माण्डो ब्राह्मपाद्मौ च गारुडो विष्णुनारदौ ॥ ४२॥

तथा भागवताग्नेयौ ब्रह्मकैवर्तकोऽप्ययम् ।

तथैवोपपुराणोऽपि रामस्यास्त्रप्रदोऽपि सः ॥ ४३॥

रामस्य चापहारी च रामपूजितपादवान्।

मायी च शुद्धमायी च वैखरी मध्यमा परा ॥ ४४॥

पश्यन्ती च तथा सूक्ष्मा तथा प्रणवचापवान् ।

ज्ञानास्त्रस्सकलश्चैव निष्कलस्सकलश्च वै ॥ ४५॥

विष्णोः पतिरयं तद्वद्वलभद्रबलप्रदः ।

बलचापापहर्त्ता च बलपूजितपादवान् ॥ ४६॥

दण्डायुधो वाङ्गनसोरगोचरसुगन्धिनौ ।

श्रीकण्ठोऽप्ययमाचारः खट्वाङ्गः पाशभृत्तथा ॥ ४७॥

स्वर्णरूपी स्वर्णवीर्यस्सकलात्माऽधिपः स्मृतः ।

प्रलयः कालनाथोऽपि विज्ञानं कालनायकः ॥ ४८॥

पिनाकपाणिस्सुकृतो विष्कारो विस्तुरक्तपः ।

विष्णोः क्षारकरस्तद्वकृष्णज्ञानप्रदो हि सः ॥ ४९॥

कृष्णाय पुत्रदः कृष्णयुद्धदः कृष्णपापहा ।

कृष्णपूजितपादश्च कर्किविष्ण्वश्वभञ्जनः ॥ ५०॥

कर्किपूजितपादश्च वह्निजिह्वातिकृन्तनः ।

भारतीनासिकाच्छेत्ता पापनाशो जितेन्द्रियः ॥ ५१॥

शिष्टो विशिष्टः कर्ता च भीमेभ्यो भीम उच्यते ।

शिवतत्त्वं तथा विद्यातत्त्वं पञ्चाक्षरोऽपि सः ॥ ५२॥

पञ्चवक्त्रः स्मितशिरोधारी ब्रह्मास्थिभूषणः ।

आत्मतत्त्वं तथा दृश्यसहायो रसवीर्यवान् ॥ ५३॥

अदृश्यद्रष्टा मेनाया जामातोग्रष्षडङ्गवान् ।

तथा दक्षशिरश्छेत्ता तत्पुरुषो ब्राह्मणश्शिखी ॥ ५४॥

अष्टमूर्तिश्चाष्टभुजष्षडक्षरसमाह्वयः ।

पञ्चकृत्यः पञ्चधेनुः पञ्चवृक्षोऽग्निकश्चिवान् ॥ ५५॥

शङ्खवर्णस्सर्पकटिस्सूत्रोऽहङ्कार ईरितः ।

स्वाहाकारः स्वधाकारः फट्कारस्सुमुखः स्मृतः ॥ ५६॥

दीनान्धककृपालुश्च वामदेवोऽपि कन्थ्यते ।

धीरः कल्पो युगो वर्षमासावृतुसमाह्वयः ॥ ५७॥

राशिवासरनक्षत्रयोगाः करण ईरितः ।

घटी काष्ठा विनाडी च प्राणो गुरुनिमेषकौ ॥ ५८॥

श्रवणर्क्षो मेघवाहो ब्रह्माण्डसृगुदीरितः ।

जाग्रत्स्वप्नसुषुप्तिश्च तुर्योऽयमतितुर्यवान् ॥ ५९॥

तथैव केवलावस्थस्सकलावस्थ इत्यपि।

शुद्धावस्थोत्तमाङ्गौ च सृष्टिरक्षाविधायिनौ ॥ ६०॥

संहर्ता च तिरोभूत अनुग्रहकरस्तथा ।

स्वतन्त्रः परतन्त्रश्च षण्मुखः काल ईरितः ॥ ६१॥

अकालश्च तथा पाशुपतास्त्रकर ईश्वरः ।

अघोरक्षुरिकास्त्रौ च प्रत्यङ्गास्त्रोऽपि क्थ्यते ॥ ६२॥

पादोत्सृष्टमहाचक्रो विष्णुवेश्याभुजङ्गकः ।

नागयज्ञोपवीती च पञ्चवर्णोऽपि मोक्षदः ॥ ६३॥

वाय्वग्नीशौ सर्पकच्छः पञ्चमूर्तश्च भोगदः ।

तथा विष्णुशिरश्छेत्ता शेषज्यो बिन्दुनादकः ॥ ६४॥

सर्वज्ञो विष्णुनिगलमोक्षको बीजवर्णकः ।

बिल्वपत्रधरो बिन्दुनादपीठस्तु शक्तिदः ॥ ६५॥

तथा रावणनिष्पेष्टा भैरवोत्पादकोऽप्ययम्।

दक्षयज्ञविनाशी च त्रिपुरत्रयशिक्षकः ॥ ६६॥

सिन्दूरपत्रधारी च मन्दारस्रगलङ्कृतः ।

निर्वीर्यो भावनातीतस्तथा भूतगणेश्वरः ॥ ६७॥

बिष्णुभ्रूमध्यपादी च सर्वोपादानकारणम् ।

निमित्तकारणं सर्वसहकार्यपि कथ्यते ॥ ६८॥

तत्सद्व्यासकरच्छेत्ता शूलप्रोतहरिस्तथा ।

भेदाभेदौ वेदवल्लीकण्ठच्छेत्ता हि कथ्यते ॥ ६९॥

पञ्चब्रह्मस्वरूपी च भेदाभेदोभयात्मवान् ।

अच्छस्फटिक सङ्काशो ब्रह्मभस्मावलेपनः ॥ ७०॥

निर्दग्धविष्णुभस्माङ्गरागः पिङ्गजटाधरः ।

चण्डार्पितप्रसादश्च धाता धातृविवर्जितः ॥ ७१॥

कल्पातीतः कल्पभस्म चागस्त्यकुसुमप्रियः ।

अनुकल्पोपकल्पौ च सङ्कल्पश्छेददुन्दुभिः ॥ ७२॥

विकल्पो विष्णुदुर्ज्ञेयपादो मृत्युञ्जयः स्मृतः ।

विष्णुश्मशाननटनो विष्णुकेशोपवीतवान् ॥ ७३॥

ब्रह्मश्मशाननटनः पञ्चरावणघातकः ।

सर्पाधीशान्तरस्तद्वदनलासुरघातकः ॥ ७४॥

महिषासुरसंहर्ता नालीदूर्वावतंसकः ।

देवर्षिनरदैत्येशो राक्षसेशो धनेश्वरः ॥ ७५॥

चराचरेशोऽनुपदो मूर्तिच्छन्दस्वरूपिणौ ।

एकद्वित्रिचतुः पञ्चजानिनो विक्रमाश्रमः ॥ ७६॥

ब्रह्मविष्णुकपालाप्तजयकिङ्किणिकाङ्घ्रिकः ।

संहारकाट्टहासोऽपि सर्वसंहारकः स्मृतः ॥ ७७॥

सर्वसंहारनेत्राग्निः सृष्टिकृद्वाङ्मनोयुतः ।

संहारकृत् त्रिशूलोऽपि रक्षाकृत्पाणिपादवान् ॥ ७८॥

भृङ्गिनाट्यप्रियश्शङ्खपद्मनिध्योरधीश्वरः ।

सर्वान्तरो भक्तचिन्तितार्थदो भक्तवत्सलः ॥ ७९॥

भक्तापराधसोढा च विकीर्णजट ईरितः ।

जटामकुटधारीच विशदास्त्रोऽपि कथ्यते॥ ८०॥

अपस्मारीकृताविद्यापृष्ठाङ्घ्रिः स्थौल्यवर्जितः ।

युवा नित्ययुवा वृद्धो नित्यवृद्धोऽपि कथ्यते ॥ ८१॥

शक्त्युत्पाटी शक्तियुक्तस्सत्यात्सत्योऽपि कथ्यते।

विष्णूत्पादक अद्वन्द्वः सत्यासत्यश्च ईरितः ॥ ८२॥

मूलाधारस्तथा स्वाधिष्ठानश्च मणिपूरकः ।

अनाहतो विशुद्ध्याज्ञे तथा ब्रह्मबिलं स्मृतः ॥ ८३॥

वराभयकरश्शास्तृपिता तारकमारकः ।

सालोक्यदश्व सामीप्यदायी सारूप्यदः स्मृतः ॥ ८४॥

सायुज्यमुक्तिदस्तद्वद्धरिकन्धरपादुकः ।

निकृत्तब्रह्ममूर्धा च शाकिनीडाकिनीश्वरः ॥ ८५॥

योगिनीमोहिनीनाथो दुर्गानाथोऽपि कथ्यते।

यज्ञो यज्ञेश्वरो यज्ञहविर्भुग्यज्वनां प्रियः ॥ ८६॥

विष्णुशापापहर्ता च चन्द्रशापापहारकः ।

इन्द्रशापापहर्ताच वेदागमपुराणकृत् ॥ ८७॥

विष्णुब्रह्मोपदेष्टा च स्कन्दोमादेशिकोऽप्ययम्।

विघ्नेशस्योपदेष्टा च नन्दिकेशगुरुस्तथा ॥ ८८॥

तथा ऋषिगुरुस्सर्वगुरुर्दशदिगीश्वरः ।

दशायुधदशाङ्गौ च ज्ञानयज्ञोपवीतवान्॥ ८९॥

ब्रह्मविष्णुशिरोमुण्डकन्दुकः परमेश्वरः ।

ज्ञानक्रियायोगचर्यानिरतोरगकुण्डलौ ॥ ९०॥

ब्रह्मतालप्रियो विष्णुपटहप्रीतिरप्ययम्।

भण्डासुरापहर्ताच कङ्कपत्रधरोऽप्ययम् ॥ ९१॥

तन्त्रवाद्यरतस्तद्वदर्कपुष्पप्रियोऽप्ययम्।

विष्ण्वास्यमुक्तवीर्योऽपि देव्यग्ग्रकृतताण्डवः ॥ ९२॥

ज्ञानाम्बरो ज्ञानभूषो विष्णुशङ्खप्रियोऽप्ययम् ।

विष्णूदरविमुक्तात्मवीर्यश्चैव परात्परः ॥ ९३॥

महेश्वरश्चेश्वरोऽपि लिङ्गोद्भवसुखासनौ ।

उमासखश्चन्द्रचूडश्चार्धनारीश्वरः स्मृतः ॥ ९४॥

सोमास्कन्दस्तथा चक्रप्रसादी च त्रिमूर्तिकः ।

अर्धाङ्गविष्णुश्च तथा दक्षिणामूर्तिरव्ययः ॥ ९५॥

भिक्षाटनश्च कङ्कालः कामारिः कालशासनः ।

जलन्धरारिस्त्रिपुरहन्ता च विषभक्षणः ॥ ९६॥

कल्याणसुन्दरशरभमूर्ती च त्रिपादपि ।

एकपादो भैरवश्च वृषारूढस्सदानटः ॥ ९७॥

गङ्गाधरष्षण्णवतितत्त्वमप्ययमीरितः ।

तथा साष्टशतभेदमूरतिरष्टशताह्वयः ॥ ९८॥

अष्टोत्तरशतं तालरागनृत्तैकपण्डितः ।

सहस्राख्यस्सहस्राक्षस्सहस्रमुख ईरितः ॥ ९९॥

सहस्रबाहु स्तन्मूर्तिरनन्तमुख ईरितः ।

अनन्तनामापि तथा चानन्तश्रुतिरप्ययम् ॥ १००॥

अनन्तनयनस्तद्वदनन्तघ्राणमण्डितः ।

अनन्तरूप्ययं तद्वदनन्तैश्वर्यवान् स्मृतः ॥ १०१॥

अनन्तशक्तिकृत्यावाननन्तज्ञानवानयम् ।

अनन्तानन्दसन्दोह अनन्तौदार्यवानयम् ॥ १०२॥

तथैव पृथिवीमूर्तिः पृथिवीशोऽपि कथ्यते ।

पृथिवीधारकस्तद्वत्पृथिव्यान्तर ईरितः ॥ १०३॥

पृथिव्यतीतश्च तथा पार्थिवाण्डाभिमान्ययम् ।

तदण्डपुरुषहृदयकमलोऽपि निगद्यते ॥ १०४॥

तदण्डभुवनेशानः तच्छक्तिधरणात्मकः ।

आधारशक्त्यधिष्ठानानन्ताः कालाग्निरप्ययम् ॥ १०५॥

कालाग्निरुद्रभुवनपतिरप्ययमीरितः ।

अनन्तश्च तथेशश्च शङ्करः पद्मपिङ्गलौ ॥ १०६॥

कालश्च जलजश्चैव क्रोधोऽतिबल ईरितः ।

धनदश्चातिकूश्माण्डभुवनेशोऽपि कथ्यते ॥ १०७॥

कूश्माण्डस्सप्तपातालनायकोऽपि निगद्यते ।

पातालान्तोऽपि चेशानो बलातिबलनावुभौ ॥ १०८॥

बलविकरणश्चायं बलेशोऽपि बलेश्वरः ।

बलाध्यक्षश्च बलवान्हाटकेशोऽपि कथ्यते ॥ १०९॥

तथा तद्भुवनेशानस्तथैवाष्टगजेश्वरः ।

अष्टनागेश्वरस्तद्वद्भूलोकेशोऽपि कथ्यते ॥ ११०॥

मेर्वीशो मेरुशिखरराजोऽवनिपतिस्तथा ।

त्र्यम्बकश्चाष्टकुलपर्वतेशोऽपि कथ्यते ॥ १११॥

मानसोत्तरगिरि स्तद्वद्विश्वेशोऽपि निगद्यते ।

स्वर्णलोकश्चक्रवालगिरिवासविरामकः ॥ ११२॥

धर्मो विविधधामा च शङ्खपालश्च कथ्यते ।

तथा कनकरोमा च पर्जन्यः केतुमानपि ॥ ११३॥

विरोचनो हरिच्छायो रक्तच्छायश्च कथ्यते ।

महान्धकारनाथोऽपि अण्डभित्तीश्वरोऽप्ययम् ॥ ११४॥

प्राचीवज्रीश्वरो दक्षिणप्राचीशोऽपि गद्यते ।

अग्नीश्वरो दक्षिणश्च दिगीशो धर्मराडपि ॥ ११५॥

दक्षिणाशापतिस्तद्वन्निरृतीशोऽपि कथ्यते ।

पश्चिमाशापतिस्तद्वद्वरुणेशोऽपि कथ्यते ॥ ११६॥

तथोदक्पश्चिमेशोऽपि वाय्वीशोऽपि तथोच्यते ।

तथैवोत्तरदिङ्नाथः कुबेरेशोऽपि चोच्यते ॥ ११७॥

तथैवोत्तरपूर्वेश ईशानेशोऽपि कथ्यते ।

कैलासशिखरीनाथः श्रीकण्ठपरमेश्वरः ॥ ११८॥

महाकैलासनाथोऽपि महासदाशिवः स्मृतः ।

भुवर्लोकेशशम्भूग्रास्सूर्यमण्डलनायकः ॥ ११९॥

प्रकाशरुद्रो यश्चन्द्रमण्डलेशोऽपि कथ्यते ।

तथा चन्द्रमहादेवो नक्षत्राणामधीश्वरः ॥ १२०॥

ग्रहलोकेश गन्धर्वगान्धर्वेशावुभावपि ।

सिद्धविद्याधरेशोऽयं किन्नरेशोऽपि कथ्यते ॥ १२१॥

यक्षचारणनाथोऽपि स्वर्लोकेशोऽपि स स्मृतः ।

भीमश्चैव महर्लोकनाथश्चैव महाभवः ॥ १२२॥

जनलोकेश्वरो ज्ञानपादो जननवर्जितः ।

अतिपिङ्गल आश्चर्यो भौतिकश्च श्रृतोऽप्ययम् ॥ १२३॥

तपोलोकेश्वरस्तप्तो महादेवोऽपि स स्मृतः ।

सत्यलोकेश्वरस्तद्वत् ब्रह्मेशानोऽपि चोच्यते ॥ १२४॥

विष्णुलोकेशविष्पवीशौ शिवलोकः परश्शिवः ।

अण्डान्तेशो दण्डपाणिरण्डपृष्ठेश्वरोऽप्ययम् ॥ १२५॥

श्वेतश्च वायुवेगोऽपि सुपात्रश्च स्मृतोऽप्ययम् ।

विद्याह्वयात्मकस्तद्वत्कालाग्निश्च स्मृतोऽप्ययम् ॥ १२६॥

महासंहारकस्तद्वन्महाकालोऽपि कथ्यते ।

महानिरृतिरप्येव महावरुण इत्यपि ॥ १२७॥

वीरभद्रो महांस्तद्वच्छतरुद्रोऽपि कथ्यते ।

भद्रकालवीरभद्रौ कमण्डलुधरोऽप्ययम् ॥ १२८॥

अब्भुवनेशोऽपि तथा लक्ष्मीनाथोऽपि कथ्यते ।

सरस्वतीशो देवेशः प्रभावेशोऽपि कथ्यते ॥ १२९॥

तथैव डिण्डीवल्मीकनाथौ पुष्करनायकः ।

मण्डीशभारभूतेशौ बिलालकमहेश्वर ॥ १३०॥

तेजोमण्डलनाथोऽपि तेजोमण्डलमूर्तिपः ।

तेजोमण्डलविश्वेशश्शिवोऽग्निरपि कथ्यते ॥ १३१॥

वायुमण्डलमूर्तिश्च वायुमण्डलधारकः ।

वायुमण्डलनाथश्च वायुमण्डलरक्षकः ॥ १३२॥

महावायुसुवेगोऽयमाकाशमण्डलेश्वरः ।

आकाशमण्डलधरस्तन्मूर्तिरपि संस्मृतः ॥ १३३॥

आकाशमण्डलातीतस्तन्मण्डलभुवनपः ।

महारुद्रश्च तन्मात्रमण्डलेशश्च संस्मृतः ॥ १३४॥

तन्मात्रमण्डलपतिर्महाशर्वमहाभवौ ।

महापशुपीतश्चापि महाभीमो महाहरः ॥ १३५॥

कर्मेन्द्रियमण्डलेशस्तन्मण्डलभुवः पतिः पतिः ।

क्रियासरस्वतीनाथः क्रिया ( श्रिया) लक्ष्मीपतिस्तथा ॥ १३६॥

क्रियेन्द्रियः क्रियामित्रः क्रियाब्रह्म पतिः पतिः ।

ज्ञानेन्द्रियमण्डलेशः तन्मण्डलभुवनपः ॥ १३७॥

भूमिदेवदिश्शिवेशश्च वरुणोऽपि च वह्निपः ।

वातेशो विविधाविष्टमण्डलेशाबुभावपि ॥ १३८॥

विषयमण्डलभुवनेशो गन्धर्वेशः शिवेश्वरः ।

प्रासादबलभद्रश्च सूक्मेशो मानवेश्वरः ॥ १३९॥

अन्तःकरणमण्डलेशो बुद्धिचित्तमनः पतिः ।

अहङ्कारेश्वरश्चापि गुणमण्डलनायकः ॥ १४०॥

संवर्तस्तामसगुणपतिस्तद्भुवनाधिपः ।

एकवीरः कृतान्तश्च सन्न्यासी सर्वशङ्करः ॥ १४१॥

पुरुषमृगानुग्रहदस्ससाक्षीको गुणाधिपः ।

काक्षीकश्च भुवनेशः कृतश्च कृतभैरवः ॥ १४२॥

ब्रह्माश्रीकण्ठदेवोऽयं सराजसगुणेश्वरः ।

राजसगुणभुवनेशो बलाध्यक्षश्च कथ्यते ॥ १४३॥

गुणाध्यक्षो महाशान्तो महात्रिपुरघातकः ।

सर्वरूपी निमेषश्च उन्मेष इति कथ्यते ॥ १४४॥

प्रकृतीमण्डलेशोऽयं तन्मण्डलभुवनपः ।

शुभरामशुभभीमशुद्धोग्रशुद्धभव शुद्धशर्वशुद्धैकवीराः ॥ १४५॥

प्रचण्डपुरुषशुभगन्धजनिरहितहरीशनागमण्डलेशाः ।

नागमण्डलभुवनेश अप्रतिष्ठः प्रतिष्ठकः ॥ १४६॥

रूपाङ्गमनोन्मनमहावीरस्वरूपकाः ।

कल्याणबहुवीरश्च बलमेधादिचेतनः ॥ १४७॥

दक्षो नियतिमण्डलेशो नियतिमण्डलभुवनपः ।

वासुदेवश्च वज्री च विधाताऽभ्रमणिः स्मृतः ॥ १४८॥

कलविकरणश्चैव बलविकरणस्तथा ।

बलप्रमथनश्चैव सर्वभूतदमश्च सः ॥ १४९॥

विद्यामण्डलेशो विद्यामण्डलभुवनपः ।

महादेवो महाज्योतिर्महादेवेश इत्यपि ॥ १५०॥

कलामण्डलेशश्व कलामण्डलभुवनपः ।

विशुद्धश्च प्रबुद्धश्च शुद्धश्चैव स्मृतश्च सः ॥ १५१॥

शुचिवर्णप्रकाशश्च महोक्षोक्षा च कीर्तितः ।

मायातन्वीश्वरो मायाभुवनेशस्सुशक्तिमान् ॥ १५२॥

विद्योतनो विश्वबीजो ज्योतीरूपश्च गोपतिः ।

त्रिकालब्रह्मकर्ता च अनन्तेशश्च संस्मृतः ॥ १५३॥

शुद्धविद्येशः शुद्धश्च विद्याभुवननायकः ।

वामेशसर्वज्येष्ठेशौ रौद्रीकालेश्वरावुभौ ॥ १५४॥

कलविकरणीकश्च बलविकरणीश्वरः ।

बलप्रमथिनीशोऽपि सर्वभूतदमेश्वरः ॥ १५५॥

मनोन्मनेशस्तत्त्वेशस्तथैव भुवनेश्वरः ।

महामहेश्वरस्सदाशिवतत्त्वेश्वरावुभौ ॥ १५६॥

सदाशिवभुवनेशो ज्ञानवैराग्यनायकः ।

ऐश्वर्येशश्च धर्मेशस्सदाशिव इति स्मृतः ॥ १५७॥

अणुसदाशिवोऽप्येष अष्टविद्येश्वरोऽप्ययम् ।

शक्तितत्त्वेश्वरश्शक्तिभुवनेशोऽपि कथ्यते ॥ १५८॥

बिन्दुमूर्तिस्सप्तकोटिमहामन्त्रेश्वरोऽप्ययम् ।

निवृत्तीशः प्रतिष्ठेशो विद्येशश्शान्तिनायकः ॥ १५९॥

शान्त्यतीतेश्वरस्तद्वदर्धचन्द्रेश्वरोऽप्ययम् ।

सुशान्तीशश्च तथा शिवाश्रयसमाह्वयः ॥ १६०॥

योजनीयश्च योज्यश्च योजनातीतनायकः ।

सुप्रभेदनिरोधीशौ इन्धनीरेचकेश्वरः ॥ १६१॥

रौद्रीशज्ञानबोधेशौ तमोपह इति स्मृतः ।

नादतत्त्वेश्वरस्तद्वन्नादाख्यभुवनेश्वरः ॥ १६२॥

इन्धिकेशो दीपिकेशो मोचिकेशश्च संस्मृतः ।

ऊर्ध्वगामिनीशोऽपि इडानाथोऽपि कथ्यते ॥ १६३॥

सुषुम्नेशः पिङ्गलेशो ब्रह्मरन्ध्रेश्वरोऽप्ययम् ।

ब्रह्मरन्ध्रस्वरूपीशः पञ्चबीजेश्वरोऽप्ययम् ॥ १६४॥

अमृतेशश्च शक्तीशस्सूक्ष्मेशश्च सुसूक्ष्मपः ।

मृतेशश्चामृतेशोऽपि व्यापिनीशोऽपि कथ्यते ॥ १६५॥

परनादेश्वरो व्योम व्योमरूपी च कथ्यते ।

अनाश्रितोऽप्यनन्तश्च अनादश्च मुनीश्वरः ॥ १६६॥

उन्मनीशो मन्त्रमूर्तिर्मन्त्रेशो मन्त्रधारकः ।

मन्त्रातीतः पदामूर्तिः पदेशः पदधारकः ॥ १६७॥

पदातीतोऽक्षरात्मा च अक्षरेशोऽक्षराश्रयः ।

कलातीतश्च तथा ओङ्कारात्मा च कथ्यते ॥ १६८॥

ओङ्कारेशश्चतथा ओङ्कारासन ईरितः ।

पराशक्तिपतिस्तद्वदादिशक्तिपतिश्च सः ॥ १६९॥

इच्छाशक्तिपतिश्चैव ज्ञानशक्तिपतिश्च सः ।

क्रियाशक्तिपतिस्तद्वत् शिवसादाख्य ईरितः ॥ १७०॥

अमूर्तिसादारव्यश्चैव मूर्तिसादारव्य ईरितः ।

कर्तृसादाख्यश्च तथा कर्मसादाख्य ईरितः ॥ १७१॥

सर्वस्रष्टा सर्वरक्षाकारकस्सर्वहारकः ।

तिरोभावकृदप्येष सर्वानुग्राहकस्तथा ॥ १७२॥

निरञ्जनोऽचञ्चलश्च विमलोऽनल ईरितः ।

सच्चिदानन्दरूपी च विष्णुचक्रप्रसादकृत् ॥ १७३॥

सर्वव्यापी तथाद्वैतविशिष्टाद्वैतकावुभौ ।

परिपूर्णो लिङ्गरूपो महालिङ्गस्वरूपवान् ॥ १७४॥

श्रीसूतः –

एवमाख्यातमधुना युष्माकं ब्राह्मणोत्तमाः ।

अष्टोत्तरसहस्राणि नामानि गिरिजापतेः ॥ १७५॥

यः पठेच्छम्भुनामानि पवित्राणि महामतिः ।

श्रृणुयाद्वापि भक्त्या स रुद्र एव न संशयः ॥ १७६॥

स धन्यस्स कुलीनश्च स पूज्यस्स महत्तरः ।

तस्यैव च महालक्ष्मीस्तस्यैव च सरस्वती ॥ १७७॥

स शक्तानपि सङ्ग्रामे विभीषयति रुद्रवत् ।

पुत्रार्थी पुत्रमाप्नोति धनार्थी च महद्धनम् ॥ १७८॥

आरोग्यकामस्त्वारोग्यमव्याधिदृढगात्रताम् ।

शिखायां धारयेद्योऽसौ लिखित्वा पुस्तके सदा ॥ १७९॥

राजद्वारे च सदसि स वशीकुरुते जनान् ।

न च हिंसन्ति सर्पाद्या राक्षसा न पिशाचकाः ॥

किं पुनर्ब्राह्मणश्रेष्ठास्सर्वान्कामान् लभेदयम् ॥ १८०॥

 

॥ इति श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *