गायत्री कवच, GayatriKavacham

0

श्री गणेशाय नमः |

ॐ अस्य श्री गायत्री कवच महामन्त्रस्य ब्रह्माविष्णुमहेश्वरा ऋषयः ऋग्यजुःसामानि छन्दांसि परब्रह्मविद्यास्वरुपिणी गायत्री देवता ॐ तत् बीजं भर्गः शक्तिः, धियः कीलकं मम चतुर्विधपुरुषार्थसिद्धये जपे विनियोगः |

न्यासः

ॐ ब्रह्मविष्णुमहेश्वरा ऋषयः शिरसि |

ॐ ऋग्यजुसामाथर्वाणि छन्दांसि मुखे |

ॐ परब्रह्मस्वरुपिणी गायत्री देवता हृदि |

ॐ तद् बीजं गुह्ये |

ॐ भर्गः शक्तिः पादयोः |

ॐ धियः कीलकं सर्वाङ्गे ||

ॐ तत् सवितुर्ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः |

ॐ वरेण्यं विष्णवात्मने तर्जनीभ्यां नमः |

ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः |

ॐ धीमहि मायात्मने अनामिकाभ्यां नमः |

ॐ धियो यो नः कालात्मने कनिष्ठिकाभ्यां नमः |

ॐ प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः |

ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः |

ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा |

ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् |

ॐ धीमहि मायात्मने कवचाय हुम् |

ॐ धियो यो नः कलात्मने नेत्रत्रयाय वौषट् |

ॐ प्रचोदयात् सर्वात्मने अस्त्राय फट |

दिग्बन्धः

ॐ भूर्भुवः स्वरोम् प्राच्यै नमः |

ॐ भूर्भुवः स्वरोम् आग्न्यै नमः |

ॐ भूर्भुवः स्वरोम् दक्षिणायै नमः |

ॐ भूर्भुवः स्वरोम् नैऋत्यै नमः |

ॐ भूर्भुवः स्वरोम् प्रतीच्यै नमः |

ॐ भूर्भुवः स्वरोम् वायव्यै नमः |

ॐ भूर्भुवः स्वरोम् उदीच्यै नमः |

ॐ भूर्भुवः स्वरोम् ऐशान्यै नमः |

ॐ भूर्भुवः स्वरोम् ऊर्ध्वायै नमः |

ॐ भूर्भुवः स्वरोम् भूम्यै नमः |

ध्यानम्

ब्राह्मणी चतुराननाक्षवलया कुम्भस्तनौ स्त्रुक्स्रुवौ

विभ्राणारुणकान्तिरिन्दुवदना ऋग् रुपिणी बालिका |

हंसारोहणकेलिरम्बरमणेर्विम्बाश्रिता भूतिदा

गायत्री हृदि भाविता भवतु नः सम्पत्समृद्धयै सदा || १ ||

( निचे के दो ध्यान अतिरिक्त हमने दिए हुए है )

रुद्राणी नवयौवना त्रिनयना वैय्याध्रचर्माम्बरा

खटवाङ्गत्रिशिखाक्षसूत्रवलया भूत्यै श्रियै चास्तु नमः |

विद्युद्दामजटाकलापविलसद्बालेन्दुमौलिर्मुदा

सावित्री वृषवाहना सिततनुर्ध्येया यजूरुपिणी || २ ||

ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता

श्यामा तन्विजयादिभिः परिलसद् गात्राञ्चिता वैष्णवी |

तार्क्ष्यस्था मणिनूपुराङ्गदशतग्रैवेयभूषोज्ज्वला

हस्तालम्बितशङ्खचक्रसुगदा भूत्यै श्रियै चास्तु नः || ३ ||

कवचम्

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ||

ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती || १ ||

पावकी मे दिशं रक्षेत् पावकोज्ज्वलरुपिणी ||

यातुधांनी दिशं रक्षेत् यातुधानी भयङ्करी || २ ||

पावमानी दिशं रक्षेत् पवमानविलासिनी ||

दिशं रौद्री तु मे पातु रुद्राणी रुद्ररुपिणी || ३ ||

ऊर्ध्वं ब्रह्मात्मिका पातु अधस्ताद् वैष्णवी तथा ||

एवं दश दिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी || ४ ||

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ||

ब्रह्मदण्डश्च मे पातु शत्रूणां वधकारकः || ५ ||

सप्त व्याहृतयः पान्तु सर्वदा विन्दुसंयुताः ||

वेदमाता च मां पातु सरहस्या सदेवता || ६ ||

तत् पदं पातु में पादौ जंघे में सवितुः पदम् ||

वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च || ७ ||

देवस्य मे तु हृदयं धीमहीति गलं तथा ||

धियो मे पातु जिह्वायां यः पदं पातु लोचने || ८ ||

ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् ||

तद्वर्णं पातु मूर्द्धानं सवर्णं पातु भालकम् || ९ ||

चक्षुषी मे विकारस्तु श्रोत्रे रक्षेत् तुकारकः ||

नासापुटौ वकारो मे रेकारस्तु कपोलयोः || १० ||

णिकारस्तुत्तरोष्ठं च यकारस्त्वधरोष्ठके ||

आस्यमध्ये भकारस्तुर्गोकारश्चिबुकं तथा || ११ ||

देकारः कण्ठदेशे तु वकारः स्कन्धदेशयोः ||

स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके || १२ ||

मकारो हृदयं रक्षित् हिकारो जठरं तथा ||

धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् || १३ ||

गुह्यं रक्षतु योकारः ऊरु में नः पदाक्षरम् ||

प्रकारो जानुनी रक्षत् चोकारो जङ्घदेशयोः || १४ ||

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ||

जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा || १५ ||

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ||

इदं तु कवचं दिव्यं वाधाशतविनाशकम् || १६ ||

चतुः षष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ||

जपारम्भे तु हृदयं जपान्ते कवचं पठेत् || १७ ||

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ||

मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति || १८ ||

शतमावर्तयेद् यस्तु मुच्यते व्याधिबन्धनात् ||

आवर्त्तनसहस्त्रेण लभते वाञ्चितं फलम् || १९ ||

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत् सकृत् ||

शतसाहस्त्रवर्षाणां पूजायाः फलमाप्नुयात् || २० ||

भूर्जपत्रे लिखित्वैतत् वर्णस्थं धारयेद् यदि ||

शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद् बुधः || २१ ||

त्रैलोक्यं क्षोभयेत् सर्वं त्रैलोक्यं दहति क्षणात् ||

पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् || २२ ||

ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शमात्रतः ||

भवन्ति तस्य तुल्यानि किमन्यत् कथयामि ते || २३ ||

न देयं परशिष्येभ्यो दाम्भिकेभ्यो विशेषतः ||

शिष्येभ्यो भक्तियुक्तेभ्योऽन्यथा मृत्युमवाप्नुयात् || २४ ||

|| इति श्रीअगस्त्यसंहितायां ब्रह्मनारायणसंवेदा प्रकृतिखण्डे गायत्रीकवचं सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *