श्री मृत्युञ्जयध्यानम् मंत्र || Sri Mrityunjayadhyanam Mantra

0

श्रीमृत्युञ्जयध्यानम् १

वन्दे मृत्युञ्जयं साम्ब नीलकण्ठं चतुर्भुजम् ।

चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥ १॥

बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् ।

अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥ २॥

महार्हकुण्डलाभूषं हारालकृतवक्षसम् ।

भस्मोद्धूलितसर्वाङ्गं फालनेत्रविराजितम् ॥ ३॥

व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् ।

पार्वत्या सहितं वन्दे सर्वाभीष्टवरप्रदम् ॥ ४॥

इति श्रीमृत्युञ्जयध्यानं सम्पूर्णम् ।

महामृत्युञ्जयध्यानम् २

हस्ताम्भोज-युगस्थ-कुम्भयुगलादुद्धृत्य तोयं शिरः

सिञ्चन्तं करयोर्युगेन दधतं स्वाङ्के सकुम्भौ करौ ।

अक्ष-स्रग्-मृगहस्तमम्बुजगतं मूर्द्धस्थचन्द्रं स्रवत्

पीयूषोऽत्र तनुं भजे स-गिरिजं मृत्युञ्जयं त्र्यम्बकम् ॥ १॥

चन्द्रोद्भासित-मूर्द्धजं सुरपतिं पीयूषपात्रं वहद्

हस्ताब्जेन दधत् सुदिव्यममलं हास्यायपङ्केरुहम् ।

सूर्येन्द्वग्नि-विलोचनं करतले पाशाक्षसूत्राङ्कुशा-

म्भोजं बिभ्रतमक्षयं पशुपतिं मृत्युञ्जयं संस्मरे ॥ २॥

स्मर्त्तव्याखिललोकवर्ति सततं यज्जङ्गमस्थावरं

व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत् सिद्ध्यति ।

यद्वा स्यात् प्रणवत्रिभेदगहनं श्रुत्वा च यद् गीयते

तद्वस्तुस्थिति-सिद्धयेऽस्तु वरदं ज्योतिस्त्रयोत्थं महः ॥ ३॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् ॥ ४॥

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्ति वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ५॥

इति महामृत्युञ्जयध्यानं समाप्तम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *