bodhitwa sanghbhawam nashyitwa heenbhawam बोधयित्वा संघभावं नाशयित्वा हीनभावं

0

बोधयित्वा संघभावं नाशयित्वा हीनभावं

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

बोधयित्वा संघभावं नाशयित्वा हीनभावं

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

राष्ट्र्भक्तिम सामरस्यं दक्ष – सम्पत प्रार्थनाभिः

वर्धयित्वा स्वभिमानं पांचजन्यः श्रव्यताम।

दीर्घतपस्या पूर्णमनसा चारुवचसा वीरवृत्या

स्वार्थरहितं ज्ञानसहितं क्षात्रतेजो दर्शयताम। ।

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

वेदवाणी राष्ट्रवाणी धर्मसंस्कृतिमूलगङ्गा।

लोकभाषोज्जीवनार्थं संस्कृतेन हि भाष्यताम

हिन्दूदर्शनजीवभूता संस्कृतिः खलु विश्वमान्या

भवभारत वैभवार्थं सा हि नित्यं सेव्यताम

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

ऐक्यभावं वर्धयित्वा भेदभावं वारयित्वा ,

मातृमंदिर पूजनार्थं नित्यशाखा गम्यताम।

हिन्दुबान्धव स्नेहसहितं सर्वसाधक शक्तिरुपं।।

विश्वमङ्गल शांतिसुखदं हिन्दूराष्ट्रं राजताम। ।

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

बोधयित्वा संघभावं नाशयित्वा हीनभावं

नवशताबधाम कल्युगेस्मिन हिन्दुधर्मो विजयताम। ।

Leave a Reply

Your email address will not be published. Required fields are marked *