Sri Sathya Sai Sharan Panchakam || श्री सत्य शरण पञ्चकम्
दुर्वारदुर्विषहदुःखशताभिघातै- र्दूरार्दितस्य भगवन्, मनसो गतिस्त्वम्। दिष्ट्याद्य दिव्यकरुणावरुणालयं तं त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥१॥ मन्दस्मितातिरमणीयमुखारविन्दं कारुण्यवर्षकमनीयकटाक्षपातम्। शान्तिप्रदं भृशमशान्तहृदन्तराणां त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥२॥...