श्री आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम् || Sri Aapduddhakar Batukbhairavashtottara Shatnam Stotram

0

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम् व नामावली के प्रयोग “भैरव-तन्त्र” के अनुसार कुछ प्रयोग इस प्रकार हैं –

१- रात्रि में तीन मास तक प्रति-दिन ३८ पाठ करने से (कुल ११४० पाठ) विद्या और धन की प्राप्ति होती है।

२- तीन मास तक रात्रि में नौ अथवा बारह पाठ प्रति-दिन करने से ‘इष्ट-सिद्धि’ प्राप्त होती है ।

३- ऋण-निवारण के लिये ‘आपदुद्धारण-मन्त्र’ का जप करके रात्रि में प्रतिदिन बारह पाठ दीपक के सामने करने से सफलता मिलती है ।

४- रात्रि में चार माह तक प्रतिदिन दस पाठ करने से सर्वसिद्धि प्राप्त होती है ।

५- ४१ दिन का एक मण्डल होता है, ऐसे चार मण्डल तक प्रतिदिन रात्रि में बारह पाठ करने से इष्ट-सिद्धि होती है ।

६- ग्यारह मास तक प्रतिदिन ४४ पाठ करने से मन्त्र-सिद्धि होती है ।

७- दुस्तर आपत्ति से मुक्ति प्राप्त करने के लिये भगवान् बटुक की उपासना रात्रि में करनी चाहिये ।

नामावली पाठ का पुरश्चरणः- ११००० पाठ का पुरश्चरण होता है, तद्दशांश हवन, तर्पण, मार्जन तथा ब्राह्मण-भोजन आवश्यक है। सूर्य और चन्द्र-ग्रहण के समय इसका पाठ करना भी पुरश्चरण के समान ही है । स्तोत्र-जप के पुरश्चरण का एक अन्य प्रकार यह भी है कि – स्तोत्र में जितने मूल-पाठरुप पद्य हों उतने ही पाठ प्रतिदिन और उतने ही दिनों तक करें ।

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

|| वृहदारण्यक उवाच ||

मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम्(जगद्गुरुम्) ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १॥

|| श्रीपार्वत्युवाच ||

भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥ २॥

सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३॥

अङ्गन्यासकरन्यासदेहन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ ४॥

|| शङ्कर उवाच ||

श्रृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ ५॥

अपस्मारादि रोगानां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६॥

ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥ ७॥

सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् ।
आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥ ८॥

प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् ।
बटुकायेति वै पश्चादापदुद्धारणाय च ॥ ९॥

कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ।
देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ १०॥

मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् ।

ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु-कुरु बटुकाय ह्रीम् ।
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥ ११॥

स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥ १२॥

पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥ १३॥

न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥ १४॥

भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ।
न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥ १५॥

|| श्रीपार्वत्युवाच ||

क एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवःकल्पवित्तमः ॥ १६॥

तस्य नाम सहस्राणि अयुतान्यर्बुदानि च ।
सारं समुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १७॥

यानि सङ्कीर्तयन्मर्त्यः सर्वदुःखविवर्जितः ।
सर्वान्कामानवाप्नोति साधकःसिद्धिमेव च ॥ १८॥

|| ईश्वर उवाच ||

श्रृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येदं नामाष्टशतमुत्तमम् ॥ १९॥

सर्वपापहरं पुण्यं सर्वापत्तिविनाशनम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ २०॥

सर्वमङ्गलमाङ्गल्यं सर्वोपद्रवनाशनम् ।
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २१॥

नामाष्टशतकस्यास्य छन्दोऽनुष्टुप् प्रकीर्तितः ।
बृहदारण्यको नाम ऋषिर्देवोऽथ भैरवः ॥ २२॥

लज्जाबीजं बीजमिति बटुकामेति शक्तिकम् ।
प्रणवः कीलकं प्रोक्तमिष्टसिद्धौ नियोजयेत् ॥ २३॥

अष्टबाहुं त्रिनयनमिति बीजं समाहितः ।
शक्तिः ह्रीं कीलकं शेषमिष्टसिद्धौ नियोजयेत् ॥ २४॥

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

ॐ अस्य श्रीमदापदुद्धारक-बटुकभैरवाष्टोत्तरशतनामस्तोत्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः।
श्रीमदापदुद्धारक-बटुकभैरवो देवता । बं बीजम् । ह्रीं वटुकाय इति शक्तिः । प्रणवः कीलकम् ।
ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

॥ ऋष्यादि न्यासः ॥

श्रीबृहदारण्यकऋषये नमः (शिरसि)।
अनुष्टप् छन्दसे नमः (मुखे)।
श्रीबटुकभैरव देवतायै नमः (हृदये)।
ॐ बं बीजाय नमः (गुह्ये)।
ॐ ह्रीं वटुकायेति शक्तये नमः पादयोः ।
ॐ कीलकाय नमः (नाभौ)।
विनियोगाय नमः सर्वाङ्गे ।

॥ इति ऋष्यादि न्यासः ॥

॥ अथ करन्यासः ॥

ॐ ह्रां वां ईशानाय नमः अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं वीं तत्पुरुषाय नमः तर्जनीभ्यां नमः ।
ॐ ह्रूं वूं अघोराय नमः मध्यमाभ्यां नमः ।
ॐ ह्रैं वैं वामदेवाय नमः अनामिकाभ्यां नमः ।
ॐ ह्रौं वौं सद्योजाताय नमः कनिष्ठिकाभ्यां वमः ।
ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः करतलकरपृष्ठाभ्यां नमः ।

॥ इति करन्यासः ॥

॥ अथ हृदयादि न्यासः ॥
ॐ ह्रां वां ईशानाय नमः हृदयाय नमः ।
ॐ ह्रीं वीं तत्पुरुषाय नमः शिरसे स्वाहा ।
ॐ ह्रूं वूं अघोराय नमः शिखायै वषट् ।
ॐ ह्रैं वैं वामदेवाय नमः कवचाय हुम् ।
ॐ ह्रौं वौं सद्योजाताय नमः नेत्रत्रयाय वौषट् ।
ॐ ह्रः वः पञ्चवक्त्राय महादेवाय नमः अस्त्राय फट् ।

॥ इति हृदयादि न्यासः ॥

अथ देहन्यासः ।

भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ।
नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः ॥ २५॥

कर्णयोर्भूतनाथं च प्रेतबाहुं कपोलयोः ।
नासौष्ठयोश्चैव तथा भस्माङ्गं सर्पविभूषणम् ॥ २६॥

अनादिभूतभाष्यौ च शक्तिहस्तखले न्यसेत् ।
स्कन्धयोर्दैत्यशमनं वाह्वोरतुलतेजसः ॥ २७॥

पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् ।
शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ २८॥

उदरे च सदा तुष्टं क्षेत्रेशं पार्श्वयोस्तथा ।
क्षेत्रपालं पृष्ठदेशे क्षेत्रज्ञं नाभिदेशके ॥ २९॥

पापौघनाशनं कट्यां बटुकं लिङ्गदेशके ।
गुदे रक्षाकरं न्यस्येत्तथोर्वोर्रक्तलोचनम् ॥ ३०॥

जानुनोर्घुर्घुरारावं जङ्घयो रक्तपाणिनम् ।
गुल्फयोः पादुकासिद्धं पादपृष्ठे सुरेश्वरम् ॥ ३१॥

आपादमस्तकं चैव आपदुद्धारकं तथा ।
पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३२॥

खड्गहस्ते पश्चिमायां घण्टावादिनमुत्तरे ।
आग्नेय्यामग्निवर्णं च नैरृत्ये च दिगम्बरम् ॥ ३३॥

वायव्यां सर्वभूतस्थमैशान्ये चाष्टसिद्धिदम् ।
ऊर्ध्वं खेचारिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३४॥

एवं विन्यस्य स्वदेहस्य षडङ्गेषु ततो न्यसेत् ।
रुद्रं मुखोष्ठयोर्न्यस्य तर्जन्योश्च दिवाकरम् ॥ ३५॥

शिवं मध्यमयोर्न्यस्य नासिकायां त्रिशूलिनम् ।
ब्रह्माणं तु कनिष्ठिक्यां स्तनयोस्त्रिपुरान्तकम् ॥ ३६॥

मांसासिनं कराग्रे तु करपृष्ठे दिगम्बरम् ।

अथ नामाङ्गन्यासः ।

हृदये भूतनाथाय आदिनाथाय मूर्द्धनि ॥ ३७॥

आनन्दपादपूर्वाय नाथाय च शिखासु च ।
सिद्धसामरनाथाय कवचं विन्यसेत्ततः ॥ ३८॥

सहजानन्दनाथाय न्यसेन्नेत्रत्रयेषु च ।
परमानन्दनाथाय अस्त्रं चैव प्रयोजयेत् ॥ ३९॥

एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् ।
तस्य ध्यानं प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४०॥

शुद्धस्फटिकसङ्काशं नीलाञ्जनसमप्रभम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ४१॥

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४२॥

दिगम्बरं कुमारीशं बटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥ ४३॥

डमरुं च कपोलं च वरदं भुजगं तथा ।
अग्निवर्णं समोपेतं सारमेयसमन्वितम् ॥ ४४॥

ध्यात्वा जपेत्सुसंस्पृष्टः सर्वान्कामानवाप्नुयात् ॥

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

|| मन्त्रमहार्णवे सात्त्विकध्यानम् ||

वन्दे बालं स्फटिकसदृशं कुण्डलोभासिताङ्गं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ॥
दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्याम्बटुकेशं शूलदण्डैर्दधानम् ॥ १॥

|| मन्त्रमहार्णवे राजसध्यानम् ||

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ॥
नीलग्रीवमुदारभूषणयुतं शीतांशुखण्डोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २॥

|| मन्त्रमहार्णवे तामसध्यानम् ||

ध्यायेन्नीलाद्रिकान्तिं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गलाक्षं डमरुमथ सृणिं खड्गपाशाभयानि ॥
नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं,
दिव्याकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥ ३॥

॥ इति ध्यानत्रयम् ॥

सात्त्विकं ध्यानमाख्यातञ्चतुर्वर्गफलप्रदम् ।
राजसं कार्यशुभदं तामसं शत्रुनाशनम् ॥ १॥
ध्यात्वा जपेत्सुसंहृष्टः सर्वान्कामानवाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सिद्ध्यर्थं विनियोजयेत् ॥ २॥

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

|| विनियोग ||

ॐ अस्य श्रीबटुकभैरवनामाष्टशतकस्य आपदुद्धारणस्तोमन्त्रस्य,
बृहदारण्यको नाम ऋषिः, श्रीबटुकभैरवो देवता, अनुष्टुप् छन्दः,
ह्रीं बीजम्, बटुकायेति शक्तिः, प्रणवः कीलकं, अभीष्टतां सिद्ध्यिर्थे
जपे विनियोगः ॥ ह्रीं ह्रौं नमः शिवाय इति नमस्कार मन्त्रः ॥

॥ अथ ध्यानम् ॥

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताग्राभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥

करकलितकपालः कुण्डली दण्डपाणिः
तरुणतिमिरनीलो व्यालयज्ञोपवीती ।
क्रतुसमयसपर्याविघ्नविच्छिप्तिहेतुः
जयति वटुकनाथः सिद्धिदः साधकानाम् ॥

शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
दशबाहुमथोग्रं च दिव्याम्बरपरिग्रहम् ॥

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥

दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् ।
खट्वाङ्गमसिपाशं च शूलं दक्षिणभागतः ॥

डमरुं च कपालं च वरदं भुजगं तथा ।
आत्मवर्णसमोपेतं सारमेयसमन्वितम् ॥

॥ इति ध्यानम् ॥

॥ मूलमन्त्रः ॥

ॐ ह्रीं बटुकायापदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ

इसका जप ११ २१ ५१ या १०८ बार करे
॥अथ श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् ॥

ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ १॥

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २॥

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३॥

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४॥

धनदोऽधनहारि च धनवान् प्रीतिवर्धनः (प्रतिभानवान्) ।
नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ ५॥

कालः कपालमालि च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ ६॥

त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः ।
बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ७॥

भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८॥

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९॥

अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।
भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ १०॥

कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान्(नागयज्ञोपवीतवान्) ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११॥

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः ।
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२॥

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ १३॥

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओं ॥ १४॥

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

|| फलश्रुति ||

अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १५॥

य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ १६॥

न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् ।
न शत्रुभ्यो भयं किञ्चित्प्राप्नुयान्मानवः क्वचित् ॥ १७॥

पातकेभ्यो भयं नैव यः पठेत्स्तोत्रमुत्तमम् ।
मारीभये राजभये तथा चौराग्निजे भये ॥ १८॥

औत्पत्तिके महाघोरे तथा दुःखप्रदर्शने ।
बन्धने च तथा घोरे पठेत्स्तोत्रमनुत्तमम् ॥ १९॥

सर्वं प्रशममायाति भयं भैरवकीर्तनात् ।
एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ २०॥

यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥ २१॥

षण्मासं भूमिकामस्तु जपित्बा प्राप्नुयान्महीम् ।
राजशत्र्युविनाशार्थं पठेन्मासाष्टकं पुनः ॥ २२॥

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् ॥ २३॥

धनार्थी च सुतार्थी च दारार्थी चापि मानवः ।
पठेन् (जपेन्) मासत्रयं देवि वारमेकं तथा निशि ॥ २४॥

धनं पुत्रं तथा दारान्प्राप्नुयान्नात्र संशयः ।
रोगी भयात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ २५॥

भीतो भयात्प्रमुच्येत देवि सत्यं न संशयः ।
निगडिश्चापि बद्धो यः कारागेहे निपातितः ॥ २६॥

श्रृङ्खलाबन्धनं प्राप्तं पठेच्चैव दिवानिशि ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥ २७॥

सुकुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात्स्तोत्रमिमं पुण्यं सर्वकामफलप्रदम् ॥ २८॥

जजाप परमं प्राप्यं भैरवस्य महात्मनः ।
भैरवस्य प्रसन्नाभूत्सर्वलोकमहेश्वरी ॥ २९॥

भैरवस्तु प्रहृष्टोऽभूत्सर्वगः परमेश्वरः ।
जजाप परया भक्त्या सदा सर्वेश्वरेश्वरीम् ॥ ३०॥

॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्

|| बटुक भैरवाष्टोत्तर शतनामावली ||

ॐ भैरवाय नमः।। ॐ भूतनाथाय नमः।। ॐ भूतात्मने नमः।। ॐ भूतभावनाय नमः।। ॐ क्षेत्रज्ञाय नमः।। ॐ क्षेत्रपालाय नमः।। ॐ क्षेत्रदाय नमः।। ॐ क्षत्रियाय नमः।। ॐ विराजे नमः।। ॐ श्मशानवासिने नमः।।

ॐ मांसाशिने नमः।। ॐ खर्वराशिने नमः।। ॐ स्मरांतकाय नमः।। ॐ रक्तपाय नमः।। ॐ पानपाय नमः।। ॐ सिद्दाय नमः।। ॐ सिद्धिदाय नमः।। ॐ सिद्धिसेविताय नमः।। ॐ कंकालाय नमः।। ॐ कालशमनाय नमः।।

ॐ कलाकाष्ठाय नमः।। ॐ तनये नमः।। ॐ कवये नमः।। ॐ त्रिनेत्राय नमः।। ॐ बहुनेत्राय नमः।। ॐ पिंगललोचनाय नमः।। ॐ शूलपाणये नमः।। ॐ खड्गपाणये नमः।। ॐ कपालिने नमः।।

ॐ धूम्रलोचनाय नमः।। ॐ अभीरवे नमः।। ॐ भैरवीनाथाय नमः।। ॐ भूतपाय नमः।। ॐ योगिनीपतये नमः।। ॐ धनधाय नमः।। ॐ धनहारिणे नमः।। ॐ धनवते नमः।।

ॐ प्रीतीवर्धनाय नमः।। ॐ नागहाराय नमः।। ॐ नागपाशाय नमः।। ॐ व्योमकेशाय नमः।। ॐ कपालभर्ते नमः।। ॐ कालाय नमः।। ॐ कपालमालिने नमः।। ॐ कमनीयाय नमः।।

ॐ कलानिधये नमः।। ॐ त्रिलोचनाय नमः।। ॐ ज्वलनेन्राय नमः।। ॐ त्रिशिखने नमः।। ॐ त्रिलोकेषाय नमः।। ॐ त्रिनेत्रतनयाय नमः।। ॐ डिम्भाय नमः।। ॐ शान्ताय नमः।।

ॐ शांतजनप्रियाय नमः।। ॐ बटुकाय नमः।। ॐ बहुवेशाय नमः।। ॐ खट्वांगधारकाय नमः।। ॐ भूताध्यक्षाय नमः।। ॐ पशुपतये नमः।। ॐ भिक्षुकाय नमः।। ॐ परिचारकाय नमः।।

ॐ धूर्ताय नमः।। ॐ दिगम्बराय नमः।। ॐ शराय नमः।। ॐ हरिणे नमः।। ॐ पांडुलोचनाय नमः।। ॐ प्रशांताय नमः।। ॐ शांतिदाय नमः।। ॐ सिद्धाय नमः।।

ॐ शंकरप्रियबांधवाय नमः।। ॐ अष्टमूर्तये नमः।। ॐ निधीशाय नमः।। ॐ ज्ञानचक्षुये नमः।। ॐ तपोमदाय नमः।। ॐ अष्टाधाराय नमः।। ॐ षडाधाराय नमः।। ॐ सर्पयुक्ताय नमः।।

ॐ शिखिसखाय नमः।। ॐ भूधराय नमः।। ॐ भूधराधीशाय नमः।। ॐ भूपतये नमः।। ॐ भुधरात्मज्ञाय नमः।। ॐ कंकालधारिणे नमः।। ॐ मुण्डिने नमः।। ॐ नागयज्ञोपवीतवते नमः।।

ॐ ज्रम्भणाय नमः।। ॐ मोहनाय नमः।। ॐ स्तंभिने नमः।। ॐ मारणाय नमः।। ॐ क्षोभणाय नमः।। ॐ शुद्धनीलांजनप्रख्याय नमः।। ॐ दैत्यघ्ने नमः।। ॐ मुंडभूषिताय नमः।। ॐ बलिभूजे नमः।।

ॐ बलिभूतनाथाय नमः।। ॐ बालाय नमः।। ॐ बालपराक्रमाय नमः।। ॐ सर्वपत्तारणाय नमः।। ॐ दुर्गाय नमः।। ॐ दुष्ट भूषिताय नमः।। ॐ कामिने नमः।। ॐ कलानिधये नमः।। ॐ कांताय नमः।।

ॐ कामिनीवश कृद्वशिने नमः।। ॐ सर्वसिद्धिप्रदाय नमः।। ॐ वैद्याय नमः।। ॐ प्रभवे नमः।। ॐ विष्णवे नमः।।

॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामावली सम्पूर्णम् ॥

॥ इति श्री रुद्रयामले श्री आपदुद्धारक बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् व शतनामावली सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *