Sri Venkateshwara Ashtottara Shatanama stotram – श्री वेङ्कटेश्वर अष्टोत्तरशतनाम स्तोत्रम्

0

ध्यानम् ।
श्री वेङ्कटाचलाधीशं श्रियाध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

मुनय ऊचुः ।
सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग ।
येन चाराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १ ॥

भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने ।
इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ।
उवाच मुनिशार्दूलान् श्रूयतामिति वै मुनिः ॥ २ ॥

श्रीसूत उवाच ।
अस्ति किञ्चिन्महद्गोप्यं भगवत्प्रीतिकारकम् ।
पुरा शेषेण कथितं कपिलाय महात्मने ॥ ३ ॥

नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् ।
आदाय हेमपद्मानि स्वर्णदीसम्भवानि च ॥ ४ ॥

ब्रह्मा तु पूर्वमभ्यर्च्य श्रीमद्वेङ्कटनायकम् ।
अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपूजितैः ॥ ५ ॥

स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः ।
भवद्भिरपि पद्मैश्च समर्च्यस्तैश्च नामभिः ॥ ६ ॥

तेषां शेषनगाधीशमानसोल्लासकारिणाम् ।
नाम्नामष्टशतं वक्ष्ये वेङ्कटाद्रिनिवासिनः ॥ ७ ॥

आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् ।
ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ ८ ॥

अर्चयेन्नामभिर्दिव्यैः वेङ्कटेशपदाङ्कितैः ।
नाम्नामष्टशतस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ९ ॥

छन्दोऽनुष्टुप्तथा देवो वेङ्कटेश उदाहृतः ।
नीलगोक्षीरसम्भूतो बीजमित्युच्यते बुधैः ॥ १० ॥

श्रीनिवासस्तथा शक्तिर्हृदयं वेङ्कटाधिपः ।
विनियोगस्तथाऽभीष्टसिद्ध्यर्थे च निगद्यते ॥ ११ ॥

(स्तोत्रम्)
ओं नमो वेङ्कटेशाय शेषाद्रिनिलयाय च ।
वृषदृग्गोचरायाऽथ विष्णवे सततं नमः ॥ १२ ॥

सदञ्जनगिरीशाय वृषाद्रिपतये नमः ।
मेरुपुत्रगिरीशाय सरःस्वामितटीजुषे ॥ १३ ॥

कुमाराकल्पसेव्याय वज्रिदृग्विषयाय च ।
सुवर्चलासुतन्यस्तसैनापत्यभराय च ॥ १४ ॥

रामाय पद्मनाभाय सदावायुस्तुताय च ।
त्यक्तवैकुण्ठलोकाय गिरिकुञ्जविहारिणे ॥ १५ ॥

हरिचन्दनगोत्रेन्द्रस्वामिने सततं नमः ।
शङ्खराजन्यनेत्राब्जविषयाय नमो नमः ॥ १६ ॥

वसूपरिचरत्रात्रे कृष्णाय सततं नमः ।
अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च ॥ १७ ॥

सनकादिमहायोगिपूजिताय नमो नमः ।
देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने ॥ १८ ॥

श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय च ।
शेषपर्वतरूपत्वप्रकाशनपराय च ॥ १९ ॥

सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने ।
मायागूढविमानाय गरुडस्कन्धवासिने ॥ २० ॥

अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ।
अनन्तचरणायाऽथ श्रीशैलनिलयाय च ॥ २१ ॥

दामोदराय ते नित्यं नीलमेघनिभाय च ।
ब्रह्मादिदेवदुर्दर्शविश्वरूपाय ते नमः ॥ २२ ॥

वैकुण्ठागतसद्धेमविमानान्तर्गताय च ।
अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय च ॥ २३ ॥

वासुदेवाय हरये तीर्थपञ्चकवासिने ।
वामदेवप्रियायाऽथ जनकेष्टप्रदाय च ॥ २४ ॥

मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ।
वाक्पतिब्रह्मदात्रे च चन्द्रलावण्यदायिने ॥ २५ ॥

नारायणनगेशाय ब्रह्मक्लुप्तोत्सवाय च ।
शङ्खचक्रवरानम्रलसत्करतलाय च ॥ २६ ॥

द्रवन्मृगमदासक्तविग्रहाय नमो नमः ।
केशवाय नमो नित्यं नित्ययौवनमूर्तये ॥ २७ ॥

अर्थितार्थप्रदात्रे च विश्वतीर्थाघहारिणे ।
तीर्थस्वामिसरस्स्नातजनाभीष्टप्रदायिने ॥ २८ ॥

कुमारधारिकावासस्कन्दाभीष्टप्रदाय च ।
जानुदघ्नसमद्भूतपोत्रिणे कूर्ममूर्तये ॥ २९ ॥

किन्नरद्वन्द्वशापान्तप्रदात्रे विभवे नमः ।
वैखानसमुनिश्रेष्ठपूजिताय नमो नमः ॥ ३० ॥

सिंहाचलनिवासाय श्रीमन्नारायणाय च ।
सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमो नमः ॥ ३१ ॥

कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय च ।
दुर्मेधःप्राणहर्त्रे च श्रीधराय नमो नमः ॥ ३२ ॥

क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ।
पाण्डवारिप्रहर्त्रे च श्रीकराय नमो नमः ॥ ३३ ॥

उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये ।
रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ ३४ ॥

लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे ।
शालग्रामनिवासाय शुकदृग्गोचराय च ॥ ३५ ॥

नारायणार्थिताशेषजनदृग्विषयाय च ।
मृगयारसिकायाऽथ वृषभासुरहारिणे ॥ ३६ ॥

अञ्जनागोत्रपतये वृषभाचलवासिने ।
अञ्जनासुतदात्रे च माधवीयाघहारिणे ॥ ३७ ॥

प्रियङ्गुप्रियभक्षाय श्वेतकोलवराय च ।
नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ ३८ ।

शङ्करप्रियमित्राय चोलपुत्रप्रियाय च ।
सुधर्मिणीसुचैतन्यप्रदात्रे मधुघातिने ॥ ३९ ॥

कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय च ।
वराहाचलनाथाय बलभद्राय ते नमः ॥ ४० ॥

त्रिविक्रमाय महते हृषीकेशाय ते नमः ।
अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ ४१ ॥

नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ।
मुकुन्दाय नमो नित्यमनन्ताय नमो नमः ॥ ४२ ॥

विरिञ्चाभ्यर्थितानीतसौम्यरूपाय ते नमः ।
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ ४३ ॥

हलायुधजगत्तीर्थसमस्तफलदायिने ।
गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ ४४ ॥

अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसाऽन्वितम् ।
यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ ४५ ॥

तस्य श्रीवेङ्कटेशस्तु प्रसन्नो भवति ध्रुवम् ।
अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् ॥ ४६ ॥

वेङ्कटेशाभिधेयैर्यो वेङ्कटाद्रिनिवासिनम् ।
अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ॥ ४६ ॥

गोपनीयमिदं स्तोत्रम् सर्वेषां न प्रकाशयेत् ।
श्रद्धाभक्तियुजामेव दापयेन्नामसङ्ग्रहम् ॥ ४८ ॥

इति शेषेण कथितं कपिलाय महात्मने ।
कपिलाख्यमहायोगिसकाशात्तु मया श्रुतम् ।
तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ ४९ ॥

इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशाष्टोत्तरशतनाम स्तोत्रम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *