भद्रकाली सहस्रनाम स्तोत्रम् || Bhadrakali Sahasranama Stotram

0

माँ भद्रकाली की प्रसन्नता,नित्य कल्याण लाभार्थ व माँ का आशीर्वाद प्राप्त करने के लिए श्री भद्रकाली मन्त्रनामसहस्रनामस्तोत्रम् पाठ करें ।

|| श्री भद्रकाली मन्त्रनाम सहस्रनाम स्तोत्रम् ||

श्रीगणेशाय नमः ।

श्रीदेव्युवाच ।
श्रीशम्भो करुणासान्द्र जगज्जीवनकारण ।
मन्त्रगर्भंपुरानाम्नां सहस्रं कथितं त्वया ।
भद्रकाल्या महेशान तन्मे व्याख्यातुमर्हसि ॥

श्रीभैरवोवाच ।
श्रृणु देवि प्रवक्ष्यामि मन्त्रनामसहस्रकम् ।
भद्रकाल्या कलौ गोप्यं जीवन्मुक्तैकसाधनम् ॥
अस्य नाम्नां सहस्रस्य ऋषिर्बटुकभैरवः ।
छन्दोनुष्टुप् समाख्यातो देवता भद्रकालिका ॥
क्रीं बीजं हूं शक्तिस्यात्स्वाहा कीलकमुच्यते ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥

|| भद्रकाली मन्त्रनाम सहस्रनामस्तोत्रम् ||

ॐ अस्य श्री भद्रकाली मन्त्रनामसहस्रस्य बटुकभैरवऋषिः
अनुष्टुप् छन्दः भैंभद्रकाली देवता क्रीं बीजं हूं शक्तिः
स्वाहा कीलकं धर्मार्थकाममोक्षार्थे सहस्रनाम पाठे विनियोगः ॥

अथ ध्यानम् ।

क्रीङ्कारोद्भासितास्या मुदित शशिकला शेखरां प्रेतवाहाम् ।
हूङ्कारोद्भासिताक्षीं शिवप्रभृतिसुरैः सेवितां मद्यमत्ताम् ॥

ह्रीं ह्रीं भैं लालयन्तीं प्रहसित वदनां सीधुपात्रं वहन्तीम् ।
भैं ह्रीं हूं वह्निकान्ताक्षर सहितरसां भद्रकालीं स्मरामि ॥

ॐ क्रीं काली क्रीं ह्सौः स्वाहा क्रीं कुब्जा क्रीं कनीयसीम् ।
क्रीं हूं ह्रीं कोटराक्षी च क्रीं क्रीं क्रीं कुलदेवता ॥ १॥

ऐं क्लीं सौः कौलिनी स्वाहा ऐं सौः क्लीं कुलशेखरा ।
ॐ ह्रीं श्रीं कोमलाङ्गी च ऐं क्रीं हूं कोमलालका ॥ २॥

क्रीं हूं ह्रीं कोशदा स्वाहा ऐं क्रीं भैं कुलकौलिनी ।
ॐ ह्रीं क्रूं क्रूरभाषा च ॐ ह्रीं क्रीं ऐं कपालिनी ॥ ३॥

ॐ क्रीं श्रीं हूं ह्सौः काम्या क्रीं क्रीं क्रीं कामचारिणी ।
ॐ ह्रां ऐं सौः कुरूपाक्षी ॐ क्रीं कालक्षयङ्करी ॥ ४॥

हूं ह्रीं कमलपत्राक्षी ॐ क्रीं श्रीं कमलप्रिया ।
क्रीं भैं कादम्बरी स्वाहा क्रीं श्रीं कामविवर्धिनी ॥ ५॥

ऐं क्रीं हूं कुरुकुल्ला च क्रीं हूं ह्रीं कान्तरूपिणी ।
ॐ श्रीं कनकवर्णाभा ऐं क्लीं सौः काञ्चनाङ्गदा ॥ ६॥

क्रीं हूं क्रीं कामिनी स्वाहा क्रीं क्रैं कामक्षयङ्करी ।
ॐ ह्रीं श्रीं क्रीं क्ष्म्यूं स्वाहाकारा बन्धनमोक्षदा ॥ ७॥

क्रों श्रीं कोशवती स्वाहा ऐं क्लीं कमलवासिनी ।
क्रीं क्रीं कामुकसेव्या च क्रीं काशीजनवन्दिता ॥ ८॥

क्रीं हूं कुङ्कुमलिप्ताङ्गी क्रीं श्रीं क्रोधितमानसा ।
ॐ क्रों श्रीं हूं च कोशस्था क्रीं क्रैं क्रूं क्रौं कलावती ॥ ९॥

ॐ श्रीं ह्रीं श्रीं क्रीं कठोराङ्गी ॐ क्रीं क्रव्यादघातिनी ।
ॐ क्रीं कामारिगात्रस्था क्रीं कामारिक्षयङ्करी ॥ १०॥

ऐं क्लीं कृष्णाम्बरा स्वाहा हूं क्रीं ह्रीं कृष्णसेविता ।
ॐ क्रीं कात्यायनी स्वाहा ॐ क्रीं ह्रीं कलिनाशिनी ॥ ११॥

ॐ क्रीं हूं भैं कलाधारा हूं कलानिधिशेखरा ।
ऐं क्लीं सौः कामदास्वाहा ॐ क्रीं कुट्मलकेलिता ॥ १२॥

ॐ क्रीं कुमुदपत्राक्षी क्रीं हूं कुमुदसेविता ।
क्रीं श्रीं कुमारजननी ॐ क्लीं कारुण्यरूपिणी ॥ १३॥

ॐ श्रीं ह्रीं क्रीं च कामेशी ॐ ह्रीं श्रीं केशवार्चिता ।
ॐ क्रीं कलङ्करहिता क्रीं कुन्तीं क्रीं कुलोद्गता ॥ १४॥

क्रीं श्रीं कृत्यम्बरा स्वाहा क्रीं हूं केसरिवाहना ।
ॐ ह्रीं श्रीं क्रीं ह्सौः हूं ह्रीं काञ्चीयुक्तनितम्बिनी ॥ १५॥

क्रीं हूं ह्रीं कीर्तिदा स्वाहा क्रीं श्रीं केयुरभास्वरा ।
ॐ क्रीं हूं ह्रीं च कौशाम्बी क्रीं श्रीं ऐं क्लीं च कौमुदी ॥ १६॥

ॐ क्रीं हूं कामना स्वाहा क्रों कृतान्तनिषेविता ।
क्रीं श्रीं ऐं कोशनम्राङ्गी क्रीं हूं ह्रीं क्रौञ्चवाहना ॥ १७॥

ॐ श्रीं केनाशभयदा क्रां कपर्दि भयापहा ।
क्रीं श्रीं ऐं सौः क्लूं हूं भैं कमलासनसेविता ॥ १८॥

ककारभूषिततनुः ॐ क्रीं हूं ह्रीं क्लूं पयः ।
ॐ श्रीं ऐं खड्गिनी स्वाहा ॐ श्रीं ख्रीं खगगामिनी ॥ १९॥

ॐ श्रीं ख्रीं खलहन्त्री च ख्रीं श्रीं ह्रीं खगलोचना ।
ॐ ह्रीं म्लूं खेचरी स्वाहा ॐ श्रीं खद्योतरूपिणी ॥ २०॥

ॐ ऐं सौः सर्वदा स्वाहा ॐ श्रीं सकलदायिनी ।
ऐं क्लीं सर्पार्चिता स्वाहा सौः क्लीं सर्पोपवीतिनी ॥ २१॥

श्रीं क्लीं ऐं वेदविद्या च ऐं सौः क्लीं वरवर्णिनी ।
ॐ श्रीं ह्रीं वर्तदा स्वाहा ॐ ह्रीं सर्वसमाश्रया ॥ २२॥

ऐं क्लीं सत्यवती स्वाहा सौः क्लीं श्रीं सरसा पयः ।
ॐ ऐं सौः सत्यभामा च ॐ जुं सः सनातनी ॥ २३॥

ॐ श्रीं सौः सत्यसङ्घा च ॐ श्रीं सीतापतिप्रिया ।
ॐ ऐं सौः सुन्दरी स्वाहा ऐं सौः सुन्दरवल्लभा ॥ २४॥

ॐ श्रीं सरोजपत्रस्था ॐ ऐं सौः क्लीं सर्वसुरप्रिया ।
ह्सौः सत्यगमा ह्रीं श्रीं क्रीं हूं क्रौं ह्रीं मदालसा ॥ २५॥

ॐ क्रीं ऐं सौः ब्लूं साध्वी ॐ ह्रीं क्रीं साधुजनप्रिया ।
ॐ श्रीं मनोरमाङ्गी च ऐं सौः क्लीं सुन्दराङ्गदा ॥ २६॥

ॐ श्रीं ऐं सौः सती स्वाहा ॐ श्रीं शङ्करवल्लभा ।
ॐ ह्रीं क्लीं सनया स्वाहा ऐं सौः स्वेदोन्मुखी पयः ॥ २७॥

ॐ श्रीं सूर्यसहस्राभा ऐं सौः क्लीं सत्यवादिनी ।
ॐ श्रीं सत्यात्मिका स्वाहा ऐं सौः सर्वजनप्रिया ॥ २८॥

ॐ श्रीं ऐं सौः स्मितास्या च ॐ श्रीं ऐं सौः सिताम्बरा ।
ॐ श्रीं ऐं सर्वकर्त्री च ऐं सौः शुम्भनिसूदिनी ॥ २९॥

ॐ श्रीं साडम्बरा स्वाहा ॐ सौः सत्यपरायणा ।
ॐ श्रीं सर्वप्रदा स्वाहा श्रीं ह्रीं श्रीं सत्यसङ्गरा ॥ ३०॥

ॐ श्रीं ऐं सर्वहर्त्री च ॐ ऐं सौः सर्वमङ्गला ।
ॐ श्रीं श्वेतप्रिया स्वाहा ऐं सौः शार्दूलगामिनी ॥ ३१॥

ॐ ह्रीं श्रीं शान्तिदा श्रीं क्लीं हूं हूं शम्भुनिषेविता ।
ॐ ह्रीं ऐं शिवदा स्वाहा श्रीं ह्रीं श्रीं शारिका पयः ॥ ३२॥

ॐ श्रीं ऐं क्लीं च शर्वाणी ॐ श्रीं शाखा ह्सौः शिखा ।
ॐ श्रीं श्रूं शिखिशिखानेत्रा ॐ ह्रीं ऐं शिखिविष्टरा ॥ ३३॥

ॐ श्रीं श्रैं श्लिष्टविद्या च ॐ श्रीं ऐं शिशुपालिनी ।
ॐ श्रीं ऐं शूर्परी ऐं सौः शूर्पकर्णसमर्चिता ॥ ३४॥

ॐ श्रीं शिवा ह्सौः क्लीं क्लीं शिववामाङ्गवासिनी ।
ॐ श्रीं श्रूं सीधुमत्ता च श्रीं क्लीं सः सीधुपायिनी ॥ ३५॥

ॐ जुं सः शीतलाङ्गी च श्रीं हूं क्रीं शीघ्रगामिनी ।
श्रीं श्रीं श्यामाम्बरा स्वाहा श्रीं श्यामा श्रीं शवासना ॥ ३६॥

ॐ क्रीं गीं गोपवत्सा च ॐ क्लीं कौशिकसेविता ।
ॐ क्लीं कान्तिश्च क्रीं कुल्ला क्रौं कान्तारभुजप्रिया ॥ ३७॥

ॐ श्रीं शङ्का ह्सौः शिष्टा ॐ श्रीं शर्मप्रदायिनी ।
ॐ क्लीं श्रीं शङ्खहस्ता च ॐ श्रीं वं वेणूवादिनी ॥ ३८॥

श्रीं श्रीं ऐं ऐं ह्सौः क्लीं सः शम्बरारिमदातुरा ।
ॐ ऐं सौः सुरसेव्या च ऐं क्लीं सीरध्वजाश्रिता ॥ ३९॥

ॐ श्रीं ऐं क्लीं ह्सौः क्रीं हूं सुरापानपरायणा ।
ॐ श्रीं सर्वसहा स्वाहा ॐ श्रीं सारोत्तमोत्तमा ॥ ४०॥

ॐ श्रीं ॐ उत्तमा ॐ ॐ ओङ्कारप्रणवात्मिका ।
ॐ प्रीं प्रत्यङ्गिरा स्वाहा ॐ श्रीं पर्वतनन्दिनी ॥ ४१॥

ॐ प्रीं पर्वतपक्षघ्नी ॐ प्रीं पीताम्बरप्रिया ।
ॐ श्रीं प्रीं पाशहस्ता च ॐ प्रीं पट्टिसधारिणी ॥ ४२॥

ॐ श्रीं पूतासुगन्धाढ्या ॐ प्रीं पद्मावती पयः ।
ॐ प्रीं पतिव्रता स्वाहा प्रीं श्रीं पानपरायणा ॥ ४३॥

ॐ श्रीं ह्रीं पांसुला ॐ श्रीं ह्रीं प्रीं पवनगामिनी ।
पवनात्मजसेव्या ॐ क्लीं श्रीं बीजमयी पयः ॥ ४४॥

ॐ ऐं एकाक्षरी स्वाहा ॐ ह्रीं श्रीं क्लीं च पार्वती ।
ह्रां हूं शम्भुजटाभारा ॐ शरश्चन्द्रलेपिता ॥ ४५॥

ॐ श्रीं ऐं सौः रसानन्दा सुनन्दा श्रीं ह्सौः सुयता ।
ॐ ह्रीं श्रीं क्लीं ह्सौः राज्ञी ॐ श्रीं राज्यप्रदायिनी ॥ ४६॥

ॐ ह्रीं श्रीं रमणी ॐ श्रीं रेवाश्रीमदनातुरा ।
ऐं सौः रम्भोपमोरु च ऐं सौः क्लीं रामवल्लभा ॥ ४७॥

ऐं सौः श्रीं रेवती स्वाहा ऐं क्लीं आरामवासिनी ।
ॐ श्रीं राज्यप्रदा स्वाहा ॐ श्रीं रावणघातिनी ॥ ४८॥

ॐ रां राघवसेव्या च ॐ ह्रीं श्रीं रोहिणी पयः ।
ॐ श्रीं ऐं सौः ह्सौः क्लीं श्रीं रेवतीरमणप्रिया ॥ ४९॥

ॐ श्रीं इं रां च इन्द्रा ॐ इं इन्द्रसमाश्रिता ।
ॐ ह्रीं श्रीं ऐं च इन्द्राक्षी ऐं श्रीं वृत्रनिसूदिनी ॥ ५०॥

ॐ श्रीं वृत्रारि रोघग्नी ॐ वृत्रासूरपूजिता ।
ॐ श्रीं वृत्तिप्रदा स्वाहा व्रों क्लीं वृत्तस्तनी पयः ॥ ५१॥

ॐ ह्रीं श्रीं क्रीं ह्सौः ब्राह्मी ब्रों ब्राह्मणवरप्रदा ।
श्रीं क्लीं हत्यापहा स्वाहा ह्रीं श्रीं क्लीं हरिसेविता ॥ ५२॥

ॐ श्रीं हरार्चिता स्वाहा जुं हौं सः जृम्भिनी पयः ।
ॐ जां जालन्धरी स्वाहा ॐ श्रीं ह्रीं ह्सौः हरिवाहना ॥ ५३॥

ॐ क्लीं ह्रीं हरिदश्वाक्षी ॐ ह्रीं हरिहरार्चिता ।
ॐ श्रीं क्लीं हैहयेष्टा च ॐ ह्रीं श्रीं हयगामिनी ॥ ५४॥

अं श्रीं अम्भोदनीलाङ्गी अं क्रीं अश्वसुखप्रिया ।
अं ऐं अम्भोजहस्ता च अं क्लीं अम्भोजनी पयः ॥ ५५॥

ॐ श्रीं क्लीं श्रौं शतानन्दा श्रौं शतानन्दघातिनी ।
ॐ श्रीं गीतप्रिया स्वाहा ॐ गीं गीतज्ञा च ग्लौं गतिः ॥ ५६॥

ॐ श्रीं गीं गुणिवत्सा च ॐ गीं श्रीं गुणिरागिणी ।
ॐ गीं श्रीं गारुडीविद्याङ्गी श्रीं गीं गोमती पयः ॥ ५७॥

ॐ गीं गाथा ह्सौः स्वाहा ॐ गीं गन्धर्वसेविता ।
ॐ गीं गणेशसेव्या च ऐं सौः गीं गणवल्लभा ॥ ५८॥

ऐं क्लीं गीं गजराजेष्टा गीं श्रीं गौरी ह्सौः गतिः ।
क्रीं गीं गलद्रसा ॐ गीं गजाननसमर्चिता ॥ ५९॥

ॐ प्रीं श्रीं पद्मभूः स्वाहा ॐ सौः जुं आत्मभू पयः ।
ॐ श्रीं मधुमक्षिका ॐ ऐं सौः म्रीं मदालसा ॥ ६०॥

ॐ श्रीं म्रीं माधवेष्टा च श्रीं मा ह्रीं श्रीं रसा पयः ।
ॐ ह्रीं श्रीं इन्दिरा श्रीं क्लीं श्रीदा ऐं सौः च श्रीमती ॥ ६१॥

ॐ श्रीं क्लीं ललिता स्वाहा ॐ श्रीं गीं गरुडाश्रिता ।
ऐं क्लीं निशुम्भहन्त्री च श्रीं ह्रीं महिषगामिनी ॥ ६२॥

ॐ ऐं सौः पद्मजा ह्रीं श्रीं महिषासुरघातिनी ।
मधुकैटभहन्त्री ॐ ह्रीं श्रीं म्रीं मधुराक्षरा ॥ ६३॥

ॐ ऐं भगोदरा स्वाहा श्रीं क्लीं म्रीं मन्मथातुरा ।
ॐ ह्रीं श्रीं मतिदा श्रीं म्रीं क्रीं हूं मातङ्गिनी पयः ॥ ६४॥

ॐ श्रीं ऐं खेटहस्ता च क्ष्म्यूं क्षीराम्बुधिसम्भवा ।
ॐ क्ष्मीं क्षुरितकेशा च ऐं सौः क्लीं श्रीं क्षमावती ॥ ६५॥

ॐ श्रीं ऐं सौः क्षमा ॐ श्रीं क्ष्मा ॐ ऐं सौः क्षमाधरा ।
ॐ श्रीं क्रीं क्ष्म्यूं च क्षणदा ॐ श्रीं क्ष्म्यां क्षालिताम्बरा ॥ ६६॥

ॐ श्रीं ऐं सौः जनावासा ॐ जुं सः हूं जरातुरा ।
ॐ श्रीं ऐं क्लीं ह्सौः श्रद्धा ॐ प्रीं श्री पुरातना ॥ ६७॥

ॐ प्रीं पुराणप्रकृतिः ॐ ऐं क्लीं सौः सरस्वती ।
ॐ क्रीं हूं ह्रीं च वाराही ॐ श्रीं वैकुण्ठसूदिनी ॥ ६८॥

ॐ श्रीं वेत्रवती स्वाहा ॐ ऐं विद्यामयी पयः ।
ॐ श्रीं ऐं क्लीं वितस्ता च ॐ श्रीं विमुखघातिनी ॥ ६९॥

ॐ श्रीं गङ्गा ह्सौः स्वाहा ॐ क्रीं यं यमुना तथा ।
ॐ श्रीं सौः शरयू स्वाहा ॐ श्रीं योगिसमर्चिता ॥ ७०॥

ॐ श्रीं यमस्वसा स्वाहा ॐ ह्रीं श्रीं यममर्दिनी
ॐ श्रीं यमप्रदा क्लीं सौः ॐ श्रीं यादस्पतिप्रिया ॥ ७१॥

ॐ ह्रीं श्रीं क्लीं ह्सौः यात्रा ॐ श्रीं ऐं यक्षिणी पयः ।
ॐ श्रीं ऐं सौः च यक्षेशी ॐ यां यक्षेश्वरार्चिता ॥ ७२॥

ऐं सौः युयुत्सवा स्वाहा ॐ यां श्रीं क्लीं च यामिनी ।
ॐ जुं यां श्रीं यज्ञेशी ॐ यां क्लीं यज्ञदक्षिणा ॥ ७३॥

ॐ श्रीं ऐं सौः च यज्ञाङ्गी ॐ श्रीं ऐं सौः यशोवती ।
ॐ श्रीं यशःप्रदा स्वाहा ॐ क्लीं यां याज्ञिकप्रिया ॥ ७४॥

ॐ क्लीं यां यजमानस्त्री ॐ श्रीं याज्ञिकवल्लभा ।
ॐ ह्रीं श्रीं क्लीं ह्सौः ऐं सौः यजमानवरप्रदा ॥ ७५॥

ॐ श्रीं क्लीं यां युधिस्थायी ॐ यां यज्ञभुजाम्प्रिया ।
ॐ श्रीं यां यज्ञभक्षा च ॐ यां श्रीं यज्ञलालसाः ॥ ७६॥

ॐ श्रीं ऐं ईश्वरी स्वाहा इं ईं आं यां यमस्तुता ।
ॐ श्रीं इं ऐकिकी स्वाहा ॐ श्रीं आयुष्मती तथा ॥ ७७॥

ॐ श्रीं आदित्यवरदा आं क्लीं आदित्यलोचना ।
ॐ श्रीं ऐं अदितिः स्वाहा अं अनन्तफलप्रदा ॥ ७८॥

ॐ श्रीं अनन्तशीर्षस्था ॐ श्रीं अनन्तशायिनी ।
ॐ श्रीं क्लीं रतिज्ञा स्वाहा ॐ ह्रीं श्रीं क्लीं दितिस्तथा ॥ ७९॥

ॐ श्रीं अदितिपुत्रेष्टा ॐ श्रीं दितिजघातिनी ।
ॐ ऐं क्लीं अम्बिका स्वाहा ॐ ऐं रतिपतिप्रिया ॥ ८०॥

ॐ श्रीं क्लीं जगदीशानी ॐ जुं सः जयवर्धिनी ।
ॐ श्रीं ज्योतिष्मती स्वाहा ॐ क्लीं श्रीं म्लेच्छघातिनी ॥ ८१॥

ॐ श्रीं रजस्वला स्वाहा ॐ रां रं रजकी तथा ।
ॐ श्रीं क्लीं बहुपुत्रा च ॐ श्रीं क्लीं हीरनन्दना ॥ ८२॥

ऐं क्लीं सौः हरिणी स्वाहा ॐ श्रीं हरिहरेश्वरी ।
ॐ श्रीं ह्रीं अबला स्वाहा ॐ आं आकाशगामिनी ॥ ८३॥

आं श्रीं अरण्यवासा च ॐ श्रीं आत्मभुवार्चिता ।
आं श्रीं भूषणभूषाढ्या ॐ श्रीं भीतिमती तथा ॥ ८४॥

ॐ श्रीं अं लोकमाता च ॐ श्रीं लं लक्षमातृका ।
ॐ श्रीं रां गीं ह्सौः लभ्या श्रीं अलभ्या ह्सौः लता ॥ ८५॥

ॐ श्रीं लोकेशवरदा ॐ श्रीं लां लास्यतत्परा ।
ॐ श्रीं लोहितनेत्रा च ॐ श्रीं लवाङ्कृतिस्तथा ॥ ८६॥

ऐं सौः ललितजिह्वा च ॐ श्रीं लोकारिसेविता ।
ॐ श्रीं त्रिलोकजननी ॐ जुं सः लोकघातिनी ॥ ८७॥

ॐ श्रीं दीर्घजटाजूटा ॐ श्रीं जृम्भारिसेविता ।
ॐ क्रीं जुं मेदिनी स्वाहा ॐ क्रीं जुं सः मृतिञ्जया ॥ ८८॥

ॐ श्रीं जुं जयदा स्वाहा ॐ श्रीं जनकनन्दिनी ।
ॐ जुं लां जटिनी स्वाहा ॐ जुं जगत्समाश्रया ॥ ८९॥

ॐ श्रीं मौनव्रता स्वाहा ॐ श्रीं मोदकभक्षिणी ।
ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लुं लां मोदकाहारतोषिता ॥ ९०॥

ॐ ह्रीं मुद्गरहस्ता च ॐ ह्रीं मातामही तथा ।
ॐ प्रीं पितामही स्वाहा ॐ प्रीं पितृपितामही ॥ ९१॥

ॐ क्लीं पाषाणरूपा च ॐ प्रीं पाषाण्डभक्षिणी ।
ॐ ऐं श्रीं सर्वतोग्रस्था ॐ प्रीं पलितकेशिनी ॥ ९२॥

ॐ श्रीं क्लीं हरपत्नी च ॐ कालपत्नी ह्सौः कुटी ।
ॐ ह्रीं श्रीं विष्णुपत्नी च ॐ ह्रीं श्रीं क्लीं च वैष्णवी ॥ ९३॥

ॐ ह्रीं श्रीं क्लीं ह्सौः रौद्री ॐ रां क्लीं रुद्रसेविता ।
ॐ श्रीं क्लीं सः च ब्रह्माणी ॐ श्रीं ब्रह्मेन्द्रसेविता ॥ ९४॥

ॐ श्रीं क्लीं व्रतिनी स्वाहा ॐ क्लीं द्रीं दक्षनन्दिनी ।
ॐ श्रीं क्लीं ऐं म्लौं क्रीं हूं दक्षक्रतुविनाशिनी ॥ ९५॥

ॐ श्रीं क्लीं विघ्नहन्त्री च ॐ श्रीं विघ्नेश्वरेश्वरी ।
ॐ श्रीं श्यामा च ऐं बाला ॐ ह्रीं बालकतोषिता ॥ ९६॥

ॐ श्रीं चं चर्चितपदा च ॐ श्रीं चं चारुहासिनी ।
ॐ क्लीं चतुर्भुजा स्वाहा ॐ श्रीं चन्दनभास्वरा ॥ ९७॥

ॐ ऐं सौः अच्युतेष्टा च ॐ श्रीं क्लीं सः च्युतालका ।
ॐ श्रीं ऐं चर्मवस्त्रा च ॐ श्रीं चण्यकराजिता ॥ ९८॥

ॐ श्रीं चर्वणभक्ष्या च ॐ श्रीं चं चारुलोचना ।
ऐं क्लीं सौः क्रीं ह्सौः ह्रीं भैं अष्टादशदलस्थिता ॥ ९९॥

ॐ श्रीं ऐं सौः च चार्वाङ्गी ॐ श्रीं चन्द्रकलाश्रया ।
ॐ श्रीं चन्द्रकलिप्ताङ्गी ॐ क्रीं पूतासुगन्धिनी ॥ १००॥

ॐ श्रीं कस्तूरिभूषाढ्या ॐ गीं सिन्दूरभूषिता ।
ॐ श्रीं क्लीं छिन्नमस्ता च ॐ श्रीं क्लीं छिन्नजङ्घका ॥ १०१॥

ॐ श्रीं ह्रीं स्त्रीं ह्सौः तारा ॐ ऐं नीलसरस्वती ।
ॐ ऐं एकजटा स्वाहा ॐ श्रीं क्लीं तारिणी तथा ॥ १०२॥

ॐ श्रीं स्त्रीं उग्रतारा च ॐ श्रीं स्त्रीं तोतला तथा ।
ॐ श्रीं क्रीं सौः ह्सौः स्तुत्या ॐ स्त्रीं त्रैलोक्यवन्दिता ॥ १०३॥

ॐ श्रीं क्रीं ऐं ह्सौः ॐ स्त्रीं त्रयीतनुविलोचना ।
ॐ वां वेदत्रयी स्वाहा ॐ श्रीं अग्नित्रयीं तथा ॥ १०४॥

ॐ प्रीं पुरत्रयी स्वाहा ॐ वां वर्गत्रयी तथा ।
ॐ सौः विद्यात्रयी श्रीं क्लीं देवी त्रितयरूपिणी ॥ १०५॥

ॐ द्रीं देवप्रसू स्वाहा ॐ द्रीं ऐं सौः दयावती ।
ॐ क्लीं ऐं सौः च धर्मज्ञा ॐ श्रीं धर्मनिधिस्तथा ॥ १०६॥

ॐ श्रीं द्रीं धनदा स्वाहा ऐं सौः क्लीं धनदार्चिता ।
ॐ श्रीं हूं धार्मिकेष्टा च ॐ श्रीं धर्मिजनप्रिया ॥ १०७॥

ऐं सौः द्युतिमती श्रीं ह्रीं सर्वदाभूतभूषिता ।
ॐ क्लीं दीप्ति ह्सौः धात्री ॐ श्रीं धूर्ता ह्सौः धृतिः ॥ १०८॥

ॐ श्रीं दम्भविहीना च ॐ श्रीं दाम्भिकरूपिणी ।
ॐ श्रीं म्रीं मोदिनी स्वाहा ॐ क्लीं ऐं मोहिनी तथा ॥ १०९॥

ॐ श्रीं स्त्रीं स्तम्भिनी स्वाहा ॐ ऐं क्लीं स्तम्भनरूपिणी ।
ॐ श्रीं स्तुतिमयी स्वाहा ॐ अध्येयपराक्रमा ॥ ११०॥

ॐ श्रीं ध्येया ह्सौः धूतिः ॐ श्रीं धूम्रमुखी तथा ।
ॐ श्रीं क्लीं कालरात्रीश्च ॐ श्रीं सः नलकूबरी ॥ १११॥

ॐ वां वटेश्वरी स्वाहा महामाया म्लौं तथा ।
ॐ श्रीं चण्डशरा स्वाहा ॐ श्रीं चण्डमदापहा ॥ ११२॥

ॐ ऐं क्लीं सौः च चामुण्डा ॐ श्रीं चण्डेश्वरी तथा ।
ॐ श्रीं प्रीं स्त्रीं प्रचण्डा च श्रीं ऐं चण्डमातृका ॥ ११३॥

ॐ श्रीं क्लीं सौः शताक्षी च ॐ श्रीं ह्रीं श्रीधराश्रया ।
ॐ श्रीं वां विश्वनिष्ठा च ॐ क्लीं विश्वम्भरार्चिता ॥ ११४॥

ॐ श्रीं क्लीं विश्वधात्री च ॐ वां नृत्यविलासिनी ।
ॐ श्रीं हौं सः निराकारा ॐ श्रीं शाकम्भरी तथा ॥ ११५॥

ॐ श्रीं रां रक्तजिह्वा च ॐ श्रीं रां रक्तलोचना ।
ॐ रां रक्ताम्बरा स्वाहा ॐ श्रीं पिङ्गलकेशिनी ॥ ११६॥

ॐ श्रीं स्त्रीं सौः तपस्या सौः तपोनिष्ठा ह्सौः स्तुतिः ।
ॐ श्रीं क्लीं तौलिनी ऐं सौः तारकेशी ह्सौः तुला ॥ ११७॥

ॐ श्रीं ह्रीं ह्सौः सुतार्त्तीया श्रीं श्रीं ऐं मुक्तिदा तथा ।
ॐ ऐं क्लीं सौः च कामाक्षी ॐ श्रीं स्त्रीं पिङ्गलालका ॥ ११८॥

ॐ श्रीं ऐं सौः च कुलजा ॐ श्रीं क्रीं कुन्तलेश्वरी ।
ॐ श्री ऐं क्लीं अपर्णा च ॐ श्रीं पर्णाशना तथा ॥ ११९॥

ऐं सौः पद्मा ह्सौः पुण्या ॐ श्रीं प्रीं पुण्यदा तथा ।
ॐ ऐं पुण्यनिधि श्रीं क्लीं ऐं सौः पुण्यजनार्चिता ॥ १२०॥

ॐ श्रीं अश्वस्तुतिः स्वाहा ॐ अं अश्वमुखेश्वरी ।
अं आं अश्वमुखी स्वाहा ॐ श्रीं अश्वसमद्युति ॥ १२१॥

ॐ ऐं सौः अश्वगा स्वाहा ॐ श्रीं क्लीं अश्वगायुधा ।
ॐ ऐं क्लीं कुलवागेशी ॐ श्रीं क्लीं कुलकौलिनी ॥ १२२॥

ॐ श्रीं ऐं सौः कुलोद्भासा ॐ क्रीं क्रीडाशया तथा ।
ॐ श्रीं क्लीं निरहङ्कारा ॐ सौः सिद्धा ह्सौः श्रुतिः ॥ १२३॥

ॐ श्रीं श्रुतिधरा ऐं क्लीं ज्येष्ठा ऐं सौः अजा तथा ।
ॐ श्रीं ज्योतिः क्ष्मीं क्षामा ॐ क्ष्मीं क्षोडा ह्सौः क्षुधा ॥ १२४॥

ॐ क्लीं सः क्रोडिनी स्वाहा ॐ क्रों कम्बलघातिनी ।
ॐ क्रीं कम्बलवस्त्रा च ॐ क्रीं कोटिन्दुसन्निभा ॥ १२५॥

ॐ श्रीं क्लीं ऐं च कल्याणी ॐ श्रीं क्लीं गोमुखी तथा ।
ॐ जुं सः स्कन्दजननी ॐ श्रीं भैं भैरवार्चिता ॥ १२६॥

ॐ श्रीं भूधरपुत्री च ॐ ऐं सः ब्रह्मचारिणी ।
ॐ क्लीं सः ब्रह्मविद्या च ॐ ऐं क्लीं ब्रह्मरूपिणी ॥ १२७॥

ऐं क्लीं सौः त्रिपुरा स्वाहा ॐ श्रीं त्रिपुरभैरवी ।
ॐ श्रीं त्र्यक्षी ह्सौः स्त्रीं स्त्रीं ॐ श्रीं त्रिभुवनार्चिता ॥ १२८॥

ॐ क्लीं त्रेता ह्सौः अम्बा ॐ श्रीं त्रिपुरघातिनी ।
ॐ श्रीं ह्रीं क्रीं त्रिरूपा च ॐ ऐं सौः वह्निवल्लभा ॥ १२९॥

ॐ स्त्रीं तारुण्यशोभाढ्या ॐ स्त्रीं तन्वी ह्सौः तनुः ।
ॐ स्त्रीं तालानुगा ऐं सौः तुरी श्रीं स्त्रीं सुरेश्वरी ॥ १३०॥

ॐ श्रीं ताम्रधरा ॐ स्त्रीं तरणिः ऐं रणाश्रिता ।
ॐ श्रीं तरणिदीप्ता च ऐं सौः नौः क्लीं च नाविका ॥ १३१॥

ॐ श्रीं नम्रा ह्सौः नीतिः ॐ क्लीं सौः नम्रकन्धरा ।
ॐ ऐं सौः नारसिंही च ॐ श्रीं नारायणी तथा ॥ १३२॥

ॐ क्लीं नन्दनकुञ्जस्था ॐ श्रीं बन्दिस्तुता तथा ।
ॐ आनन्दमयी क्लीं सौः ॐ श्रीं आत्मगति तथा ॥ १३३॥

ॐ क्लीं आर्ता ह्सौः आद्या ॐ श्रीं ईज्या क्ष्मीं स्त्रुतिः ।
ॐ श्रीं सामगता ऐं सौः साम्या क्लीं सामगायिनी ॥ १३४॥

ॐ श्रीं सनकसेव्या च श्रीं ह्रीं श्रीं सभया तथा ।
ॐ ऐं सौः स्वगतिः स्वाहा ॐ श्रीं सागरसम्भवा ॥ १३५॥

ॐ स्त्रीं श्रीं द्रुतगा स्वाहा ॐ वां वेदश्रुतिस्तथा ।
ॐ ऐं सौः वारुणी स्वाहा श्रीं ह्रीं श्रीं वरुणार्चिता ॥ १३६॥

ऐं श्रीं क्लीं विभवा स्वाहा श्रीं क्लीं विश्वप्रकाशिनी ।
ॐ सौः क्लीं वीरमाता च ऐं सौः श्रीं वीरनन्दिनी ॥ १३७॥

श्रीं क्लीं वाराङ्गना स्वाहा ॐ ह्रीं श्रीं जन्मवल्लभा ।
ऐं सौः क्लीं नीलग्रीवा च ऐं सौः दुर्गा ह्सौः दरी ॥ १३८॥

ॐ नीला ह्सौः नन्दा क्लीं नुतिः श्रीं नगात्मजा ।
ॐ ऐं सौः नीलवस्त्रा च ॐ श्रीं क्लीं नीललोचना ॥ १३९॥

ॐ द्रीं द्रुहिणसेव्या च ॐ श्रीं द्रीं क्लीं धराधरा ।
ॐ देवेशी ह्सौः देवी ॐ श्रीं द्रीं दुल्लिलोचना ॥ १४०॥

ॐ स्त्रीं तोमरहस्ता च ॐ श्रीं क्लीं मुण्डमालिनी ।
ॐ जुं जिह्वाधरा स्वाहा ॐ श्रीं जाम्बवदाश्रया ॥ १४१॥

ॐ जुं ऐं सौः ह्सौः क्लीं श्रीं जम्बूद्वीपनिवासिनी ।
ॐ जुं सः क्लीं ह्सौः ऐं सौः जरामरणवर्जिता ॥ १४२॥

ऐं महादुर्गतिहरी ॐ सौः माहिष्मती तथा ।
क्रीं काश्मीरी ह्सौः रेवा ॐ श्रीं काशी ह्सौः कुणी ॥ १४३॥

ॐ अयोध्या ह्सौः माया ॐ श्रीं म्रीं मथुरापुरी ।
ॐ ह्रीं हिमाचलस्था च ॐ श्रीं ह्रीं विन्ध्यवासिनी ॥ १४४॥

ॐ क्लीं म्रीं मेरुसंस्था च ॐ श्रीं क्लीं अमरावती ।
ॐ जुं मन्त्रात्मिका स्वाहा ॐ श्रीं मारमदाङ्किता ॥ १४५॥

ॐ श्रीं शेषा ह्सौः साक्षी ॐ श्रीं शेषगता तथा ।
ॐ अशेषा ह्सौः श्वेता ॐ शीती ॐ सुशीतला ॥ १४६॥

ॐ गीति ह्सौः कारा ॐ सौः कारविभूषिता ।
ॐ श्रीं म्रीं मलयस्था च ॐ म्रीं मलयचर्चिता ॥ १४७॥

ॐ क्लीं चलाचला ऐं सौः क्लीं चराचरसेविता ।
ॐ श्रीं क्लीं काव्यशक्ति च ॐ क्रीं कविसमर्चिता ॥ १४८॥

ॐ श्रीं ग्रहेश्वरी स्वाहा ॐ गीं ग्रहनिषेविता ।
ॐ श्रीं स्त्रीं अक्षरी स्वाहा ॐ श्रीं स्त्रीं सत्वरूपिणी ॥ १४९॥

ॐ श्रीं ह्रीं क्लीं ह्सौः ऐं सौः महात्रिपुरसुन्दरी ।
ॐ श्रीं ह्रीं अन्नपूर्णा च ॐ ह्रीं श्रीं वज्रयोगिनी ॥ १५०॥

ॐ ह्रीं ज्वालामुखी चैव ॐ क्लीं सः शारदा तथा ।
ॐ ह्रीं श्रीं सिद्धलक्ष्मी च महालक्ष्मी ह्सौः तथा ॥ १५१॥

ॐ प्रीं पयोधराभा च ॐ श्रीं पयोधराङ्किता ।
ॐ प्रीं प्रजा ह्सौः प्रान्ता प्रीं प्रभा श्रीं प्रभावदा ॥ १५२॥

ॐ प्रीं पञ्चमगा स्वाहा ॐ ऐं नक्षत्रमालिनी ।
स्त्रीं तिथिः श्रीं अतुल्या च श्रीं त्र्यर्णा क्लीं त्रपावती ॥ १५३॥

ॐ श्रीं तोमा ह्सौः त्रेता ॐ जुं त्रिभुवनेश्वरी ।
ॐ श्रीं अजा ह्सौः अन्त्या क्लीं अम्बा श्रीं क्रमेश्वरी ॥ १५४॥

क्रीं हूं कोटिरसा ह्सौः क्रूरा ॐ श्रीं कौटिल्यसेविता ।
ॐ श्रीं कान्ती ह्सौः मल्ली ॐ ह्रीं श्रीं मालती तथा ॥ १५५॥

ॐ म्रीं श्रीं मल्लिका क्रीं हूं मार्जारी म्रीं मनोरमा ।
ॐ श्रीं मति ह्सौः मान्या ॐ म्रीं क्लीं मानदा तथा ॥ १५६॥

ॐ जुं श्रीं मालिनी ॐ क्रीं मत्ता ह्रीं मानसाश्रया ।
ॐ स्त्रीं तापी ह्सौः सिन्धुः चन्द्रभागा ह्सौः तथा ॥ १५७॥

ॐ श्रीं मुनिःसुता श्रीं सः तपोधनसमर्चिता ।
ॐ क्लीं स्त्रीं तापसी स्वाहा ॐ श्रीं स्त्रीं ऐं त्रिलोचना ॥ १५८॥

ॐ श्रीं ह्रीं वैद्यविद्या च ॐ क्लीं वैद्यप्रसू तथा ।
ॐ श्रीं ह्रीं नवोढा च ॐ स्त्रीं नेबीं ह्सौः मुनिः ॥ १५९॥

ॐ श्रीं नागात्मजा स्वाहा ॐ ऐं सौः नागिनी तथा ।
ॐ श्रीं नवाम्बरधरा ॐ ऐं सौः नवनी तथा ॥ १६०॥

ॐ श्रीं ऐं श्रीं नवनीताङ्गी ॐ श्रीं अम्बसुनन्दिनी ।
ॐ श्रीं प्रीता ह्सौः पामा ॐ श्रीं क्लीं पीवरस्तनी ॥ १६१॥

ॐ श्रीं ह्रीं प्रीं च पीनाङ्गी ॐ क्लीं ऐं पर्वतात्मजा ।
ॐ श्रीं शोभावती स्वाहा ॐ क्लीं शान्ता ह्सौः शिवा ॥ १६२॥

ॐ ऐं सौः स्पन्दिनी स्वाहा ॐ श्रीं ह्रीं स्पन्दनस्थिता ।
ॐ श्रीं रसात्मिका स्वाहा ॐ ह्रां मन्दोदरी तथा ॥ १६३॥

ॐ श्रीं मन्दगतिः स्वाहा ॐ श्रीं मन्दानना तथा ।
ॐ श्रीं मन्दप्रसू स्वाहा ॐ श्रीं मन्दक्षयङ्करी ॥ १६४॥

ॐ श्रीं क्लीं बल्लवी स्वाहा श्रीं बल्ली ह्रीं प्रबलिका ।
ॐ श्रीं ह्रीं वणिजा स्वाहा ॐ प्रीं पुण्याङ्गना तथा ॥ १६५॥

ॐ क्रीं हूं कामधेनुश्च ॐ श्रीं अं अन्नदायिनी ।
ॐ प्रीं श्रीं क्लीं महामारी ऐं श्रीं मृत्युहरा तथा ॥ १६६॥

ॐ श्रीं ह्रीं म्रीं ह्सौः माध्वी म्रीं माध्वीरसघूर्णिता ।
ॐ श्रीं क्लीं ऐं सौः ह्सौः माता ऐं क्लीं सौः मानसी तथा ॥ १६७॥

ॐ महाभाषिणी क्रीं हूं क्रीडा क्रीं क्रीं कषा तथा ।
ॐ ह्रीं श्रीं क्रोडहन्त्री च क्रीं क्रीं क्रीं कामरोचना ॥ १६८॥

ॐ श्रीं कामवती स्वाहा ॐ ऐं भाग्या ह्सौः भगा ।
ॐ श्रीं गन्धर्वकन्या च ॐ गीं गजनिभाकृतिः ॥ १६९॥

ॐ श्रीं गोप्त्री ह्सौः गुह्या ॐ श्रीं गजाजिनाम्बरा ।
ॐ श्रीं पिङ्गा ह्सौः सङ्ख्या ॐ श्रीं सौख्यकरी तथा ॥ १७०॥

ॐ श्रीं सुखात्मिका स्वाहा ॐ श्रीं साहसकारिणी ।
ॐ श्रीं क्लीं सजया स्वाहा ॐ श्रीं गीं जनवल्लभा ॥ १७१॥

ऐं सौः क्लीं द्रीं द्विजा ऐं सौः दान्ता क्लीं दानतत्परा ।
ॐ क्रीं कलशहस्ता च क्रीं हूं कुञ्जरगामिनी ॥ १७२॥

ॐ क्रीं कौलगतिः श्रीं ह्रीं कुमतिः क्रीं च चापिनी ।
ॐ क्रीं कपिवरेशानी क्लीं कपिन्द्रवरप्रदा ॥ १७३॥

ॐ क्रीं श्रीं विनता ह्रीं श्रीं वैनतेयसमर्चिता ।
ॐ क्लीं श्रीं विरतिः स्वाहा ॐ क्लीं वानरसेविता ॥ १७४॥

ॐ क्रीं हूं ह्रीं कलङ्केशी क्रीं लङ्केशनिषेविता ।
ॐ क्रां लाटा ह्सौः लूता ॐ क्रीं श्रीं ललिताम्बरा ॥ १७५॥

क्रीं हूं ह्रीं क्लेशहर्त्री च ॐ क्लीं लीलावती तथा ।
ॐ श्रीं लोला ऐं क्लीं लता ऐं क्लीं मुसलायुधा तथा ॥ १७६॥

ॐ ऐं श्रीं आदिदेवी च ॐ श्रीं शून्यगता तथा ।
ॐ क्लीं श्रीं शङ्करी स्वाहा सर्वस्म्मोहनी ह्सौः ॥ १७७॥

ॐ श्रीं शुभङ्करी स्वाहा ह्रीं क्ष्मां क्षेमङ्करी तथा ।
ॐ श्रीं अशोकपत्राभा ॐ अशोका ह्सौः तमा ॥ १७८॥

ॐ श्रीं गीं गदिनी स्वाहा गीं गदाधरसेविता ।
श्रीं लं लोलरसा स्वाहा क्रीं कृपाणकरा तथा ॥ १७९॥

ॐ श्रीं ह्सौः क्लीं ह्रीं विद्युत् ॐ श्रीं जीमूतवल्लभा ।
ऐं सौः क्लीं श्रीं जराध्यक्षा ॐ स्त्रीं तरुसमाश्रिता ॥ १८०॥

ॐ क्लीं ह्रीं होटिका स्वाहा श्रीं ह्रीं क्लीं हरवल्लभा ।
ऐं सौः ऐं वाग्भवी स्वाहा ॐ वां वीरुत्समर्चिता ॥ १८१॥

ॐ श्रीं विद्यामयी ह्रीं क्लीं ॐ जुं जनितवैभवा ।
ॐ श्रीं वीरार्चिता ऐं सौः वधूः ह्रां क्लीं वरेश्वरा ॥ १८२॥

ॐ क्लीं ह्रीं वरहस्ता च ॐ वां वरप्रदायिनी ।
ॐ श्रीं क्लीं सः च वाचाला ऐं सौः वाचालपूजिता ॥ १८३॥

ॐ श्रीं विनाशदा ॐ ह्रीं विरूपा ऐं वरूथिनी ।
ॐ रं वैश्वानराक्षी च ॐ श्रीं सौः वायुनन्दिनी ॥ १८४॥

ॐ क्लीं वायुतनुः ऐं सौः वालीशा ॐ वरीतनुः ।
ॐ क्रीं वामा ह्सौः वीरा ॐ श्रीं वैश्वानरार्चिता ॥ १८५॥

ॐ ऐं वाल्मीकिपूज्या च ॐ वाल्मीकधरा ह्सौः ।
ॐ श्रीं सीता ह्सौः ऐं क्लीं धराधरसुता तथा ॥ १८६॥

ॐ श्रीं धरा ह्सौः धात्री ॐ देवेश्वरपूजिता ।
ॐ श्रीं रुक्माङ्गदेष्टा च ऐं सौः क्लीं रुक्मभास्वरा ॥ १८७॥

ॐ रां रुक्माङ्गदा श्रीं क्लीं रुक्मिणी ॐ ह्सौः रमा ।
ॐ श्रीं रं अरुणेशानी ॐ श्रीं अर्वाचिनी ह्सौः ॥ १८८॥

ॐ भैं अष्टारपद्मस्था ॐ ह्रीं श्रीं अष्टमी तथा ।
ॐ श्रीं क्रीं हूं अमावस्या ॐ तिथि ऐं त्रयोदशी ॥ १८९॥

ॐ ऐं एकादशी श्रीं ह्रीं द्वादशी श्रीं चतुर्दशी ।
ॐ ऐं सौः क्लीं सप्तमी श्रीं श्रीं दशमी ऐं सुपूर्णिमा ॥ १९०॥

ॐ श्रीं शुद्धात्मिका ऐं सौः शुद्धा श्रीं शुद्धरूपिणी ।
ॐ क्रीं हूं शुक्रसेव्या च क्रीं शुक्रेशी ह्सौः शुचिः ॥ १९१॥

क्रीं हूं श्रीं सप्ततिः ॐ श्रीं सर्वाङ्गी ऐं शिवेश्वरी ।
ॐ ऐं शुद्धेश्वरी ऐं क्लीं श्रीमती श्रीं श्रविश्रवा ॥ १९२॥

ॐ ऐं श्रेयस्करी ॐ श्रीं श्रीदा ॐ श्रीं धरेश्वरी ।
ॐ ऐं श्रीं शक्तिरूपा च ऐं श्रीं शब्दादिवल्लभा ॥ १९३॥

ॐ श्रीं क्लीं श्रुत्पतिः श्रीं क्लीं क्लेबेशी क्रीं कुरूपिणी ।
ॐ श्रीं मुविष्टरा श्रीं क्लीं श्रेष्ठा ऐं शाम्भवी ह्सौः ॥ १९४॥

ॐ श्रीं क्लीं नित्यक्लिन्ना श्रीं नरनारायणेश्वरी ।
ॐ नराधिपसेव्या च श्रीं नारायणवल्लभा ॥ १९५॥

ॐ क्लीं श्रीं पद्मपत्राक्षी ॐ ऐं पूर्वाधिकेश्वरी ।
ॐ क्लीं प्रीं श्रीं अपूर्वा च ॐ श्रीं क्लीं प्रीं परात्परा ॥ १९६॥

ॐ अपारभवा ऐं क्लीं पारावारसमाश्रिता ।
ॐ श्रीं पल्लवहस्ता च ॐ श्रीं प्रीं पल्लवाधरा ॥ १९७॥

ॐ स्त्रीं पयोधसदृशी ॐ पयोधरभारिणी ।
ॐ प्रीं पराङ्गमा स्वाहा ॐ प्रीं पाशविमोचिनी ॥ १९८॥

प्रीं क्लीं पश्चिमदिग्रूपा ॐ प्रीं पाषाणमण्डिता ।
ॐ श्रीं पीताम्बरेशानी ॐ क्रीं केवलरूपिणी ॥ १९९॥

ॐ श्रीं महादशाष्टेशी ॐ क्रीं मकुरगामिनी ।
ॐ क्रीं मन्त्रितगात्रा च ॐ गीं गुरुप्रभावदा ॥ २००॥

ॐ गीं गुर्वी ह्सौः गोष्ठी गीं गुञ्जावलिभूषिता ।
ॐ गीं गोदावरी क्लीं गीं गोष्ठिकानन्ददायिनी ॥ २०१॥

ॐ गीं गोष्ठात्मिका ऐं सौः गौराङ्गी गीं गुरुत्तमा ।
ॐ गीं श्रीं गम्यरूपा गीं अगम्या ह्सौः गुटी ॥ २०२॥

ॐ गीं गीतप्रिया ॐ गीं गजराजनिषेविता ।
ॐ श्रीं रां रक्तदन्ता ॐ रक्तबीजनिसूदिनी ॥ २०३॥

ॐ क्लीं श्रीं ह्रीं मधुमती ॐ ऐं सौः स्वप्ननायिका ।
ॐ श्रीं क्लीं स्वप्नमाया च ऐं सौः स्वप्नावती तथा ॥ २०४॥

श्रीं स्वादुमयी ऐं सौः सारात्मा ऐं समर्चिका ।
ऐं सौः सत्या ह्सौः सार्त्री ॐ श्रीं मन्त्रफलप्रदा ॥ २०५॥

ॐ सद्रूपा ह्सौः सज्जा ऐं मज्जा सौः धनुर्लता ।
ॐ श्रीं धनुर्धरेशानी द्रीं श्रीं धूमरकेशिनी ॥ २०६॥

ॐ श्रीं मायावती स्वाहा ॐ श्रीं क्लीं कुब्जचारिणी ।
ऐं क्लीं कठोरपुलका क्रीं कार्मुकफलप्रदा ॥ २०७॥

क्रीं क्रीं क्रीं कर्मदा हूं हूं कर्मलेषा ह्सौः कटिः ।
क्रीं कर्मेष्ठा ह्सौः कुः ऐं कर्मस्था क्रीं च कर्मिणी ॥ २०८॥

ॐ क्रीं कार्मुकहस्ता च क्रीं कार्मुकरवाकुला ।
क्रीं कपोलसद्दीप्तिः क्रीं क्रीं कमलजार्चिता ॥ २०९॥

क्रीं लेखकप्रिया क्रीं हूं लेख्या क्रीं लेखचारिका ।
क्रीं मषीरूपिणी ऐं क्लीं मुष्टि ऐं मुष्टिवर्धिनी ॥ २१०॥

क्रीं म्रों मोहप्रदा स्रीं स्रूं मन्त्रविद्या ह्सौः मघा ।
ॐ श्रीं सुन्दरी श्रीं श्रीं सारदर्पसमुज्ज्वला ॥ २११॥

ऐं श्रीं मज्जा ह्सौः श्रीं म्रीं ऐं सौः मूत्रपुरीषिका ।
ऐं सौः क्लीं श्रीं सुनन्दा च ऐं सौः क्लीं सद्गतिः तथा ॥ २१२॥

ॐ श्रीं सन्तानवल्ली च ॐ सन्तानफलप्रदा ।
ॐ श्रीं महोदरी ऐं सौः सः प्रजा ऐं प्रजावती ॥ २१३॥

ॐ भ्रातृवल्लभा भैं क्रीं भीतिहा भैं भटार्चिता ।
ॐ भटेशी ह्सौः कद्रूः ॐ क्रीं हूं कनकेश्वरी ॥ २१४॥

क्रीं स्कन्दजननी ऐं सौः द्रीं दाडिमफलानना ।
श्रीं दीर्घास्या ह्सौः धीः श्रीं द्युमणीन्दुविलोचना ॥ २१५॥

ॐ द्रीं दम्भेशलोभाढ्या ॐ श्रीं धीः सचिवाश्रया ।
अं श्रीं अमात्यवर्गेष्टा ॐ अमात्यप्रियङ्करी ॥ २१६॥

ॐ श्रीं असिलता क्रीं हूं अनेकाक्षरभूषणा ।
ॐ क्रीं अल्परसा ह्सौः श्रीं अल्पहासा ह्सौः अणुः ॥ २१७॥

ॐ श्रीं अत्रिभरा ऐं सौः हावभावसमन्विता ।
ऐं सौः सीत्कारिणी स्वाहा ऐं सौः सुरसमण्डना ॥ २१८॥

ऐं सुरा श्रीं सुरादेवी ऐं सुरासुरसेविता ।
ऐं श्रीं सत्कारगा स्वाहा ॐ श्रीं सत्कारपूजिता ॥ २१९॥

ॐ सौः साधकसेव्या च ऐं सौः साधकवल्लभा ।
ॐ ह्रीं श्रीं भैं च भीरुण्डा ॐ क्रीं भैं भगमालिनी ॥ २२०॥

ॐ भैं भगोदरा ह्रीं भैं भीमा हूं भैं भगात्मिका ।
ॐ भैं भर्गशिखा हूं भैं भास्वती भैं ह्सौः भगा ॥ २२१॥

ॐ भैं भगेश्वरी स्वाहा ॐ भैं भर्गाङ्गवासिनी ।
ॐ श्रीं भैं भानुमध्यथा क्रीं ह्रीं भैं बैन्दवेश्वरी ॥ २२२॥

ॐ भैं बन्धुररूपा च ॐ भैं भास्वररूपिणी ।
ॐ भैं बलिभुजाकान्ता ॐ भैं बलिनिषेविता ॥ २२३॥

ॐ भैं बलिबलघ्नी ॐ भैं बल्या भैं बलात्मिका ।
ॐ भैं श्रीं भूचरी ॐ श्रीं भूचराणामतिप्रिया ॥ २२४॥

ॐ भैं क्रीं भगिनी हूं भैं भवेशी भैं भगोत्सुका ।
भैं श्रीं भगैकलिङ्गा भैं भगलिङ्गसुखावहा ॥ २२५॥

ॐ भैं भगैकशुक्रा भैं क्रीं भैं भुवनपालिनी ।
क्रीं हूं ह्रीं ह्रीं ह्सौः काली क्रीं ह्रीं दक्षिणकालिका ॥ २२६॥

क्रीं क्रीं क्रीं ह्रीं ह्रीं स्वाहा देवी श्मशानकालिका ।
क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भैं स्वाहा भद्रकालिका ॥ २२७॥

इति भैं भद्रकाल्याश्च मन्त्रनाम सहस्रकम् ।
भद्रकाल्याश्च सर्वस्वं रहस्यातिरहस्यकम् ॥ २२८॥

भैं बीजरूपतत्वैकं मन्त्रगर्भं परं महत् ।
सर्वागमैकसारन्तु सारात्सारोत्तमोत्तमम् ॥ २२९॥

सर्वमन्त्रमयं दिव्यं सिद्धविद्या विनायकम् ।
सर्वपाप प्रशमनं रहस्यं त्रिदिवौकसाम् ॥ २३०॥

गोप्यं गोप्यतमं गोप्यं गुप्तागुप्ततमं कलौ ।
भोगदं मोक्षदं स्तुत्यं सर्ववर्ग फलप्रदम् ॥ २३१॥

मन्त्रात्मिकं मनुमयं त्रैलोक्योद्धारणक्षमम् ।
जगत्सारं स्थितो ब्रह्मा ततः सारं शिवः स्मृतः ॥ २३२॥

ततः शक्तिः स्मृताः सारं ततः ततः त्रिपुरसुन्दरी ।
ततः श्री दक्षिणाकाली ततो भैं भद्रकालिका ॥ २३३॥

द्वाविंशत्यक्षरी देवी सर्वामृतमयी शिवा ।
सिद्धिदा बुद्धिदा लोके सर्वमन्त्रमयी तथा ॥ २३४॥

शुद्धचैतन्यरूपेयं विद्या भुवन दुर्लभा ।
द्वाविंशत्यक्षरी विद्या प्रतिलोम स्वरूपिणी ॥ २३५॥

गोपिता गोपनीया च सारात्सारोत्तमोत्तमा ।
अस्या सारमिदं नाम्नां सहस्रं मन्त्रगर्भकम् ॥ २३६॥

नात्र शुद्धेरपेक्षास्ति न वा मित्रादि दूषणम् ।
न मोहेन च दौर्बल्यं न शोको नियमो न वा ॥ २३७॥

सर्वथामृतरूपा च विद्येयं शुद्धरूपिणी ।
तत् ब्रह्ममयी विद्या तत् बीजमयी तथा ॥ २३८॥

न दारिद्र्यभयं देवि न च दुर्भिक्षपीडनम् ।
न च मारीभयं तत्र यत्र नाम्नासहस्रकम् ॥ २३९॥

अर्धरात्रे पठेन्नाम्नां सहस्रं मन्त्रगर्भकम् ।
स्त्रिया सहचरेद्भोगं देवी दर्शनमाप्नुयात् ॥ २४०॥

विनार्धरात्र समये पठनं न फलप्रदम् ।
ब्रह्महत्या गुरोर्हत्या ब्रह्महत्या प्रिया वधम् ॥ २४१॥

तत्क्षालयति विद्येयं द्वाविंशत्यक्षरापरा ।
त्रयस्त्रिंशतकोटिनां देवतानां महेश्वरि ॥ २४२॥

तेजोरूपमिदं नाम्नां सहस्रं मन्त्ररूपकम् ।
रहस्यं पुत्रपौत्रादि गो गजाश्वरथ प्रदम् ॥ २४३॥

अमावस्यां रवेर्वारे मध्यान्हे कूप सन्निधौ ।
पठेन्मन्त्री त्रिवारं यः स भवेत् भक्त विशेषतः ॥ २४४॥

भौमेष्टम्यां च सायं यः पठेद्दीपागतोरहः ।
तस्य सर्वार्थ सिद्धिः स्यानातिदूरा महेश्वरिः ॥ २४५॥

शुक्लेचैकादशी रात्रौ लिखेनाम्नासहस्रकम् ।
कर्पूर कुङ्कुमारक्त कस्तूरी मलयैः शनैः ॥ २४६॥

तविभूर्जस्य देवेशि धूपदीपादि पूर्वकम् ।
नीलवस्त्रेण संवेष्ट्यं लाक्षया परिवेष्टयेत् ॥ २४७॥

सुवर्णेनापिसंवेष्टय पञ्चगव्येन शोधयेत् ।
रवौ कन्या नवप्रीता सम्पूज्य विधिवत् शिवे ॥ २४८॥

भोजयित्ताततोदेवि गुटिकेयं फलप्रदा ।
वन्ध्यालभेत्सुतात् शीघ्रं निर्धनो धनमाप्नुयात् ॥ २४९॥

सर्वथा सर्वदा लोके गुटिकेयं भविष्यति ।
यो स्त्री वामकरे व धारये पुरुषे दक्षिणे भुजे ॥ २५०॥

तत्रत्फलमवाप्नोति यत्रन्मनसि वर्तते ।
प्रभाते पर्वते नाम्नां सहस्रं मन्त्रगर्भकम् ॥ २५१॥

स्तम्भयेदपि ब्रह्माणं मोहयेदपि केशवम् ।
मारयेदपि कीनाशं वशयेदपि शङ्करम् ॥ २५२॥

उच्चाटयति स्वान्शत्रूनाकर्षयति योषितः ।
स्तम्भयेद्वायु सूर्या च शमयेदपि पावकम् ॥ २५३॥

इदं नाम्नां सहस्रन्तु भद्रकाल्याश्च पाठनम् ।
रणे राजकुले द्यूते विवादे शत्रू संसदिम् ॥ २५४॥

साधको जयमाप्नोति स्मरणात्साधकेश्वरि ।
राज्यं देयं शिरो देयं देया सन्ततिरर्थिने ॥ २५५॥

भद्रकाल्या इदं नाम्नां सहस्रं मन्मुखोदितम् ।
नो देयं साधकैः देवि विनाशिष्याय सिद्धये ॥ २५६॥

दुर्जनाय अकुलीनाय भ्रष्टाय अमितभाषिणे ।
न दातव्यं न दातव्यं साधकै सर्व सिद्धये ॥ २५७॥

स्वशिष्याय कुलीनाय भक्ताय मितभाषिणे ।
दातव्यं साधकैर्देवि शुभदं स्वसिद्धये ॥ २५८॥

यः पठेत्पाठयेद्वापि श्रृणोति श्रावयेदपि ।
भद्रकाल्या इदं देवि मन्त्रनामसहस्रकम् ॥ २५९॥

इहलोके सुखान्भुक्त्वा राजार्हा राजपूजिते ।
त्रैलोक्ये विचरेन्मन्त्री परत्र गणनाथवत् ॥ २६०॥

इदं रहस्यं परमं भक्त्यात्तव मयोदितम् ।
गोप्यं गुह्यं सदा गोप्यं गोप्तव्यं पशु सङ्कटे ॥ २६१॥

गुह्यातिगुह्यं देवेशि पुण्यं नाम्नां सहस्रकम् ।
भद्रकाल्याश्च सर्वस्वं गोपनीयं स्वयोनिवत् ॥ २६२॥

॥ इति श्रीरुद्रसर्वस्वे सकलागम सागरे भैरवे तन्त्रे भद्रकाली सहस्रनामकं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *