श्री ब्रह्मकवचम् || Sri Brahmakavcham
भगवान ब्रह्मा सृष्टि के रचयिता व सृजनकर्ता है प्रस्तुत जगन्मङ्गल नामक श्रीब्रह्मकवचम् के पाठ से जगत में व पाठक के जीवन में खुशियों का सृजन होता है।
श्रीब्रह्मकवचम्
ॐ श्रीब्रह्मणे नमः ।
कवचं श्रृणु चार्वङ्गि जगन्मङ्गलनामकम् ।
पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १॥
परमात्मा शिरः पातु हृदयं परमेश्वरः ।
कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥ २॥
करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।
सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥ ३॥
श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥ ४॥
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।
यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥ ५॥
स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥ ६॥
कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् ।
इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥ ७॥
दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ।
पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८॥
ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९॥
ॐ श्रीब्रह्मणे नमः ।
ॐ श्रीब्रह्मणे नमः ।
ॐ श्रीब्रह्मणे नमः ।
॥ इति श्रीब्रह्मकवचं सम्पूर्णम् ॥