विनायकाष्टकम् || Vinayaka Ashtakam

0

भगवान विनायक गणपति की कृपा प्राप्ति और सभी अभीष्ट सिद्धि के लिए विनायकाष्टकम् का नित्य पाठ या श्रवण करें ।

विनायकाष्टकम् 1

एकदन्तमीशपुत्रमाखुवाहमीश्वरं

विघ्नसङ्घध्वान्तसूर्यमन्तरायनायकम् ।

अच्युताद्यशेषदेवपूजिताङ्घ्रिपङ्कजं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ १॥

कामरूपधारिणं नागयज्ञसूत्रिणं

कुङ्कुमोत्थकायकान्तिशोभितं वराननम् ।

काञ्चनाभिभास्वरं च वासवादिवन्दितं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ २॥

नन्दिवाहनन्दने सुरेन्द्रनाथवन्दितं

नन्दिभृङ्गिनन्दनाथनारदादिनृत्यकम् ।

नन्दगोपनागराजपूर्वकैर्नमस्कृतं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ३॥

सर्पवेष्टितोदरं च सर्पमालधारिणं

शङ्करादिपूजितं शिवात्मजं सुखात्मकम् ।

सावधानताकरं सरस्वतीप्रदायकं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ४॥

विघ्नमत्तनागसिंहमुग्रनेत्रनासिकं

विघ्नमेघजालनाशकारिचण्डमारुतम् ।

विघ्नदाववह्निवारिवारिवारिवाहकं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ५॥

विघ्नसिन्धुवाडवाग्निमिन्दुखण्डमण्डितं

विघ्नगोपमष्टसिद्धियुक्तभक्तसेवितम् ।

शूर्पकर्णवक्रतुण्डकुम्भगण्डशोभितं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ६॥

दक्षयक्षपक्षिमुख्यरक्षिताङ्घियुग्मकं

भुक्तिमुक्तियुक्तिशान्तियुक्तपूजितं विभुम् ।

देवदेववंशवृद्धिसिद्धिसाधकं मुदा

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ७॥

देवदैत्ययोगिसिद्धचारणाभिसेवितं

सर्पखेटभूजभूतसङ्घसाधुवेष्टितम् ।

ईप्सितार्थदायकं विशेषकर्मकारकं

विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ८॥

श्रीविनायकाष्टकं हि शङ्करेण निर्मितं

शङ्करस्य सौख्यदं भक्तविघ्ननाशकम् ।

ये पठन्ति सादरं समस्तसिद्धिदं स्तवं

ते त्वभीष्टसिद्धिपात्रभावमाप्नुवन्ति शम् ॥ ९॥

इति विनायकाष्टकं सम्पूर्णम् ।

श्रीविनायकाष्टकम् २

नमद्देववृन्दं लसद्वेदकन्दं शिरःश्रीमदिन्दुं श्रितश्रीमुकुन्दम् ।

बृहच्चारुतुन्दं स्तुतश्रीसनन्दं जटाहीन्द्रकुन्दं भजेऽभीष्टसन्दम् ॥ १॥

किलद्देवगोत्रं कनद्धेमगात्रं सदानन्दमात्रं महाभक्तमित्रम् ।

शरच्चन्द्रवक्त्रं त्रयीपूतपात्रं समस्तार्त्तिदात्रं भजे शक्तिपुत्रम् ॥ २॥

गलद्दानमालं चलद्भोगिमालं गलाम्भोदकालं सदा दानशीलम् ।

सुरारातिकालं महेशात्मबालं लसत्पुण्ड्रफालं भजे लोकमूलम् ॥ ३॥

उरस्तारहारं शरच्चन्द्रहीरं सुरश्रीविचारं हृतार्त्तारिभारम् ।

कटे दानपूरं जटाभोगिपूरं कलाबिन्दुतारं भजे शैववीरम् ॥ ४॥

करारूढमोक्षं विपद्भङ्गदक्षं चलत्सारसाक्षं पराशक्तिपक्षम् ।

श्रितामर्त्यवृक्षं सुरारिद्रुतक्षं परानन्दपक्षं भजे श्रीशिवाक्षम् ॥ ५॥

सदाशं सुरेशं सदा पातुमीशं निदानोद्भवं शाङ्करप्रेमकोशम् ।

धृतश्रीनिशेशं लसद्दन्तकोशं चलच्छूलपाशं भजे कृत्तपाशम् ॥ ६॥

ततानेकसन्तं सदा दानवन्तं बुधश्रीकरन्तं गजास्यं विभान्तम् ।

करात्मीयदन्तं त्रिलोककैकवृन्तं सुमन्दं परन्तं भजेऽहं भवन्तम् ॥ ७॥

शिवप्रेमपिण्डं परं स्वर्णवर्णं लसद्दन्तखण्डं सदानन्दपूर्णम् ।

विवर्णप्रभास्यं धृतस्वर्णभाण्डं चलच्चारुशुण्डं भजे दन्तितुण्डम् ॥ ८॥

इति श्रीनारायणगुरुविरचितं श्रीविनायकाष्टकम् सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *