श्री शिव सहस्रनाम स्तोत्रम् स्कन्द पुराणान्तर्गतम् || Shiv Sahastranam Skand Puranantargat
शिवजी सहस्त्र नाम जिसे की आपने पूर्व क्रम में पढ़ा – तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे, श्रीशिवसहस्रनामस्तोत्रम्और श्रीशिवसहस्रनामावलि, श्रीशिवसहस्रनामस्तोत्रम्भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम् । शिवजी सहस्त्र नाम श्रृंखला के अन्तर्गत श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् दिया जा रहा है।
|| अथ श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ||
अरुन्धत्युवाच
मुने वद महाभाग नारदेन यथा स्तुतः ।
सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ १॥
यानि यानि च नामानि नारदोक्तानि वै मुने ।
रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ २॥
वसिष्ठ उवाच
साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि ।
तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ ३॥
दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः ।
सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४॥
नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः ।
श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ ५॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ ६॥
अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः परमात्मा श्रीशिवो देवता धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ।
नारद उवाच
श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः ।
वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ ७॥
शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः ।
सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ ८॥
तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः ।
तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ ९॥
तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः ।
तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ १०॥
महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः ।
धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ ११॥
वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः ।
अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२॥
गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा ।
प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ १३॥
दानप्रियो दानदो दानतृप्तो दानवान्तकः ।
करिदानप्रियो दानी दानात्मा दानपूजितः ॥ १४॥
दानगम्यो ययातिश्च दयासिन्धुर्दयावहः ।
भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५॥
भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः ।
भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६॥
सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः ।
जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७॥
जयसेनो जयत्सेनो विजयो विजयप्रियः ।
जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ १८॥
पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः ।
पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९॥
प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् ।
प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ २०॥
नरेशो नारदो मानी दैत्यमानविमर्दनः ।
अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ २१॥
मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः ।
मालवो मलयावासो महोभिः संयुतोनलः ॥ २२॥
नलाराध्यो नीलवासा नलात्मा नलपूजितः ।
नलाधीशो नैगमिको निगमेन सुपूजितः ॥ २३॥
निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा ।
कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ २४॥
दामनो दामिनीकान्तो दामोदर हरेश्वरः ।
दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ २५॥
दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः ।
आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ २६॥
नित्यानन्दो महानन्दो रमानन्दो निराश्रयः ।
निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७॥
कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः ।
विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ २८॥
केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः ।
विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९॥
बदरीनायको नेता रामभक्तो रमाप्रियः ।
रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ ३०॥
धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः ।
त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१॥
वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः ।
देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२॥
वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः ।
कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ ३३॥
केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः ।
कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४॥
मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः ।
प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५॥
साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः ।
असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ ३६॥
निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः ।
रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ ३७॥
निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः ।
गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ ३८॥
अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः ।
बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ ३९॥
वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः ।
पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४०॥
वेदव्यासो नागहारा विषहा विषनायकः ।
विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१॥
बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः ।
बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ ४२॥
प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः ।
अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ ४३॥
हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः ।
वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४॥
नादब्रह्मरतो नादी नन्दनावास अम्बरः ।
अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ ४५॥
कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः ।
जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ ४६॥
कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः ।
प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७॥
हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः ।
यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ ४८॥
नारायणो नारपूज्यो वसुवर्णो वसुप्रियः ।
वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ ४९॥
बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः ।
शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ ५०॥
रथचक्रो दशरथो रामः शस्त्रभृतां वरः ।
नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ ५१॥
रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः ।
जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ ५२॥
रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः ।
प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३॥
सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः ।
शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४॥
शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः ।
राहुः केतुः सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५॥
नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः ।
विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ ५६॥
कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः ।
योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ ५७॥
काशिनाथो नीलकेशो हरिकेशो मनोहरः ।
उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ ५८॥
तटासुरनिहन्ता च सर्वयज्ञसुपूजितः ।
गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ ५९॥
भानुदत्तो भानुनाथो जरासन्धविमर्दनः ।
यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ ६०॥
शालग्रामशिलावासी नर्मदातटपूजितः ।
बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ ६१॥
बाणासुरनिहन्ता च रामबाणो भयापहः ।
रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ ६२॥
पार्वतीशः परामृष्टो नारदो नारपूजितः ।
पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३॥
सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः ।
निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४॥
श्मशानवासी दमनो मदनारिर्मदालयः ।
भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ ६५॥
वेतालशतनाथो वै वेतालशतपूजितः ।
वेतालो भैरवाकारो वेतालनिलयो बलः ॥ ६६॥
भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः ।
जनो महस्तपः सत्यं पातालनिलयो लयः ॥ ६७॥
पत्री पुष्पी फली तोयी महीरूपसमाश्रितः ।
स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८॥
उमापतिर्व्योमकेशो भीमधन्वा भयानकः ।
पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ ६९॥
ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः ।
ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७०॥
द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः ।
रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१॥
षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः ।
शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२॥
निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः ।
भगमाली भगो भाग्यो भगहा भगपूजितः ॥ ७३॥
भगपूजनसन्तुष्टो महाभाग्यसुपूजितः ।
पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४॥
मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः ।
चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ ७५॥
सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः ।
पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ ७६॥
मण्डलात्परसिद्धिश्च महामण्डलमण्डलः ।
मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ ७७॥
निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा ।
मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८॥
हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः ।
शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ ७९॥
आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः ।
पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ ८०॥
बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः ।
मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१॥
मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः ।
धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२॥
धरात्मजो धनो धान्यो मान्यनाथो मदालसः ।
लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३॥
लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः ।
समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ ८४॥
मथुरानाथको तन्द्रो मथुरावासतत्परः ।
वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५॥
यमुनापुलिनावासः कंसचाणूरमर्दनः ।
अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ ८६॥
वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः ।
कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ ८७॥
चतुर्विधो विश्वहर्ता धाता धर्मपरायणः ।
यातुधानो महाकायो रक्षःकुलविनाशनः ॥ ८८॥
घण्टानादो महानादो भेरीशब्दपरायणः ।
परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९॥
पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा ।
जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ ९०॥
ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् ।
अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ ९१॥
आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा ।
इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ ९२॥
ईशितारिभवो ऋक्ष ऋकारवरपूजितः ।
ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् (लरात्मवान्)॥ ९३॥
ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः ।
ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ ९४॥
कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः ।
गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ ९५॥
ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः ।
चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ ९६॥
छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः ।
झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७॥
झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः ।
रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ ९८॥
ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः ।
तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ ९९॥
थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् ।
दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ १००॥
दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः ।
धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ १०१॥
धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः ।
नागेशो नागनिलियो नारदादिभिरार्चितः ॥ १०२॥
नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् ।
पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३॥
पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः ।
फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ १०४॥
फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः ।
वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ १०५॥
वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली ।
वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ १०६॥
भेरूण्डो भासको भासी भास्करो भानुपूजितः ।
भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७॥
मेनकापतिमन्द्राश्वो महामैनाकपर्वतः ।
मानवो मनुनाथश्च मदहा मदलोचनः ॥ १०८॥
यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः ।
यमको यमुनावासो यमसंयमदायकः ॥ १०९॥
रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः ।
रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ ११०॥
लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः ।
लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ १११॥
बालको बालकप्रीतो वरेण्यो बालपूजितः ।
शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२॥
शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः ।
षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ ११३॥
षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः ।
सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ ११४॥
सेतुः संसारसंहर्ता सारः सारस्वतप्रियः ।
हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५॥
हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः ।
सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ ११६॥
कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः ।
रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ ११७॥
जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः ।
क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ ११८॥
कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः ।
रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ ११९॥
राजराजेश्वरीकान्तो राजराजसुपूजितः ।
सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ १२०॥
जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः ।
जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ १२१॥
मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः ।
दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ १२२॥
गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः ।
भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ १२३॥
मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः ।
जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४॥
सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः ।
शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ १२५॥
शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः ।
राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६॥
अतिसारहरो जातीवल्कबीजो जलं नभः ।
जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ १२७॥
पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः ।
अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ १२८॥
जलयन्त्रो जलावासो जलधेनुर्जलोदरः ।
चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९॥
चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः ।
चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ १३०॥
चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः ।
मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१॥
संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः ।
सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२॥
स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा ।
चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३॥
दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः ।
रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४॥
रागज्ञानप्रदो रागी रागी रागपरायणः ।
नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५॥
अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः ।
गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ १३६॥
वसिष्ठ उवाच
नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् ।
तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७॥
पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः ।
दारिद्रयं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८॥
यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः ।
नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९॥
स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः ।
शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४०॥
ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा ।
रुद्ररूपेण नयति(नश्यति) भस्मसात् स चराचरम् ॥ १४१॥
तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् ।
स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२॥
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् ।
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३॥
राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् ।
दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ १४४॥
नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले ।
तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ १४५॥
यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः ।
सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ १४६॥
सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् ।
प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७॥
सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः ।
जायते नात्र सन्देह शिवस्य वचनं यथा ॥ १४८॥
इति स्कन्दपुराणान्तर्गतम् श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ।