शिव सहस्रनाम स्तोत्रम || Shiv Sahastranam Stotram

0

इस भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम को लिङ्गपुराण के पूर्व भाग में अध्याय-९८ में लिखा गया है कि-

ऋषियों ने कहा-हे सूतजी! भगवान विष्णु ने देवाधि देव महेश्वर से सुदर्शन चक्र कैसे प्राप्त किया बताने की कृपा करें। इस पर श्री सूतजी! ने कहा- हे ऋषियों जब देव ,दानव के मध्य भयंकर व विनाशकारी युद्ध हुआ तो दानवों के भय से देव भाग खड़े हुए और भगवान विष्णु के शरण जाकर मद्द कि याचना की। तब श्रीहरी विष्णु ने कहा-देवों! मैं असुरों का मारकर आप सभी का उद्धार करूँगा। श्री सूतजी! ने कहा- हे ऋषियों! देवताओं से इस प्रकार कह कर श्रीहरि ने विश्वकर्मा द्वारा निर्मित शिवलिंग को हिमालय के शिखर पर स्थापित कर त्वरितरुद्र तथा रुद्रसूक्त द्वारा अभिषेक और पूजन कर प्रारम्भ में भव नाम वाले शिव सहस्रनाम स्तोत्रम के प्रत्येक नाम का कमलपुष्प पूजन कर तथा प्रत्येक नाम का दस हजार आहुति देकर पुनः शिव सहस्रनाम स्तोत्रम का पाठ किया।

फलश्रुति –भगवान श्री विष्णु ने कहा-कि जो मेरे द्वारा कहे इस शिव सहस्रनाम स्तोत्रम को पढ़ता,सुनता या सुनाता है वह प्रत्येक नाम के उच्चारण पर सुवर्ण के दान का फल प्राप्त करता है और उसे हजार अश्वमेध यज्ञ करने का फल प्राप्त होता है। जो घृत से शिव सहस्रनाम स्तोत्रम को पढ़ते हुए भगवान शिव को स्नान कराता है वह हजार यज्ञों के फल प्राप्त करते हुए देवों द्वारा पूजित हो कर शिव लोक को जाता है और इह लोक में सम्पूर्ण सुखों को भोगता है।

इस प्रकार भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम को लिङ्गपुराणान्तर्गत पूर्व भाग अध्याय-९८ में श्लोक संख्या १से २६.१ तक ऋषि गण , सूतजी तथा भगवान श्री विष्णु का संवाद है। इसके बाद श्लोक संख्या २७से १५८.१ तक शिव सहस्रनाम स्तोत्रम का मूल पाठ है तथा श्लोक संख्या१५९से १९५ तक फलश्रुति है । अतः यदि समयाभाव हो तो श्लोक संख्या २७से १५८.१ तक शिव सहस्रनाम स्तोत्रम का मूल पाठ का ही पाठ किया जा सकता है ।

 

अथ भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत)

ऋषय ऊचुः

कथं देवेन वै सूत देवदेवान्महेश्वरात ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना || 1 ||

सूत उवाच

देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान || 2 ||

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः || 3 ||

पराजितास्तदा देवा देवदेवेश्वरं हरिम ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः || 4 ||

तान समीश्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत || 5 ||

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः || 6 ||

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे || 7 ||

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः || 8 ||

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि || 9 ||

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन || 10 ||

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः || 11 ||

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः || 12 ||

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम || 13 ||

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः || 14 ||

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान हन्तुमर्हसि || 15 ||

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेशणः || 16 ||

वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम ।

श्रीविष्णुरुवाच

भोभो देवा महादेवं सर्वैर्देवैः सनातनैः || 17 ||

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा || 18 ||

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान || 19 ||

सबान्धवान्शणादेव युष्मान संतारयाम्यहम ।

सूत उवाच

एवमुक्त्वा सुरश्रेष्ठान सुरश्रेष्ठमनुस्मरन || 20 ||

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे || 21 ||

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः || 22 ||

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च || 23 ||

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम || 24 ||

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम || 25 ||

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम || 26 ||

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम ।

भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) मूलपाठ

श्री विष्णुरुवाच

भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः || 27 ||

अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राशः सहस्रपात || 28 ||

वरीयान वरदो वन्द्यः शङ्करः परमेश्वरः ।
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः || 29 ||

सर्वघ्य़ः सर्वदेवादिगिरिधन्वा जटाधरः ।
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः || 30 ||

वेदान्तसारसन्दोहः कपाली नीललोहितः ।
ध्यानाधारो.अपरिच्छेद्यो गौरीभर्ता गणेश्वरः || 31 ||

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।
घ्य़ानगम्यो दृढप्रघ्य़ो देवदेवस्त्रिलोचनः || 32 ||

वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।
विश्वरूपो विरूपाक्शो वागीशः शुचिरन्तरः || 33 ||

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः || 34 ||

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः || 35 ||

उन्मत्तवेषश्चक्शुष्योदुर्वासाः स्मरशासनः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः || 36 ||

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः || 37 ||

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।
विशालाक्शो मृगव्याधः सुरेशः सूर्यतापनः || 38 ||

धर्मकर्माक्शमः क्शेत्रं भगवान भगनेत्रभित ।
उग्रः पशुपतिस्तार्क्श्यप्रियभक्तः प्रियंवदः || 39 ||

दाता दयाकरो दक्शः कपर्दी कामशासनः ।
श्मशाननिलयः सूक्श्मः श्मशानस्थो महेश्वरः || 40 ||

लोककर्ता भूतपतिर्महाकर्ता महौषधी ।
उत्तरो गोपतिर्गोप्ता घ्य़ानगम्यः पुरातनः || 41 ||

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।
सोमपो.अमृतपः सोमो महानीतिर्महामतिः || 42 ||

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककारो वेदकारः सूत्रकारः सनातनः || 43 ||

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः।
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा || 44 ||

त्रिधामा सौभगः शर्वः सर्वघ्य़ः सर्वगोचरः ।
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः || 45 ||

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः || 46 ||

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः || 47 ||

कामदेवः कामपालो भस्मोद्धूलितविग्रः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः || 48 ||

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः || 49 ||

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः || 50 ||

शुभाङ्गो लोकसारङ्गो जगदीशो.अमृताशनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः || 51 ||

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः || 52 ||

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।
अमृताङ्गो.अमृतवपुः पञ्चयघ्य़ः प्रभञ्जनः || 53 ||

पञ्चविंशतितत्त्वघ्य़ः पारिजातः परावरः ।
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः || 54 ||

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।
आश्रमः क्शपणः क्शामो घ्य़ानवानचलाचलः || 55 ||

प्रमाणभूतो दुर्घ्य़ेयः सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः || 56 ||

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः || 57 ||

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः || 58 ||

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तपस्वी तारको धीमान प्रधानप्रभुरव्ययः || 59 ||

लोकपालो.अन्तर्हितात्मा कल्यादिः कमलेक्शणः ।
वेदशास्त्रार्थतत्त्वघ्य़ो नियमो नियमाश्रयः || 60 ||

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणो.अनघः || 61 ||

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः || 62 ||

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः || 63 ||

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः || 64 ||

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः || 65 ||

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान ।
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः || 66 ||

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः || 67 ||

कालयोगी महानादो महोत्साहो महाबलः ।
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः || 68 ||

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः || 69 ||

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः || 70 ||

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।
बुद्धः स्पष्टाक्शरो मन्त्रः सन्मानः सारसम्प्लवः || 71 ||

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः || 72 ||

अपांनिधिरधिष्ठानं विजयो जयकालवित ।
प्रतिष्ठितः प्रमाणघ्य़ो हिरण्यकवचो हरिः || 73 ||

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः || 74 ||

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः || 75 ||

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः || 76 ||

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट ।
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः || 77 ||

आघ्य़ाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः || 78 ||

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।
मघवान्कौशिको गोमान विश्रामः सर्वशासनः || 79 ||

ललाटाक्शो विश्वदेहः सारः संसारचक्रभृत ।
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी || 80 ||

परमार्थः परमयः शम्बरो व्याघ्रको.अनलः ।
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः || 81 ||

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः || 82 ||

कैलासपतिकामारिः सविता रविलोचनः ।
विद्वत्तमो वीतभयो विश्वहर्ता.अनिवारितः || 83 ||

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः || 84 ||

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो.अभयः ।
अनादिर्भूर्भुवो लक्श्मीः किरीटित्रिदशाधिपः || 85 ||

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः || 86 ||

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
प्रणवः सप्तधाचारो महाकायो महाधनुः || 87 ||

जन्माधिपो महादेवः सकलागमपारगः ।
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः || 88 ||

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।
यघ्य़ो यघ्य़पतिर्यज्वा यघ्य़ान्तो.अमोघविक्रमः || 89 ||

महेन्द्रो दुर्भरः सेनी यघ्य़ाङ्गो यघ्य़वाहनः ।
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः || 90 ||

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक ।
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः || 91 ||

शिशुर्गिरिरतः सम्राट सुषेणः सुरशत्रुहा ।
अमोघो.अरिष्टमथनो मुकुन्दो विगतज्वरः || 92 ||

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः || 93 ||

घ्य़ानस्कन्धो महाघ्य़ानी निरुत्पत्तिरुपप्लवः ।
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः || 94 ||

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।
नक्शत्रमाली राकेशः साधिष्ठानः षडाश्रयः || 95 ||

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः || 96 ||

विष्णुर्ग्रहपतिः कृष्णः समर्थो.अनर्थनाशनः ।
अधर्मशत्रुरक्शय्यः पुरुहूतः पुरुष्टुतः || 97 ||

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषिसुगतः कुमारः कुशलागमः || 98 ||

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।
अरोगो नियमाध्यक्शो विश्वामित्रो द्विजोत्तमः || 99 ||

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक || 100 ||

पुलस्त्यः पुलहो.अगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणधर्मघ्य़ो विरिञ्चो विष्टरश्रवाः || 101 ||

आत्मभूरनिरुद्धो.अत्रि घ्य़ानमूर्तिर्महायशाः ।
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः || 102 ||

व्यालकल्पो महाकल्पो महावृक्शः कलाधरः ।
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः || 103 ||

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टो.अतिथिः शक्रः प्रमाथी पापनाशनः || 104 ||

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जर्यो जराधिशमनो लोहितश्च तनूनपात || 105 ||

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः पक्शः परपुरञ्जयः || 106 ||

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः || 107 ||

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः || 108 ||

मनो बुद्धिरहंकारः क्शेत्रघ्य़ः क्शेत्रपालकः ।
तेजोनिधिर्घ्य़ाननिधिर्विपाको विघ्नकारकः || 109 ||

अधरो.अनुत्तरोघ्य़ेयो ज्येष्ठो निःश्रेयसालयः ।
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः || 110 ||

चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः || 111 ||

आम्नायो.अथ समाम्नायस्तीर्थदेवशिवालयः।
बहुरूपो महारूपः सर्वरूपश्चराचरः || 112 ||

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः || 113 ||

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।
पिङ्गलाक्शो.अथ हर्यक्शो नीलग्रीवो निरामयः || 114 ||

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत ।
पद्मासनः परंज्योतिः परावरफलप्रदः || 115 ||

पद्मगर्भो महागर्भो विश्वगर्भो विचक्शणः ।
परावरघ्य़ो बीजेशः सुमुखः सुमहास्वनः || 116 ||

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरमहाश्रयः || 117 ||

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः || 118 ||

सर्वदेवमयो.अचिन्त्यो देवतात्मात्मसम्भवः ।
ईड्यो.अनीशः सुरव्याघ्रो देवसिंहो दिवाकरः || 119 ||

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवघ्य़ानरतः श्रीमान शिखिश्रीपर्वतप्रियः || 120 ||

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः || 121 ||

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।
लिङ्गाध्यक्शः सुराध्यक्शो युगाध्यक्शो युगावहः || 122 ||

स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।
बीजाध्यक्शो बीजकर्ता धनकृद्धर्मवर्धनः || 123 ||

दम्भो.अदम्भो महादम्भः सर्वभूतमहेश्वरः ।
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः || 124 ||

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः || 125 ||

वीतदोषो.अक्शयगुणो दक्शारिः पूषदन्तहृत ।
धूर्जटिः खण्डपरशुः सकलो निष्कलो.अनघः || 126 ||

आधारः सकलाधारः पाण्डुराभो मृडो नटः ।
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः || 127 ||

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः || 128 ||

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः || 129 ||

मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।
चन्द्रसञ्जीवनः शास्ता लोकगूढो.अमराधिपः || 130 ||

लोकबन्धुर्लोकनाथः कृतघ्य़ः कृतिभूषणः ।
अनपाय्यक्शरः कान्तः सर्वशास्त्रभृतां वरः || 131 ||

तेजोमयो द्युतिधरो लोकमायो.अग्रणीरणुः ।
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः || 132 ||

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।
तुम्बवीणी महाकायो विशोकः शोकनाशनः || 133 ||

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्शजः।
अव्यक्तलक्शणो.अव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः || 134 ||

वरशीलो वरतुलो मानो मानधनो मयः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः || 135 ||

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सतां गतिः || 136 ||

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः || 137 ||

संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।
देवप्रियो देवनाथो देवघ्य़ो देवचिन्तकः || 138 ||

विषमाक्शः कलाध्यक्शो वृषाङ्को वृषवर्धनः ।
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः || 139 ||

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्शिणः || 140 ||

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।
अर्थो.अनर्थो महाकोशः परकार्यैकपण्डितः || 141 ||

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।
सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः || 142 ||

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत ।
सुप्रीतः सुमुखः सूक्श्मः सुकरो दक्शिणो.अनलः || 143 ||

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।
अपराजितः सर्वसहो विदग्धः सर्ववाहनः || 144 ||

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।
वराहशृङ्गधृग्वायुर्बलवानेकनायकः || 145 ||

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक ।
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः || 146 ||

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।
अकायो भक्तकायस्थः कालघ्य़ानी कलावपुः || 147 ||

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः || 148 ||

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः || 149 ||

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।
मेखली कवची खड्गी मायी संसारसारथिः || 150 ||

अमृत्युः सर्वदृक सिंहस्तेजोराशिर्महामणिः।
असंख्येयो.अप्रमेयात्मा वीर्यवान्कार्यकोविदः || 151 ||

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः || 152 ||

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।
कालभक्शः कलङ्कारिः कङ्कणीकृतवासुकिः || 153 ||

महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ।
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः || 154 ||

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।
एकज्योतिर्निरातङ्को नरो नारायणप्रियः || 155 ||

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः || 156 ||

निरवद्यपदोपायो विद्याराशिरविक्रमः ।
प्रशान्तबुद्धिरक्शुद्रः क्शुद्रहा नित्यसुन्दरः || 157 ||

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः || 158 ||

रसो रसघ्य़ः सर्वघ्य़ः सर्वसत्त्वावलम्बनः ।

भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत)फलश्रुति

सूत उवाच

एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम || 159 ||

स्नापयामास च विभुः पूजयामास पङ्कजैः ।
परीक्शार्थं हरेः पूजाकमलेषु महेश्वरः || 160 ||

गोपयामासकमलं तदैकं भुवनेश्वरः ।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन || 161 ||

घ्य़ात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम ।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम || 162 ||

ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम ।
तस्मादवतताराशु मण्डलात्पावकस्य च || 163 ||

कोटिभास्करसंकाशं जटामुकुटमण्डितम ।
ज्वालामालावृतं दिव्यं तीक्श्णदंष्ट्रं भयङ्करम || 164 ||

शूलटङ्कगदाचक्रकुन्तपाशधरं हरम ।
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम || 165 ||

इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः || 166 ||

दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम ।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा || 167 ||

ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम ।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले || 168 ||

तदा प्राह महादेवः प्रहसन्निव शङ्करः ।
सम्प्रेक्श्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम || 169 ||

घ्य़ातं मयेदमधुना देवकार्यं जनार्दन ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम || 170 ||

यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम ।
हिताय तव यत्नेन तव भावाय सुव्रत || 171 ||

शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम ।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम || 172 ||

शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम ।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः || 173 ||

देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम ।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन || 174 ||

क्शमा युधि न कार्यं वै योद्धुं देवारिसूदन ।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे || 175 ||

अकालिके त्वधर्मे च अनर्थेवारिसूदन ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम || 176 ||

नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम ।
तदाप्रभृति तं प्राहुः पद्माक्शमिति सुव्रतम || 177 ||

दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह || 178 ||

वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान ।
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम || 179 ||

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम ।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम || 180 ||

नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।
तच्छ्रुत्वा वचनं तस्य दयावान सुतरां भवः || 181 ||

पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।
प्राह चैवं महादेवः परमात्मानमच्युतम || 182 ||

मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम || 183 ||

यदा सती दक्शपुत्री विनिन्द्येव सुलोचना ।
मातरं पितरं दक्शं भविष्यति सुरेश्वरी || 184 ||

दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम || 185 ||

नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम ।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि || 186 ||

मां दिव्येन च भावेन तदा प्रभृति शङ्करम ।
द्रक्श्यसे च प्रसन्नेन मित्रभूतमिवात्मना || 187 ||

इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।
जनार्दनोपि भगवान्देवानामपि सन्निधौ || 188 ||

अयाचत महादेवं ब्रह्माणं मुनिभिः समम ।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम || 189 ||

यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान ।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात || 190 ||

अश्वमेधसहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः || 191 ||

नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम ।
सोपि यघ्य़सहस्रस्य फलं लब्ध्वा सुरेश्वरैः || 192 ||

पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम || 193 ||

जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम ।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः || 194 ||

जपीन्नाम्नां सहस्रं च स याति परमां गतिम || 195 ||

|| इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ||

भगवान विष्णुप्रोक्त शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत)समाप्त ।

Leave a Reply

Your email address will not be published. Required fields are marked *