शिव पदादि केशान्त वर्णन स्तोत्रम् || Shiva Padadi Keshanta Varnan Stotram ||
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-, क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी, कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे...