श्री हनुमतः आवरण पूजा || Shri Hanumatah Aavaran Puja

0

हनुमान जी की मूर्ति स्थापन,यंत्र स्थापन व मंत्र जप के अवसर पर आवरण सहित श्रीहनुमतः आवरणपूजा करें और उनके प्रसन्नार्थ श्री हनुमान चालीसा, बजरंग बाण आदि का पाठ करें-

श्रीहनुमतः आवरणपूजा,,,

जपः,,ॐ अस्य श्रीहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । जगतीच्छन्दः ।

हनुमान् देवता, ह्रौं बीजं, ह्स्फ्रें शक्तिः, हनुमते कीलकम् ।

हनुमद्देवताजपे विनियोगः ।

न्यासाः,,,,ऋष्यादिन्यासः ।

श्रीरामचन्द्रऋषये नमः शिरसि ।

जगतीच्छन्दसे नमः मुखे ।

हौं बीजाय नमः गुह्ये ।

हनुमते कीलकाय नमो नाभौ ।

विनियोगाय नमः अञ्जलौ ॥

करन्यासः (अङ्गन्यासः) –

ॐ हौं अङ्गुष्ठाभ्यां नमः (हृदयाय नमः) ।

ॐ ह्ख्फ्रें तर्जनीभ्यां नमः (शिरसे स्वाहा) ।

ॐ ह्ख्फ्रें मध्यमाभ्यां नमः (शिखायै वषट्) ।

ॐ ह्स्त्रौं अनामिकाभ्यां नमः (कवचाय हुं) ।

ॐ ह्ख्फ्रें कनिष्ठिकाभ्यां नमः (नेत्रत्रयाय वौषट्) ।

ॐ ह्सौं करतलकरपृष्ठाभ्यां नमः (अस्त्राय फट्) ।

मन्त्रवर्णविन्यासः

ॐ हांऐ नमः मूर्ध्नि ।

ॐ हस्फ्रें नमः ललाटे ।

ॐ ख्फ्रें नमः नेत्रयोः ।

ॐ ह्स्त्रौं नमः मुखे ।

ॐ ह्स्ख्फ्रें नमः कण्ठे ।

ॐ ह्सौं नमः बाहुमूले ।

ॐ हं नमः हृदि ।

ॐ नुं नमः कुक्ष्योः ।

ॐ मं नमः नाभौ ।

ॐ तें नमः लिङ्गे ।

ॐ नं नमः जानुनि ।

ॐ मः नमः पादयोः ।

पदन्यासः,,,ॐ हौं नमः मूर्ध्नि ।

ॐ ह्स्फ्रें नमः ललाटे ।

ॐ ख्फ्रें नमः मुखे ।

ॐ ह्स्त्रों नमः हृदि ।

ॐ ह्स्खफ्रें नमः नाभौ ।

ॐ ह्सौं नमः ऊरौ ।

ॐ हनुमते नमः जानुनि ।

ॐ नमः पादयोः ।

ध्यानम्बा,,,लार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं

सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् ।

नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं

श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥”

अग्न्याधानम् :- अग्नौ मारुतेरावाहनम् । प्राणप्रतिष्ठा ।

ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः

सोहम् अस्याः श्रीहनुमत्प्रतिमायाः प्राणाः ।

ॐ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः

सोहम् अस्याः श्रीहनुमत्प्रतिमायाः जीव इह स्थितः ॥

ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः

सोहम् अस्याः श्रीहनुमत्प्रतिमाया सर्वेन्द्रियाणि

वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि

इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

गर्भाधानादि षोडशसंस्कारान्सम्पादयामि ।

आवाहनाद्युपचाराः

देवेश भक्तिसुलभ परिवारसमन्वित ।

यावत्त्वां पूजयिष्यामि तावद्देव इहावह ।

आगच्छ भगवन्देव स्थाने चात्र स्थितो भव ।

यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ॥

ॐ भूर्भुवःसुवः श्रीहनुमद्देवतामावाहयामि” ।

“तवेयं महिमा मूर्तिस्तस्यां त्वां सर्वग प्रभो ।

भक्तिस्नेहसमाकृष्ट दीपवत्स्थापयाम्यहम् ॥”

“ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह तिष्ठ ।

“अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।

सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥”

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निधेहि ।

“आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ॥

आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥”

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निरुद्धो भव ।

“अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ॥

यदपूर्णं भवेत्कृत्यं तदप्यभिमुखो भव ॥”

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सम्मुखो भव ॥

अभक्तवाङ्मनश्चक्षु:श्रोत्रदूरातिगद्युते ॥

स्वतेजःपञ्जरेणाशु वेष्टितो भव सर्वतः ॥

(मूलं) ॐ भुर्भूवःसुवः श्रीहनुमद्देव अवगुण्ठितो भव ॥

“यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।

तस्मै ते परमेशाय स्वागतं च ब्रवीमि ते ॥”

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः

सुस्वागतं समर्पयामि ।

“देव देव महाराजरामचन्द्रप्रियेश्वर ।

आसनं दिव्यमीशान दास्येऽहं परमेश्वर ॥

अपराधो भवत्येव सेवकस्य पदे पदे ॥

कोऽपरः सहतां लोके केवलं स्वामिनं विना ॥

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः ।

आसनं समर्पयामि ।

स्वागतं देव देवेश मद्भाग्यात्त्वमिहागतः ।

प्राकृतं त्वं च दृष्ट्वा मां बालवत्परिपालय ॥

(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवतायां

प्रार्थनां समर्पयामि, नमस्करोमि ॥

 

पीठपूजा

“ओं मण्डूकादिपरतत्वान्तपीठदेवताः स्थापयेत् ।

तथा च पुष्पकेसराक्षतं देवतायां अर्पयेत् ।

ॐ मं मण्डूकाय नमः । ॐ कां कालाग्निरुद्राय नमः ।

ॐ आं आधारशक्त्यै नमः । ॐ कं कूर्माय नमः ।

ॐ अं अनन्ताय नमः । ॐ पृं पृथिव्यै नमः ।

ॐ क्षीं क्षीरसागराय नमः । ॐ रं रत्नद्वीपाय नमः ।

ॐ रं रत्नमण्डपाय नमः । ॐ कं कल्पवृक्षाय नमः ।

ॐ रं रत्नवेदिकायै नमः । ॐ रं रत्नसिंहासनाय नमः ।

(अग्निकोणे) -ॐ धं धर्माय नमः ।

(नैरऋत्ये) -ज्ञां ज्ञानाय नमः ।

(वायव्ये) ॐ वैं वैराग्याय नमः ।

(ईशाने) ॐ ऐं ऐश्वर्याय नमः ।

(पूर्वे) ॐ अं अधर्मायनमः ।

(दक्षिणे) ॐ अं अज्ञानाय नमः ।

(पश्चिमे) ॐ अं अवैराग्याय नमः ।

(उत्तरे) ॐ अं अनैश्वर्याय नमः ।

(मध्ये) ॐ सं संविन्नालाय नमः ॥

 

ॐ सं सर्वतत्त्वकमलासनाय नमः ।

ॐ प्रं प्रकृतिमयपत्रेभ्यो नमः ।

ॐ विं विकारमयकेसरेभ्यो नमः ।

ॐ पं पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः ॥

 

ॐ अं अर्कमण्डलाय द्वादशकलात्मने नमः ।

ॐ सों सोममण्डलाय षोडशकलात्मने नमः ।

ॐ वं वह्निमण्डलाय दशकलात्मने नमः ।

ॐ सं सत्त्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः ।

ॐ आं आत्मने नमः । ॐ पं परमात्मने नमः ।

ॐ अं अन्तरात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः ।

ॐ मं मायातत्त्वाय नमः ।

ॐ कं कलातत्त्वाय नमः । ॐ विं विद्यातत्वाय नमः ।

ॐ पं परतत्त्वाय नमः ।

(एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत्)

(पूर्वे) ॐ विमलायै नमः ॥ (आग्नेये) ॐ उत्कर्षिण्यै नमः ।

(दक्षिणे) ॐ ज्ञानायै नमः ।

(नैऋर्त्ये) -ॐ किर्यायै नमः ।

(पश्चिमे) -ॐ योगायै नमः । (वायव्ये) ॐ प्रह्वायै नमः ।

(उत्तरे) -ओं सत्यायै नमः । (ऐशान्ये) ॐ सत्यायै नमः ।

(पीठमध्ये) – ॐ अनुग्रहायै नमः ।

इति पीठशक्तीः सम्पूज्य, देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥

 

तत्र क्रमः ॥

 

पुष्पाञ्जलिमादाय

“संविन्मयपरो देव परामृत रसप्रिय ।

अनुज्ञां देहि हनुमन् परिवारार्चनाय मे” ॥ (पुष्पाञ्जलिः)

 

षट्कोणयन्त्रपूजा

(षट्कोणेषु) ॐ हौं हृदयाय नमः

हृदयश्रीपादुकां पूजयामि तर्पयामि

नमः ।

ॐ ह्स्फ्रें शिरसे स्वाहा । शिरःश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ख्फ्रें शिखायै वषट् शिखाश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्स्त्रौं कवचाय हुं कवचश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हस्ख्फ्रें नेत्रत्रयाय वौषट् नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः ।

अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

इति पुष्पाञ्जलिं दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य

पूजितास्तर्पिताः सन्तु इति वदेत् । (ततोऽष्टदले)

पूज्यपूजकयोरन्तरालं प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य

(दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा,

प्राच्यादिक्रमेण अष्टसु दिक्षु ॥ )

प्राच्याम् –

ॐ रामभक्ताय नमः रामभक्तश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ महाबलाय नमः महाबल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ द्रोणाद्रिहारकाय नमः द्रोणाद्रिहारक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ मेरुपीठकार्चनकारणाय नमः मेरुपीठकार्चनकारण श्रीपादुकां

पूजयामि तर्पयामि नमः ॥

 

ॐ सर्वविघ्ननिवारकाय नमः सर्वविघ्ननिवारक श्रीपादुकां पूजयामि

तर्पयामि नमः ॥

 

(ततः पुष्पाञ्जलिमादाय मूलं पठित्वा विशेषार्घ्याद्बिन्दुं दत्वा,

“अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

पूजितास्तर्पिताः सन्तु इति वदेत् ।

ततः अष्टदलाद्बहिः चतुरश्राभ्यन्तरे प्राच्याम् ।)

ॐ सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अङ्गदाय नमः अङ्गदश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ नीलाय नमः नीलश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ जाम्बवते नमः जाम्बवत्श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ नलाय नमः नलश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सुषेणाय नमः सुषेणश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ द्विविदाय नमः द्विविदश्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ मैन्दाय नमः मैन्दश्रीपादुकां पूजयामि तर्पयामि नमः ।

ततः पुष्पाञ्जलिमादाय मूलं पठित्वा

“अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

(इत्युक्त्वा पुष्पाञ्जलिं दत्वा विशेषार्ध्याद्बिन्दुं दत्वा

पूजितास्तर्पिताः सन्तु इति वदेत् ॥ )

(सन्धिषु पूर्वादिक्रमेण)

ॐ रक्षोघ्नाय नमः रक्षोघ्नश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विषघ्नाय नमः विषनाशकश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ रिपुघ्नाय नमः रिपुसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ व्याधिघ्नाय नमः व्याधिघ्नश्रीपादुकाम्पूजयामि तर्पयामि नमः ।

ॐ चोरघ्नाय नमः चोरसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ भूतघ्नाय नमः भूतसंहारक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ परशस्त्रास्त्रमन्त्रघ्नाय नमः परशस्त्रपरमन्त्रनिवारकश्रीपादुकां

पूजयामि तर्पयामि नमः ।

ॐ भयनाशाय नमः भयनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः ।

इति सम्पूज्य ।

पुष्पाञ्जलिमादाय मूलमुच्चार्य”

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ।

इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य

पूजितास्तर्पिताः सन्तु – इति वदेत् ॥

 

(भूपुराद्वहिः प्रथमपङ्क्तौ पूर्वादिक्रमेण ॥ )

ॐ ऐरावताय नमः ऐरावतश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पुण्डरीकाय नमः पुण्डरीकश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वामनाय नमः वामनश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कुमुदाय नमः कुमुदश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अञ्जनाय नमः अञ्जनश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ पुष्पदन्ताय नमः पुष्पदन्तश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सार्वभौमाय नमः सार्वभौमश्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ सुप्रतीकाय नमः सुप्रतीकश्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ततः पुष्पाञ्जलिमादाय मूलं पठित्वा

“अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥”

इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य

“पूजितास्तर्पिताः सन्तु” इति वदेत् ।

भूपुरादिद्वितीयरेखायां पूर्वादिक्रमेण-

पूर्वे

ॐ लं इन्द्राय नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ रं अग्नये नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः ॥

 

ॐ मं यमाय नमः यमश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ क्षं निऋर्तये नमः निऋर्तिश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ वं वरुणाय नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ यं वायवे नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ कं कुबेराय नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ हं ईशानाय नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः ।

इन्द्रेशानयोर्मध्ये ।

ॐ आं ब्रह्मणे नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमः ।

इति दश दिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य ।

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥

इत्युक्त्वा पुष्पाञ्जलिं च दत्त्वा, विशेषार्घ्याद्बिन्दुं निक्षिप्य

“पूजितास्तर्पिताः सन्तु” इति वदेत्

ततः पूर्वादिक्रमेण तत्तत्समीपे –

ॐ वं वज्राय नमः । ॐ शं शक्तये नमः । ॐ दं दण्डाय नमः ।ॐ खं खड्गाय नमः । ॐ पां पाशाय नमः । ॐ अं अङ्कुशाय नमः ।

ॐ गं गदायै नमः । ॐ त्रिं त्रिशूलाय नमः । ॐ पं पद्माय नमः ।ॐ चं चक्राय नमः । इत्यस्त्राणि पूजयेत् ॥

ततः पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्च्य

“ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

इत्युक्त्वा पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति वदेत् ॥ इत्यावरणपूजा ॥ उपचाराः”

यद्भक्तिलेशसम्पर्कात्परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥”

(मूलं ) “ॐ भुर्भुवःसुवः श्रीहनुमते नमः पाद्यं समर्पयामि ॥”

पापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥

(मूलमन्त्रं पठित्वा )

ॐ भूर्भुवःसुवः श्रीहनुमते नमः इदमर्घ्यं समर्पयामि । देवानामपि देवाय देवानां देवतात्मने ॥”

आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥

(मूलमन्त्रं पठित्वा )

ॐ भूर्भुवःसुवः श्रीहनुमते नमः आचमनीयं समर्पयामि ॥

मधुपर्कपञ्चामृतस्नानादि च सर्वं देवोपयोगिपद्धतिमार्गेण कुर्यात् ॥

अशक्तश्चेज्जलस्नानं मधुस्नानं शुद्धोदकस्नानं च कुर्यात् ॥

“गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥

(मूलं पठित्वा )

ॐ भूर्भुवःसुवः श्रीहनुमते नमः जलस्नानं समर्पयामि ॥”

तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

(मूलं पठित्वा )

ॐ भूर्भुवःसुवः श्रीहनुमते नमः मधुस्नानं समर्पयामि ।

गङ्गा -सरस्वती -रेवा -पयोष्णी -नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुण्यतीर्थस्नानं समर्पयामि ॥

सर्वभूषादिकसमे लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः वस्त्रं समर्पयामि ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः यज्ञोपवीतं उत्तरीयं च समर्पयामि ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः चन्दनं समर्पयामि ।

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ।

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः अक्षतान्समर्पयामि ॥

“माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुष्पाणि समर्पयामि ॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः धूपं समर्पयामि ॥

“सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥

(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः दीपं समर्पयामि ॥

सत्पात्रसिद्धं सहविर्विविधं स्वादु भक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥

(मूलं ) ॐ भूर्भुवःसुवः साङ्गाय सपरिवाराय श्रीहनुमते नमः नैवेद्यं समर्पयामि ॥

ब्रह्मेशाद्यैः सरसमभितः सूपविष्टैः समेतं शिञ्जद्वालव्यजननिकरैर्वीज्यमानो गणौघैः ।

नर्मक्रीडा -प्रहसनपरो हासयन् पङ्क्तिभोक्तॄन् , भुङ्क्ते पात्रे कनकघटिते षड्रसान् वायुपुत्रः ।

नमस्ते देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।

(मूलं ) “ॐ भूर्भुवःसुवः श्रीहनुमते नमः जलं समर्पयामि ।

अथ ध्यानम् –

बालार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् ।

नादेनैव समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि वातात्मजम् ॥

अद्येहेत्यादि मम (यजमानस्य ) सङ्कल्पोक्तफलावाप्तये श्रीहनुमद्देवतापुरश्चरणसिद्धये , चतुर्दिक्षु वटुकादिदेवताभ्यो दधिमाषान्नद्रव्यैः पञ्चमहाभूतबलिदानं करिष्ये ।

“ॐ वटुकबलिपात्राधारमण्डलाय नमः ” “ॐ वँ वटुकबलिद्रव्याय नमः ” गन्धपुष्पाभ्यां नमः ।

(पूर्वे )

वँ वटुकाय नमः , ॐ ऐं ह्रीं श्रीं एह्येहि देवीपुत्र वटुकनाथ जटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितं इमं बलिं गृहाण गृहाण स्वाहा ॥

प्रार्थना

ॐ करकलितकपालःकुण्डलीदण्डपाणिःतरुणतिमिरनीलव्यालयज्ञोपवीती ।

ऋतुसमयसपर्याविघ्नविच्छेदहेतुः जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धिदः । शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥

(पुष्पाञ्जलिं कुर्यात् )

(उत्तरे ) ॐ गं गणपतये नमः गणेशबलिपात्राधारमण्डलाय नमः ।

(तत्पश्चात् )

ॐ गणेशबलिद्रव्याय नमः । ॐ गां गीं गूं गैं गौं गः गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्ण -गृह्ण स्वाहा । सर्वदा सर्वकार्याणि निर्विघ्नं साधयेन्मम ।

शान्तिं करोतु सततं विघ्नराजः सशक्तिकः ।

(उत्तरस्यां ) “योगिनीबलिपात्राधारमण्डलाय नमः ”

“ॐ यां योगिनीबलिद्रव्याय नमः ” दक्षिणे यां सर्वयोगिनीभ्यो नमः ।

ॐ सर्ववर्णयोगिन्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा ।

ॐ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा

पाताले वा स्थले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।

क्षेत्रे पीठोपपीठे दिशि दिशि च कृते धूपदीपादिकेभ्यः

प्रीता देव्यः सदा नः शुभविधिबलिनः पान्तु वीरेन्द्रवन्द्याः ॥

या काचिद्योगिनी रौद्रा सौम्या घोरा परात्परा । खेचरी भूचरी व्योमवत्यः प्रीतास्तु मे सदा ॥

यां योगिनीभ्यः स्वाहा सर्वाभ्यो योगिनीभ्यः फट् ॥ (पुष्पाञ्जलिः )

(पश्चिमायां ) “क्षेत्रपालबलिपात्राधारमण्डलाय नमः ॥

“ॐ क्षं क्षेत्रपालबलिद्रव्याय नमः ” “पश्चिमे क्षं क्षेत्रपालाय नमः ॥

क्षां क्षीं क्षूं क्षैं क्षौं क्षः भो स्थानक्षेत्रपाल इमं बलिं गृहाण सर्वकार्याणि पूरय पूरय स्वाहा ॥”

योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालः सकिङ्करः । प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥

“ह्रीं सर्वभूतविघ्नकृद्बलिपात्राधारमण्डलाय नमः ।” “सर्वभूतविघ्नकृद्बलिद्रव्याय नमः ।”

“ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा ॥

भूता ये विघ्नकर्तारः दिवि भूम्यन्तरिक्षगाः । पातालस्थलसंस्थाश्च शिवयोगेन भाविताः ।

क्रूराद्याः शतसङ्ख्याकाः पाखण्डाद्या व्यवस्थिताः । ध्रुवाद्याः सत्यसङ्ख्याश्च इन्द्राद्याशाव्यवस्थिताः ।

तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् । नगरे वाथ सङ्ग्रामे अटव्यां वै सरित्तटे ॥

वापीकूपेषु वृक्षेषु श्मशाने च चतुष्पथे । नानारूपधरा ये च बहुरूपधराश्च ये ।

ते सर्वे चैव सन्तुष्टा बलिं गृह्णन्तु मे सदा ॥

श्रीद्वादशाक्षरहनुमन्मत्रस्य श्रीरामचन्द्रस्य ऋषेः बलिपात्राधार – मण्डलाय नमः

(मूलं मन्त्रमुच्चार्य ) “श्रीरामचन्द्रऋषये इमं बलिं गृहाण गृहाण स्वाहा ॥”

(मूलमन्त्रं पठित्वा ) “ओं (मूलं ) हनुमद्देवताबलिद्रव्याय नमः ”

“ॐ (मूलं ) साङ्गायै सायुधायै सवाहनायै सपरिवारायै सशक्तिकायै श्रीहनुमद्देवतायै नमः ।

ॐ (मूलं ) चण्डेश्वराय नमः धूं फट् चण्डेश्वराय इमं बलिं गृहाण गृहाण स्वाहा ॥”

चण्डेश्वरं रक्ततनुं त्रिनेत्रं रक्तांशुकाढ्यं हृदि भावयामि ।

टङ्कं त्रिशूलं स्फटिकाक्षमालां कमण्डलुं बिभ्रतमिन्दुचूडम् ॥

“कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥”

(मूलं ) “ॐ भूर्भुवःसुवः श्रीहनुमते नमः कर्पूरारात्रिकं समर्पयामि ।

यानि कानि च पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

ॐ भूर्भुवःसुवः श्रीहनुमते नमः प्रदक्षिणं समर्पयामि ॥

“नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाजलिं मया दत्तं गृहाण परमेश्वर ॥

ॐ भूर्भुवःसुवः श्रीहनुमते नमः । पुष्पाञ्जलिं समर्पयामि ॥

यदुक्तं हृदि भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥

“अनया कृतया पूजया श्रीहनुमद्देवता प्रीयतां इदं न मम ।”

परिवारपूजा –

ॐ भुर्भुवःसुवः श्रीरामचन्द्रऋषये स्वाहा । ॐ भुर्भुवःसुवः हौं स्वाहा । ॐ भुर्भुवःसुवः ह्स्फ्रेऐं स्वाहा ।

ॐ भुर्भुवःसुवः ख्फ्रें स्वाहा । ॐ भुर्भुवःसुवः ह्स्त्रौं स्वाहा । ॐ भुर्भुवःसुवः ह्स्ख्फ्रें स्वाहा ।

ॐ भुर्भुवःसुवः ह्सौं स्वाहा । ॐ भुर्भुवः सुवः रामभक्ताय स्वाहा । ॐ भुर्भुवःसुवः महातेजसे स्वाहा ।

ॐ भुर्भुवःसुवः कपिराजाय स्वाहा ।ॐ भुर्भुवःसुवः महाबलाय स्वाहा।ॐ भुर्भुवःसुवः द्रोणाद्रिहारकाय स्वाहा ।

ॐ भुर्भुवःसुवः मेरुपीठकार्चनकारकाय स्वाहा । ॐ भुर्भुवःसुवः दक्षिणाशाभास्कराय स्वाहा ।

ॐ भुर्भुवःसुवः सर्वविघ्ननिवारकाय स्वाहा । ॐ भुर्भुवः सुवः सुग्रीवाय स्वाहा ।

ॐ भुर्भुवःसुवः अङ्गदाय स्वाहा । ॐ भुर्भुवःसुवःनीलाय स्वाहा । ॐ भुर्भुवःसुवः जाम्बवते स्वाहा ।

ॐ भुर्भुवःसुवः नलाय स्वाहा । ॐ भुर्भुवःसुवः सुषेणाय स्वाहा ।

ॐ भूर्भुवः सुवः द्विविदाय स्वाहा । ॐ भूभुवः सुवः मैन्दाय स्वाहा ॥

ॐ तत्सद्ब्रह्मार्पणमस्तु ।

Leave a Reply

Your email address will not be published. Required fields are marked *