श्री शीतलाष्टक स्तोत्र, Shree Shitlashtak Stotra

0

श्रीगणेशाय नमः ||

अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः |

अनुष्टुप छन्दः | शीतला देवता |

लक्ष्मीर्बीजम् | भवानिशक्तिः |

सर्वविस्फोटकनिवृत्तये जपे विनियोगः |

ईश्वर उवाच |

वन्देऽहं शीतलां देवीं रासभस्थां दिगंम्बराम् |

मार्जनीकलशोपेतां शूर्पालं कृतमस्तकाम् || १ ||

वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् |

यामासाद्य निवर्तेत विस्फोटकभयं महत् || २ ||

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः |

विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति || ३ ||

यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः |

विस्फोटकभयं घोरं गृहे तस्य न जायते || ४ ||

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च |

प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् || ५ ||

शीतले तनुजांरोगान्नृणां हरसि दुत्स्यजान् |

विस्फोटक विदीर्णानां त्वमेकाऽमृतवर्षिणी || ६ ||

गलगण्डग्रहा रोगा ये चान्ये दारूणा नृणाम् |

त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् || ७ ||

न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते |

त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् || ८ ||

मृणालतन्तुसद्दशीं नाभिहृन्मध्यसंस्थिताम् |

यत्स्वां संचिन्तयेद्देवि तस्य मृत्युर्न जायते || ९ ||

अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा |

विस्फोटकभयं घोरं गृहे तस्य न जायते || १० ||

श्रोतव्यं पठितव्यं च श्रद्धाभक्ति समन्वितैः |

उपसर्गविनाशाय परं स्वस्त्ययनं महत् || ११ ||

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता |

शीतले त्वं जगद्धात्री शीतलायै नमो नमः || १२ ||

रासभो गर्दभश्चैव खरो वैशाखनन्दनः |

शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः || १३ ||

एतानि खरनामानि शीतलाग्रे तु यः पठेत् |

तस्य देहे (गेहे) शिशूनां च शीतलारुङ् न जायते || १४ ||

शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् |

दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै || १५ ||

|| अस्तु ||

Leave a Reply

Your email address will not be published. Required fields are marked *