श्री सूर्यार्थर्वशिर्षम्, Shree Suryarthshirsham

0

श्री सूर्यार्थर्वशिर्षम्

ॐ भद्रङ्कर्णेभि: शृणुयाम देवा भद्रंपश्येमाक्षमिर्यजत्राः |
स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिर्व्यशेमहिदेवहितं यदायुः ||

|| ॐ शांतिः शांतिः शांतिः ||

सूदितस्वातिरिक्तारिसूरिनन्दात्ममावितम् |

सूर्यनारायणाकारं नौमी चित्सूर्यवैभवम् ||

हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः अस्य ब्रह्मा ऋषिः |

गायत्री छन्दः | आदित्यो देवता |

हंसः सोऽहमग्निनारायणयुक्तं बीजम् | हृल्लेखा शक्तिः |

वियदादिसर्गसंयुक्तं कीलकम् | चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः | षट्स्वरारूढेन बिजेन षऽङ्गरक्ताम्बुजसंस्थितम् |

सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः || १ ||

ॐ भूर्भुवः स्वः | ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि |

धियो यो नः प्रचोदयात् | सूर्य आत्मा जगतस्तस्थुषश्च |

सूर्याद्वै खल्विमानि भूतानि जायन्ते |

सुर्याद्यज्ञः पर्जन्योऽन्नमात्मा || २ ||

नमस्त आदित्य | त्वमेव प्रत्यक्षं कर्मकर्तासि | त्वमेव प्रत्यक्षं ब्रह्माऽसि |

त्वमेव प्रत्यक्षं विष्णुरसि | त्वमेव प्रत्यक्षं रुद्रोऽसि |

त्वमेव प्रत्यक्षमृगसि | त्वमेव प्रत्यक्षं यजुरसि |

त्वमेव प्रत्यक्षं सामासि | त्वमेव प्रत्यक्षमथर्वासि |

त्वमेव संर्व छन्दोऽसि || ३ ||

आदित्याद्वायुर्जायते | आदित्याद्भूमिर्जायते |

आदित्यादापो जायन्ते | आदित्याज्ज्योतिर्जायते |

आदित्याव्द्योम दिशो जायन्ते |

आदित्याद्देवा जायन्ते| आदित्यो वा एष एतन्मण्डलं तपति || ४ ||

असावादित्यो ब्रह्म | आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः |

आदित्यो वै व्यानः समानोदानोऽपानः प्राणः |

आदित्यो वै श्रोत्रत्वक्चक्षूरसनध्राणाः |

आदित्यो वै व्यानः समानोदानोऽपानः प्राणः |

आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणां | आदित्यो वै शब्दस्पर्शरुपरसगन्धाः |

आदित्यो वै वचनादानागमनविसर्गानन्दाः |

आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः || ५ ||

नमो मित्राय मानवे | मृत्योर्मा पाहि | भ्राजिष्णवे विश्वहेतवे नमः |

सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु |

सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च || ६ ||

चक्षुर्नो देवः सविता चक्षुर्नऽउत पर्वतः |

चक्षुर्धाता दधातु नः | आदित्याय विद्महे सहस्त्रकिरणाय धीमहि |

तन्नः सूर्यः प्रचोदयात् || ७ ||

सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् |

सविता नःसुवतु सर्वतातिं सविता नो रासतां दीर्धमायुः || ८ ||

ॐ मित्येकाक्षरं ब्रह्म | घृणिरिति द्वे अक्षरे | सूर्य इत्यक्षरद्वयम् |

आदित्य इति त्रीण्यक्षराणि | ऐतस्य वै सूर्यस्याष्टाक्षरो मनुः |

यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति |

सूर्याभिमुखो जप्त्वा महाव्याधीभयात्प्रमुच्यते |

अलक्ष्मीर्नश्यति | अमक्ष्यमक्षणात्पूतो भवति |

पतितसंभाषणात्पूतो भवति |

असत्संभाषणात्पूतो भवति |

मध्याह्ने सूर्याभिमुखः पठेत सद्योत्पन्नपञ्चमहापात कात्प्रामुच्यते || ९ ||

सैषा सावित्री विद्या न किंचिदपि न कस्मैचित्प्रशंसयेत् |

य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते |

पशुन् विन्दति | वेदार्थं लभते |

त्रिकालमेत ज्जप्त्वा क्रतुरातफलमवाप्नोति |

यो हस्तादित्ये जपति स महामृत्युं तरति स महामृत्युं तरति य एवं वेद || १० ||

|| ईत्युपनिषद् ||

|| हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ३ ||

|| इति सूर्याथर्वशीर्षं समाप्तम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *