अघोर मूर्ति सहस्रनाम स्तोत्रम् || Aghor Murti Sahasranama Stotram

0

इससे पूर्व श्रीरुद्रयामलतन्त्र भैरव भैरवी संवाद के रूप में अघोरस्तोत्रम् व अघोरकवच आपने पढ़ा अब समस्त मनोकामनाओं को सिद्ध करने वाला तथा अत्यन्त गोपनीय अघोरमूर्तिसहस्रनामस्तोत्रम् दिया जा रहा है।

|| अथ अघोरमूर्तिसहस्रनामस्तोत्रम् ||

मूलमन्त्र

ॐ श्रीं ह्रीं क्लीं सौः क्ष्मीं घोर घोराय ज्वल ज्वल
प्रज्वल प्रज्वल अघोरास्त्राय फट् स्वाहा ।

। इति मूलम् ।

श्रीभैरवी उवाच –

भगवन्सर्वधर्मज्ञ विश्वाभयवरप्रद ।
सर्वेश सर्वशास्त्रज्ञ सर्वातीत सनातन ॥ १॥

त्वमेव परमं तत्त्वं त्वमेव परमं पदम् ।
त्वत्तोऽप्यन्यं न पश्यामि सारं सारोत्तमोत्तमम् ॥ २॥

पुराऽस्माकं वरो दत्तो देवदानवसङ्गरे ।
तदद्य कृपया शम्भो वरं नाथ प्रयच्छ मे ॥ ३॥

श्रीभैरव उवाच –

भैरवि प्रेयसि त्वं मे सत्यं दत्तो वरो मया ।
यदद्य मनसाभीष्टं तद्याचस्व ददाम्यहम् ॥ ४॥

श्रीदेवी उवाच –

श्रीशिवः परमात्मा च भैरवोऽघोरसंज्ञकः ।
त्रिगुणात्मा महारुद्रस्त्रैलोक्योद्धरणक्षमः ॥ ५॥

तस्य नामसहस्रं मे वद शीघ्रं कृपानिधे ।
वरमेतन्महादेव देहि सत्यं मदीप्सितम् ।
अस्माद्वरं न याचेऽहं देहि चेदस्ति मे दया ॥ ६॥

श्रीभैरव उवाच –

श्रृणुष्वैकान्तभूदेशे सानौ कैलासभूभृतः ।
देवदानवसङ्ग्रामे यत्ते दत्तो वरो मया ।
वरं तत्ते प्रयच्छामि चान्यद्वरय मे वरम् ॥ ७॥

श्रीदेवी उवाच –

अतः परं न याचेऽहं वरमन्यन्महेश्वर ।
कृपया करुणाम्भोधे वद शीघ्रं सुरार्चित ॥ ८॥

श्रीभैरव उवाच –

तव भक्त्या ब्रवीम्यद्य अघोरस्य महात्मनः ।
नाम्नां सहस्रं परमं त्रैलोक्योद्धरणक्षमम् ॥ ९॥

नातः परतरा विद्या नातः परतरः स्तवः ।
नातः परतरं स्तोत्रं सर्वस्वं मम पार्वति ॥ १०॥

अकारादि क्षकारान्ता विद्यानिधिमनुत्तमम् ।
बीजमन्त्रमयं गोप्यं गोप्तव्यं पशुसङ्कटे ॥ ११॥

|| अघोरमूर्तिसहस्रनामस्तोत्रम् ||

ॐ अस्य श्रीअघोरमूर्तिनामसहस्रस्य श्रीमहाकालभैरव ऋषिः,
पङ्क्ति छन्दः, अघोरमूर्तिः परमात्मा देवता ।
ॐ बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकम् ।
अघोर विद्यासिद्ध्यर्थे जपे पाठे विनियोगः ।

अथ न्यासः –

ह्रां अङ्गुष्ठभ्यां नमः
ह्रीं तर्जनीभ्यां नमः ।
ह्रूँ मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि षडङ्गन्यासः ।

अपि च-

ॐ नमो भगवते अघोराय शूलपाणये स्वाहा हृदयाय नमः ।
रुद्रायामृतमूर्तये मां जीवय जीवय शिरसे स्वाहा ।
नीलकण्ठाय चन्द्रजटिने शिखायै वषट् ।
त्रिपुरान्तकाय कवचाय हुम् ।
त्रिलोचनाय ऋग्यजुःसाममूर्तये नेत्राभ्यां वौषट् ।
रुद्रायाग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष
अघोरास्त्राय हुं फट् स्वाहा । अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः एवं करन्यासः ।
भू र्भुवः स्वरिति दिग्बन्धः ।

अथ ध्यानम् ।

श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये देवं सुधास्रविणमिन्दुकलाधरं च ।
शुद्धाक्षसूत्रकलशामृतपद्महस्तं देवं भजामि हृदये भुवनैकनाथम् ॥

अपि च –

महाकायं महोरस्कं महादंशं महाभुजम् ।
सुधास्यं शशिमौलिं च ज्वालाकेशोर्ध्वबन्धनम् ॥

किङ्किणीमालया युक्तं सर्पयज्ञोपवीतिनम् ।
रक्ताम्बरधरं देवं रक्तमालाविभूषितम् ।
पादकिङ्किणीसञ्च्छन्नं नूपुरैरतिशोभितम् ॥

ध्यानमार्गस्थितं घोरं पङ्कजासनसंस्थितम् ।
भजामि हृदये देवं देवं चाघोरभैरवम् ॥

। इति ध्यानम् ।

अथ मूलमन्त्रः ।

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥

। इति मूलम् ।

|| अघोरमूर्तिसहस्रनामस्तोत्रम् ||

अथ अघोराय नमः ।

ॐ ह्रीं श्रीं क्लीं महारुद्रो ग्लौं ग्लां अघोरभैरवः ।
क्ष्मीं कालाग्निः कलानाथः कालः कालान्तकः कलिः ॥ १॥

श्मशानभैरवो भीमो भीतिहा भगवान्प्रभुः ।
भाग्यदो मुण्डहस्तश्च मुण्डमालाधरो महान् ॥ २॥

उग्रोग्ररवोऽत्युग्र उग्रतेजाश्च रोगहा ।
रोगदो भोगदो भोक्ता सत्यः शुद्धः सनातनः ॥ ३॥

चित्स्वरूपो महाकायो महादीप्तिर्मनोन्मनः ।
मान्यो धन्यो यशस्कर्ता हर्ता भर्त्ता महानिधिः ॥ ४॥

चिदानन्दश्चिदाकारश्चिदुल्लासश्चिदीश्वरः ।
चिन्त्योऽचिन्त्योऽचिन्त्यरूपः स्वरूपो रूपविग्रही ॥ ५॥

भूतेभ्यो भूतिदो भूत्यं भूतात्मा भूतभावनः ।
चिदानन्दः प्रकाशात्मा सनात्माबोधविग्रहः ॥ ६॥

हृद्बोधो बोधवान् बुद्धो बुद्धिदो बुद्धमण्डनः ।
सत्यपूर्णः सत्यसन्धः सतीनाथः समाश्रयः ॥ ७॥

त्रैगुण्यो निर्गुणो गुण्योऽग्रणीर्गुणविवर्जितः ।
सुभावः सुभवः स्तुत्यः स्तोता श्रोता विभाकरः ॥ ८॥

कालकालान्धकत्रासकर्ता हर्ता विभीषणः ।
विरूपाक्षः सहस्राक्षो विश्वाक्षो विश्वतोमुखः ॥ ९॥

चराचरात्मा विश्वात्मा विश्वबोधो विनिग्रहः ।
सुग्रहो विग्रहो वीरो धीरो धीरभृतां वरः ॥ १०॥

शूरः शूली शूलहर्ता शङ्करो विश्वशङ्करः ।
कङ्काली कलिहा कामी हासहा कामवल्लभः ॥ ११॥

कान्तारवासी कान्तास्थः कान्ताहृदयधारणः ।
काम्यः काम्यनिधिः कान्ताकमनीयः कलाधरः ॥ १२॥

कलेशः सकलेशश्च विकलः शकलान्तकः ।
शान्तो भ्रान्तो महारूपी सुलभो दुर्लभाशयः ॥ १३॥

लभ्योऽनन्तो धनाधीनः सर्वगः सामगायनः ।
सरोजनयनः साधुः साधूनामभयप्रदः ॥ १४॥

सर्वस्तुत्यः सर्वगतिः सर्वातीतोऽप्यगोचरः ।
गोप्ता गोप्ततरो गानतत्परः सत्यपरायणः ॥ १५॥

असहायो महाशान्तो महामूर्तो महोरगः ।
महतीरवसन्तुष्टो जगतीधरधारणः ॥ १६॥

भिक्षुः सर्वेष्टफलदो भयानकमुखः शिवः ।
भर्गो भागीरथीनाथो भगमालाविभूषणः ॥ १७॥

जटाजूटी स्फुरत्तेजश्चण्डांशुश्चण्डविक्रमः ।
दण्डी गणपतिर्गुण्यो गणनीयो गणाधिपः ॥ १८॥

कोमलाङ्गोऽपि क्रूरास्यो हास्यो मायापतिः सुधीः ।
सुखदो दुःखहा दम्भो दुर्जयो विजयी जयः ॥ १९॥

जयोऽजयो ज्वलत्तेजो मन्दाग्निर्मदविग्रहः ।
मानप्रदो विजयदो महाकालः सुरेश्वरः ॥ २०॥

अभयाङ्को वराङ्कश्च शशाङ्ककृतशेखरः ।
लेख्यो लिप्यो विलापी च प्रतापी प्रमथाधिपः ॥ २१॥

प्रख्यो दक्षो विमुक्तश्च रुक्षो दक्षमखान्तकः ।
त्रिलोचनस्त्रिवर्गेशः त्रिगुणी त्रितयीपतिः ॥ २२॥

त्रिपुरेशस्त्रिलोकेशस्त्रिनेत्रस्त्रिपुरान्तकः ।
त्र्यम्बकस्त्रिगतिः स्वक्षो विशालाक्षो वटेश्वरः ॥ २३॥

वटुः पटुः परं पुण्यं पुण्यदो दम्भवर्जितः ।
दम्भी विलम्भी विषेभिस्संरम्भी सङ्ग्रही सखा ॥ २४॥

विहारी चाररूपश्च हारी माणिक्यमण्डितः ।
विद्येश्वरो विवादी च वादभेद्यो विभेदवान् ॥ २५॥

भयान्तको बलनिधिर्बलिकः स्वर्णविग्रहः ।
महासीनो विशाखी च पृषट्की पृतनापतिः ॥ २६॥

अनन्तरूपोऽनन्तश्रीः षष्टिभागो विशाम्पतिः ।
प्रांशुः शीतांशुर्मुकुटो निरंशः स्वांशविग्रहः ॥ २७॥

निश्चेतनो जगत्त्राता हरो हरिणसम्भृतः ।
नागेन्द्रो नागत्वग्वासाः श्मशानालयचारकः ॥ २८॥

विचारी सुमतिः शम्भुः सर्वः खर्वोरुविक्रमः ।
ईशः शेषः शशी सूर्यः शुद्धसागर ईश्वरः ॥ २९॥

ईशानः परमेशानः परापरगतिः परम् ।
प्रमोदी विनयी वेद्यो विद्यारागी विलासवान् ॥ ३०॥

स्वात्मा दयालुर्धनदो धनदार्चनतोषितः ।
पुष्टिदस्तुष्टिदस्तार्क्ष्यो ज्येष्ठः श्रेष्ठो विशारदः ॥ ३१॥

चामीकरोच्चयगतः सर्वगः सर्वमण्डनः ।
दिनेशः शर्वरीशश्च सन्मदोन्माददायकः ॥ ३२॥

हायनो वत्सरो नेता गायनः पुष्पसायकः ।
पुण्येश्वरो विमानस्थो विमान्यो विमना विधुः ॥ ३३॥

विधिः सिद्धिप्रदो दान्तो गाता गीर्वाणवन्दितः ।
श्रान्तो वान्तो विवेकाक्षो दुष्टो भ्रष्टो निरष्टकः ॥ ३४॥

चिन्मयो वाङ्मयो वायुः शून्यः शान्तिप्रदोऽनघः ।
भारभृद्भूतभृद्गीतो भीमरूपो भयानकः ॥ ३५॥

तच्चण्डदीप्तिश्चण्डाक्षो दलत्केशः स्खलद्रतिः ।
अकारोऽथ निराकार इलेश ईश्वरः परः ॥ ३६॥

उग्रमूर्तिरुत्सवेश ऊष्मांशुरृणहा ऋणी ।
कल्लिहस्तो महाशूरो लिङ्गमूर्तिर्लसद्दृशः ॥ ३७॥

लीलाज्योतिर्महारौद्रो रुद्ररूपो जनाशनः ।
एणत्वगासनो धूर्त्तो धूलिरागानुलेपनः ॥ ३८॥

ऐं वीजामृतपूर्णाङ्गः स्वर्णाङ्गः पुण्यवर्धनः ।
ॐकारोकाररूपश्च तत्सर्वो अङ्गनापतिः ॥ ३९॥

अःस्वरूपो महाशान्तः स्वरवर्ण विभूषणः ।
कामान्तकः कामदश्च कालीयात्मा विकल्पनः ॥ ४०॥

कलात्मा कर्कशाङ्गश्च काराबन्धविमोक्षदः ।
कालरूपः कामनिधिः केवलो जगताम्पतिः ॥ ४१॥

कुत्सितः कनकाद्रिस्थः काशीवासः कलोत्तमः ।
कामी रामाप्रियः कुन्तः कवर्णाकृतिरात्मभूः ॥ ४२॥

खलीनः खलताहन्ता खेटेशो मुकुटाधरः ।
खं खड्गेशः खगधरः खेटः खेचरवल्लभः ॥ ४३॥

खगान्तकः खगाक्षश्च खवर्णामृतमज्जनः ।
गणेशो गुणमार्गेयो गजराजेश्वरो गणः ॥ ४४॥

अगुणः सगुणो ग्राम्यो ग्रीवालङ्कारमण्डितः ।
गूढो गूढाशयो गुप्तो गणगन्धर्वसेवितः ॥ ४५॥

घोरनादो घनश्यामो घूर्णात्मा घुर्घराकृतिः ।
घनवाहो घनेशानो घनवाहनपूजितः ॥ ४६॥

घनः सर्वेश्वरो जेशो घवर्णत्रयमण्डनः ।
चमत्कृतिश्चलात्मा च चलाचलस्वरूपकः ॥ ४७॥

चारुवेशश्चारुमूर्तिश्चण्डिकेशश्चमूपतिः ।
चिन्त्योऽचिन्त्यगुणातीतश्चितारूपः चिताप्रियः ॥ ४८॥

चितेशश्चेतनारूपश्चिताशान्तापहारकः ।
छलभृच्छलकृच्छत्री छत्रिकश्छलकरकः ॥ ४९॥

छिन्नग्रीवः छिन्नशीर्षः छिन्नकेशः छिदारकः ।
जेता जिष्णुरजिष्णुश्च जयात्मा जयमण्डलः ॥ ५०॥

जन्महा जन्मदो जन्यो वृजनी जृम्भणो जटी ।
जडहा जडसेव्यश्च जडात्मा जडवल्लभः ॥ ५१॥

जयस्वरूपो जनको जलधिर्ज्वरसूदनः ।
जलन्धरस्थो जनाध्यक्षो निराधिराधिरस्मयः ॥ ५२॥

अनादिर्जगतीनाथो जयश्रीर्जयसागरः ।
झङ्कारी झलिनीनाथः सप्ततिः सप्तसागरः ॥ ५३॥

टङ्कारसम्भवो टाणुः टवर्णामृतवल्लभः ।
टङ्कहस्तो विटङ्कारो टीकारो टोपपर्वतः ॥ ५४॥

ठकारी च त्रयः ठः ठः स्वरूपो ठकुरोबली ।
डकारी डकृतीडम्बडिम्बानाथो विडम्बनः ॥ ५५॥

डिल्लीश्वरो हि डिल्लाभो डङ्काराक्षर मण्डनः ।
ढवर्णी दुल्लियज्ञेशो ढम्बसूची निरन्तकः ॥ ५६॥

णवर्णी शोणिनोवासो णरागी रागभूषणः ।
ताम्रापस्तपनस्तापी तपस्वी तपसां निधिः ॥ ५७॥

तपोमयस्तपोरूपस्तपसां फलदायकः ।
तमीश्वरो महाताली तमीचरक्षयङ्करः ॥ ५८॥

तपोद्योतिस्तपोहीनो वितानी त्र्यम्यबकेश्वरः ।
स्थलस्थः स्थावरः स्थाणुः स्थिरबुद्धिः स्थिरेन्द्रियः ॥ ५९॥

स्थिरङ्कृती स्थिरप्रीतिः स्थितिदः स्थितिवांस्तथा ।
दम्भी दमप्रियो दाता दानवो दानवान्तकः ॥ ६०॥

धर्माधर्मो धर्मगतिर्धनवान्धनवल्लभः ।
धनुर्धरो धनुर्धन्यो धीरेशो धीमयो धृतिः ॥ ६१॥

धकारान्तो धरापालो धरणीशो धराप्रियः ।
धराधरो धरेशानो नारदो नारसोरसः ॥ ६२॥

सरसो विरसो नागो नागयज्ञोपवीतवान् ।
नुतिलभ्यो नुतीशानो नुतितुष्टो नुतीश्वरः ॥ ६३॥

पीवराङ्ग पराकारः परमेशः परात्परः ।
पारावारः परं पुण्यं परामूर्तिः परं पदम् ॥ ६४॥

परोगम्यः परन्तेजः परंरूपः परोपकृत् ।
पृथ्वीपतिः पतिः पूतिः पूतात्मा पूतनायकः ॥ ६५॥

पारगः पारदृश्वा च पवनः पवनात्मजः ।
प्राणदोऽपानदः पान्थः समानव्यानदो वरम् ॥ ६६॥

उदानदः प्राणगतिः प्राणिनां प्राणहारकः ।
पुंसां पटीयान्परमः परमं स्थानकः पविः ॥ ६७॥

रविः पीताननः पीठं पाठीनाकृतिरात्मवान् ।
पत्री पीतः पवित्रं च पाठनं पाठनप्रियः ॥ ६८॥

पार्वतीशः पर्वतेशः पर्वेशः पर्वघातनः ।
फणी फणिद ईशानः फुल्लहस्तः फणाकृतिः ॥ ६९॥

फणिहारः फणिमूर्तिः फेनात्मा फणिवल्लभः ।
बली बलिप्रियो बालो बालालापी बलन्धरः ॥ ७०॥

बालको बलहस्तश्च बलिभुग्बालनाशनः ।
बलिराजो बलङ्कारी बाणहस्तोऽर्धवर्णभृत् ॥ ७१॥

भद्री भद्रप्रदो भास्वान्भामयो भ्रमयोनयः ।
भव्यो भावप्रियो भानुर्भानुमान्भीमनन्दकः ॥ ७२॥

भूरिदो भूतनाथश्च भूतलं सुतलं तलम् ।
भयहा भावनाकर्ता भवहा भवघातकः ॥ ७३॥

भवो विभवदो भीतो भूतभव्यो भवप्रियः ।
भवानीशो भगेष्टश्च भगपूजनपोषणः ॥ ७४॥

मकुरो मानदो मुक्तो मलिनो मलनाशनः ।
मारहर्ता महोधिश्च महस्वी महतीप्रियः ॥ ७५॥

मीनकेतुर्महामारो महेष्वा मदनान्तकः ।
मिथुनेशो महामोहो मल्लो मल्लान्तको मुनिः ॥ ७६॥

मरीचिः रुचिमान्योगी मञ्जुलेशोऽमराधिपः ।
मर्दनो मोहमर्दी च मेधावी मेदिनीपतिः ॥ ७७॥

महीपतिः सहस्रारो मुदितो मानवेश्वरः ।
मौनी मौनप्रियो मासः पक्षी माधव इष्टवान् ॥ ७८॥

मत्सरी मापतिर्मेषो मेषोपहारतोषितः ।
माणिक्यमण्डितो मन्त्री मणिपूरनिवासकः ॥ ७९॥

मन्दमुन्मदरूपश्च मेनकी प्रियदर्शनः ।
महेशो मेघरूपश्च मकरामृतदर्शनः ॥ ८०॥

यज्ज्वा यज्ञप्रियो यज्ञो यशस्वी यज्ञभुग्युवा ।
योधप्रियो यमप्रियो यामीनाथो यमक्षयः ॥ ८१॥

याज्ञिको यज्ञमानश्च यज्ञमूर्तिर्यशोधरः ।
रविः सुनयनो रत्नरसिको रामशेखरः ॥ ८२॥

लावण्यं लालसो लूतो लज्जालुर्ललनाप्रियः ।
लम्बमूर्तिविलम्बी च लोलजिह्वो लुलुन्धरः ॥ ८३॥

वसुदो वसुमान्वास्तुवाग्भवो वटुको वटुः ।
वीटीप्रियो विटङ्की च विटपी विहगाधिपः ॥ ८४॥

विश्वमोदी विनयदो विश्वप्रीतो विनायकः ।
विनान्तको विनांशको वैमानिको वरप्रदः ॥ ८५॥

शम्भुः शचीपतिः शारसमदो वकुलप्रियः ।
शीतलः शीतरूपश्च शावरी प्रणतो वशी ॥ ८६॥

शीतालुः शिशिरः शैत्यः शीतरश्मिः सितांशुमान् ।
शीलदः शीलवान् शाली शालीनः शशिमण्डनः ॥ ८७॥

शण्डः शण्टः शिपिविष्टः षवर्णोज्ज्वलरूपवान् ।
सिद्धसेव्यः सितानाथः सिद्धिकः सिद्धिदायकः ॥ ८८॥

साध्यो सुरालयः सौम्यः सिद्धिभूः सिद्धिभावनः ।
सिद्धान्तवल्लभः स्मेरः सितवक्त्रः सभापतिः ॥ ८९॥

सरोधीशः सरिन्नाथः सिताभश्चेतनासमः ।
सत्यपः सत्यमूर्तिश्च सिन्धुराजः सदाशिवः ॥ ९०॥

सदेशः सदनासूरिः सेव्यमानः सताङ्गतिः ।
सताम्भाव्यः सदानाथः सरस्वान्समदर्शनः ॥ ९१॥

सुसन्तुष्टः सतीचेतः सत्यवादी सतीरतः ।
सर्वाराध्यः सर्वपतिः समयी समयः स्वयम् ॥ ९२॥

स्वयम्भूः स्वयमात्मीयः स्वयम्भावः समात्मकः ।
सुराध्यक्षः सुरपतिः सरोजासनसेवकः ॥ ९३॥

सरोजाक्षनिषेव्यश्च सरोजदललोचनः ।
सुमतिः कुमतिः स्तुत्यः सुरनायकनायकः ॥ ९४॥

सुधाप्रियः सुधेशश्च सुधामूर्तिः सुधाकरः ।
हीरको हीरवांश्चैव हेतुः हाटकमण्डनः ॥ ९५॥

हाटकेशो हठधरो हरिद्रत्नविभूषणः ।
हितकृद्धेतुभूतश्च हास्यदो हास्यवक्त्रकः ॥ ९६॥

हारो हारप्रियो हारी हविष्मल्लोचनो हरिः ।
हविष्मान्हविभुग्वाद्यो हव्यं हविर्भुजां वरः ॥ ९७॥

हंसः परमहंसश्च हंसीनाथो हलायुधः ।
हरिदश्वो हरिस्तुत्यो हेरम्बो लम्बितोदरः ॥ ९८॥

क्षमापतिः क्षमः क्षान्तः क्षुराधारोऽक्षिभीमकः ।
क्षितिनाथः क्षणेष्टश्च क्षणवायुः क्षवः क्षतः ॥ ९९॥

क्षीणश्च क्षणिकः क्षामः क्षवर्णामृतपीठकः ।
अकारादि क्षकारान्ता विद्यामालाविभूषणः ॥ १००॥

स्वर व्यञ्जन भूषाढ्यो ह्रस्व दीर्घ विभूषणः ।
ॐ क्ष्मृं महाभैरवेशी ॐ श्रीं भैरवपूर्वकः ॥ १०१॥

ॐ ह्रीं वटुकभावेशो ॐ ह्रीं वटुकभैरवः ।
ॐ क्लीं श्मशानवासी च ॐ ह्रीं श्मशानभैरवः ॥ १०२॥

मैं भद्रकालिकानाथः क्लीं ॐ ह्रीं कालिकापतिः ।
ऐं सौः क्लीं त्रिपुरेशानो ॐ ह्रीं ज्वालामुखीपतिः ॥ १०३॥

ऐं क्लीं सः शारदानाथो ॐ ह्रीं मार्तण्डभैरवः ।
ॐ ह्रीं सुमन्तुसेव्यश्च ॐ श्रीं ह्रीं मत्तभैरवः ॥ १०४॥

ॐ श्रीं उन्मत्तचित्तश्च ॐ श्रीं उं उग्रभैरवः ।
ॐ श्रीं कठोरदेशश्च ॐ श्रीं ह्रीं कठोरभैरवः ॥ १०५॥

ॐ श्रीं कामान्धकध्वंसी ॐ श्रीं कामान्धभैरवः ।
ॐ श्रीं अष्टस्वरश्चैव ॐ श्रीं अष्टकभैरवः ॥ १०६॥

ॐ श्रीं ह्रीं अष्टमूर्तिश्च ॐ श्रीं चिन्मूर्तिभैरवः ।
ॐ ह्रीं हाटकवर्णश्च ॐ ह्रीं हाटकभैरवः ॥ १०७॥

ॐ श्रीं शशाङ्क वदनः ॐ श्रीं शीतलभैरवः ।
ॐ श्रीं शिवारुतश्चैव ॐ श्रीं शारूकभैरवः ॥ १०८॥

ॐ श्रीं अहंस्वरूपश्च ॐ ह्रीं श्रीमुण्डभैरवः ।
ॐ श्रीं मनोन्मनश्चैव ॐ श्रीं मङ्गलभैरवः ॥ १०९॥

ॐ श्रीं बुद्धिमयश्चैव ॐ श्रीं भैम्बुद्धभैरवः ।
ॐ श्रीं ऐं क्लीं नागमूर्तिः ॐ श्रीं ह्रीं नागभैरवः ॥ ११०॥

ॐ श्रीं क्लीं कूर्ममूर्तिश्च ॐ श्रीं कृकरभैरवः ।
ॐ ह्रीं श्रीं देवदत्तश्च ॐ श्रीं क्लीं दत्तभैरवः ॥ १११॥

ॐ ह्रीं धनञ्जयश्चैव ॐ श्रीं धनिकभैरवः ।
ॐ श्रीं ह्रीं रसरूपश्च ॐ श्रीं रसिकभैरवः ॥ ११२॥

ॐ श्रीं स्पर्शरूपश्च ॐ श्रीं ह्रीं स्पर्शभैरवः ।
ॐ श्रीं ह्रीं क्लीं स्वरूपश्च ॐ श्रीं ह्रीं रूपभैरवः ॥ ११३॥

ॐ श्रीं सत्त्वमयश्चैव ॐ श्रीं ह्रीं सत्त्वभैरवः ।
ॐ श्रीं रजोगुणात्मा च ॐ श्रीं राजसभैरवः ॥ ११४॥

ॐ श्रीं तमोमयश्चैव ॐ श्रीं तामसभैरवः ।
ॐ श्रीं धर्ममयश्चैव ॐ हीं वै धर्मभैरवः ॥ ११५॥

ॐ श्रीं ह्रीं मध्यचैतन्यो ॐ श्रीं चैतन्यभैरवः ।
ॐ श्रीं ह्रीं क्षितिमूर्तिश्च ॐ ह्रीं क्षात्रिकभैरवः ॥ ११६॥

ॐ श्रीं ह्रीं जलमूर्तिश्च ॐ ह्रीं जलेन्द्रभैरवः ।
ॐ श्रीं पवनमूर्तिश्च ॐ ह्रीं पीठकभैरवः ॥ ११७॥

ॐ श्रीं हुताशमूर्तिश्च ॐ ह्रीं हालाखभैरवः ।
ॐ श्रीं ह्रीं सोममूर्तिश्च ॐ श्रीं ह्रीं सौम्यभैरवः ॥ ११८॥

ॐ श्रीं ह्रीं सूर्यमूर्तिश्च ॐ श्रीं सौरेन्द्रभैरवः ।
ॐ जूं सः हंसरूपश्च हं सः जुं ॐ मृत्यञ्जयः ।
ॐ चत्वारिंशदधिको ॐ श्रीं अघोरभैरवः ॥ ११९॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ १२०॥

भैरवेशोऽभयवरदाता देवजनप्रियः ।
ॐ श्रीं ह्रीं क्लीं क्ष्म्युं देवी वै अघोरदर्शनः ॥ १२१॥

ॐ श्रीं सौन्दर्यवान्देवो ॐ अघोरकृपानिधिः ।
सहस्रनाम इति नाम्नां सहस्रं तु अघोरस्य जगत्प्रभुः ॥ १२२॥

तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् ।
अप्रकाश्यमदातव्यं गोप्तव्यं शरजन्मनः ॥ १२३॥

बल्यं बलप्रदं स्तुत्यं स्तवनीयं स्तवोत्तमम् ।
पठेद्वा पाठयेन्नित्यं ध्यायेच्चेतसि नित्यशः ॥ १२४॥

अद्रष्टव्यमदीक्षाय गोप्तव्यं पशुसङ्कटे ।
नातः परतरं किञ्चित्सर्वस्वं नास्ति मे हृदि ॥ १२५॥

पुण्यदं पुण्यमात्मीयं सकलं निष्कलं परम् ।
पठेन्मन्त्री निशीथे तु नग्नः श्रीमुक्तकुन्तलः ॥ १२६॥

अनन्तं चित्सुधाकारं देवानामपि दुर्लभम् ।
शक्त्या युक्तो जपेन्नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १२७॥

तत्क्षणात्साधकः सत्यं जीवन्मुक्तो भविष्यति ।
भौमेऽर्क शनिवारे तु श्मशाने साधकः पठेत् ॥ १२८॥

सद्यस्तस्य स्वयं देवो वरदस्तु भविष्यति ।
दशावर्त्तं पठेद्रात्रौ नदीतीरेषु धैर्यवान् ॥ १२९॥

तस्य हस्ते सदा सन्ति त्र्यम्बकस्याष्टसिद्धयः ।
मध्याहे शिवरात्रौ च निशीथे विविधे पठेत् ॥ १३०॥

इन्द्रादयः सुरगणा वशमेष्यन्ति नान्यथा ।
गुरौ ब्राह्ममुहूर्ते तु पठेद्भक्त्या च साधकः ॥ १३१॥

यावदिन्द्रः सभामध्ये तदग्रे मूकवत् भवेत् ।
शुक्रे नद्या जले मन्त्री पठेन्नाम्नां सहस्रकम् ॥ १३२॥

तदाप्रभृति त्रैलोक्यं मोहमेष्यति नान्यथा ।
भौमे वनान्तरे मन्त्री पठेत्सन्ध्यानिधौ तदा ॥ १३३॥

शत्रुः कालसमानोऽपि मृत्युमेष्यति नान्यथा ।
त्रिसन्ध्योदयकाले तु पठेत्साधकसत्तमः ॥ १३४॥

रम्भाद्यप्सरसः सर्वा वशमायान्ति तत्क्षणात् ।
भौमे मध्याह्नसमये पठेच्च कूपसन्निधौ ॥ १३५॥

सद्यो देवि महान्तं कारिपुमुच्चाटयेद्ध्रुवम् ।
सद्यस्त्रिवारं पठेन्नाम्नां सहस्रमुत्तमम् ॥ १३६॥

इहलोके भवेद्भोगी परे मुक्तिर्भविष्यति ।
अर्कवारे समालिख्य भूर्जत्वचि च साधकः ॥ १३७॥

कुङ्कुमालक्तकस्तूरी गोरोचन मनःशिलाः ।
सर्वाद्यैर्वसुभिर्मन्त्री वेष्टयेत्ताम्ररज्जुना ॥ १३८॥

धारयेन्मूर्ध्नि सद्यस्तु लभेत्कामान्यथेप्सितान् ।
पुत्रान्दारांश्च लक्ष्मीं च यशो धर्मं धनानि च ॥ १३९॥

लभते नात्र संशयः सत्यमेतद्वचो मम ।
विनानेन महादेवि पठेद्यः कवचं शुभम् ॥ १४०॥

तस्य जीवं धनं पुत्रान् दारान्भक्षन्ति राक्षसाः ।
विनानेन जपेत् विद्यामघोरस्य च साधकः ॥ १४१॥

तस्य कोटि जपं व्यर्थं सत्यमेतद्वचो मम ।
बहुनात्र किमुक्तेन सहस्राख्यं स्तवोत्तमम् ॥ १४२॥

यद्गृहे वा जपेद्यस्तु श्रावयेद्वा श्रृणोति यः ।
स स्वयं नीलकण्ठोऽहं तत्कलत्रं महेश्वरी ॥ १४३॥

इदं रहस्यं परमं भक्त्या तव मयोदितम् ।
अत्यन्तदुर्लभं नाके तथात्यन्तं महीतले ॥ १४४॥

भूमौ च दुर्लभं देवि गोपनीयं दुरात्मनः ।
अघोरस्य महादेवि तत्त्वं परमतत्त्वकम् ॥ १४५॥

अतीव मधुरं हृद्यं परापररहस्यकम् ।
विना बलिं विना पूजां न रक्ष्यः साधकोत्तमः ॥ १४६॥

पठनीयं दिवारात्रौ सिद्धयोऽष्टौ भवन्ति हि ।
इदं रहस्यं परमं रहस्यातिरहस्यकम् ॥ १४७॥

अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने ।
यथेष्टफलदं सद्यः कलौ शीघ्रफलप्रदम् ॥ १४८॥

गोप्यं गुप्ततरं गूढं गुप्तं पुत्राय पार्वति ।
गोपनीयं सदागोप्यं गोप्तव्यं च स्वयोनिवत् ॥ १४९॥

इति श्रीरुद्रयामले तन्त्रे भैरव-भैरवी संवादे अघोरमूर्तिसहस्रनामस्तवः सम्पूर्णः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *