गुह्यकाली सहस्रनाम स्तोत्रम् || Guhyakali Sahastranam Stotram

0

महाकालसंहिता में विश्वमङ्गलकवचान्त पूजापद्धतिप्रभूतिकथन नाम के दशम पटलान्तर्गत देवी के पूछे जाने पर स्वयं महाकाल द्वारा गुह्यकाली के सहस्रनामस्तोत्रम् को बताया गया है जो की श्लोकानुसार नीचे वर्णित है-

|| गुह्यकाली सहस्रनामस्तोत्रम् ||

अथ गुह्यकाल्याः सहस्रनामस्तोत्रम्

महाकालसंहितायां

(पूर्वपीठिका)

देव्युवाच –

यदुक्तं भवता पूर्वं प्राणेश करुणावशात् ॥ १॥ (१८५५)

नाम्नां सहस्रं देव्यास्तु तदिदानीं वदप्रभो ।

श्री महाकाल उवाच –

अतिप्रीतोऽस्मि देवेशि तवाहं वचसामुना ॥ २॥

सहस्रनामस्तोत्रं यत् सर्वेषामुत्तमोत्तमम् ।

सुगोपितं यद्यपि स्यात् कथयिष्ये तथापि ते ॥ ३॥

देव्याः सहस्रनामाख्यं स्तोत्रं पापौघमर्दनम् ।

मह्यं पुरा भुवः कल्पे त्रिपुरघ्नेन कीर्तितम् ॥ ४॥

आज्ञप्तश्च तथा देव्या प्रत्यक्षङ्गतया तया ।

त्वयैतत् प्रत्यहं पाठ्यं स्तोत्रं परमदुर्लभम् ॥ ५॥

महापातकविध्वंसि सर्वसिद्धिविधायकम् ।

महाभाग्यप्रदं दिव्यं सङ्ग्रामे जयकारकम् ॥ ६॥

विपक्षदर्पदलनं विपदम्भोधितारकम् ।

कृत्याभिचारशमनं महाविभवदायकम् ॥ ७॥

मनश्चिन्तितकार्यैकसाधकं वाग्मिताकरम् ।

आयुरारोग्यजनकं बलपुष्टिप्रदं परम् ॥ ८॥

नृपतस्करभीतिघ्नं विवादे जयवर्धनम् ।

परशत्रुक्षयकरं कैवल्यामृतहैतुकम् ॥ ९॥

सिद्धिरत्नाकरं श्रेष्ठं सद्यः प्रत्ययकारकम् ।

नातः परतरं देव्याः अस्त्यन्यत् तुष्टिदं परमं ॥ १०॥

नाम्नां सहस्रं गुह्यायाः कथयिष्यामि ते प्रिये ।

यत्पूर्वं सर्वदेवानां मन्त्ररूपतया स्थितम् ॥ ११॥

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।

प्राणवत् कण्ठदेशस्थं यत्स्वप्नेऽप्यपरिच्युतम् ॥ १२॥

देवर्षीणां मुनीनां च वेदवद्रसनागतम् ।

सार्वभौममहीपालैः प्रत्यहं यच्च पठ्यते ॥ १३॥

मया च त्रिपुरघ्नेन जप्यते यद्दिने दिने ।

यस्मात् परं नो भविता स्तोत्रं त्रिजगतीतले ॥ १४॥

वेदवन्मन्त्रवद् यच्च शिववक्त्रविनिर्गतम् ।

यन्नान्यतन्त्रागमेषु यामले डामरे न च ॥ १५॥

न चान्यसंहिताग्रन्थे नैव ब्रह्माण्डगोलके ।

संसारसागरं तर्तुमेतत् पोतवदिष्यते ॥ १६॥

नानाविधमहासिद्धिकोषरूपं महोदयम् ।

या देवी सर्वदेवानां या माता जगदोकसाम् ॥ १७॥

या सृर्ष्टिकर्त्रीं देवानां विश्वावित्री च या स्मृता ।

या च त्रिलोक्याः संहर्त्री या दात्री सर्वसम्पदाम् ॥ १८॥

ब्रह्माण्डं या च विष्टभ्य तिष्ठत्यमरपूजिता ।

पुराणोपनिषद्वेद्या या चैका जगदम्बिका ॥ १९॥

यस्याः परं नान्यदस्ति किमपीह जगत्त्रये ।

सा गुह्यास्य प्रसादेन वशीभूतेव तिष्ठति ॥ २०॥

अत एव महत्स्तोत्रमेतज्जगति दुर्लभम् ।

पठनीयं प्रयत्नेन परं पदमभीप्सुभिः ॥ २१॥

किमन्यैः स्तोत्रविस्तारैर्नायं चेत् पठितोऽभवत् ।

किमन्यैः स्तोत्रविस्तारैरयं चेत् पठितो भवेत् ॥ २२॥

दुर्वाससे नारदाय कपिलायात्रये तथा ।

दक्षाय च वसिष्ठाय संवर्ताय च विष्णवे ॥ २३॥

अन्येभ्योऽपि देवेभ्योऽवदं स्तोत्रमिदं पुरा ।

इदानीं कथयिष्यामि तव त्रिदशवन्दिते ॥ २४॥

इदं श्रृणुष्व यत्नेन श्रुत्वा चैवावधारय ।

धृत्वाऽन्येभ्योऽपि देहि त्वं यान् वै कृपयसे सदा ॥ २५॥

|| गुह्यकाली सहस्रनामस्तोत्रम् विनियोग ||

अथ विनियोगः

ॐ अस्य श्रीगुह्यकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः ।

अनुष्टुप् छन्दः । एकवक्त्रादिशतवक्त्रान्ता श्रीगुह्यकालीदेवता ।

फ्रूं बीजं । ख्रैं ख्रैं शक्तिः । छ्रीं ख्रीं कीलकं ।

पुरुषार्थचतुष्टयसाधनपूर्वकश्रीचण्डयोगेश्वरीप्रीत्यर्थे

जपे विनियोगः । ॐ तत्सत् ।

|| अथ श्रीगुह्यकालीसहस्रनामस्तोत्रम् ||

ॐ फ्रें कराली चामुण्डा चण्डयोगेश्वरी शिवा ।

दुर्गा कात्यायनी सिद्धिविकराली मनोजवा ॥ १॥ (१८८०)

उल्कामुखी फेरुरावा भीषणा भैरवासना ।

कपालिनी कालरात्रिर्गौरी कङ्कालधारिणी ॥ २॥

श्मशानवासिनी प्रेतासना रक्तोदधिप्रिया ।

योगमाता महारात्रिः पञ्चकालानलस्थिता ॥ ३॥

रुद्राणी रौद्ररूपा च रुधिरद्वीपचारिणी ।

मुण्डमालाधरा चण्डी बलवर्वरकुन्तला ॥ ४॥

मेधा महाडाकिनी च योगिनी योगिवन्दिता ।

कौलिनी कुरुकुल्ला च घोरा पिङ्गजटा जया ॥ ५॥

सावित्री वेदजननी गायत्री गगनालया ।

नवपञ्चमहाचक्रनिलया दारुणस्वना ॥ ६॥

उग्रा कपर्दिगृहिणी जगदाद्या जनाश्रया ।

कालकर्णी कुण्डलिनी भूतप्रेतगणाधिपा ॥ ७॥

जालन्धरी मसीदेहा पूर्णानन्दपतङ्गिनी ।

पालिनी पावकाभासा प्रसन्ना परमेश्वरी ॥ ८॥

रतिप्रिया रोगहरी नागहारा नगात्मजा ।

अव्यया वीतरागा च भवानी भूतधारिणी ॥ ९॥

कादम्बिनी नीलदेहा काली कादम्बरीप्रिया ।

माननीया महादेवी महामण्डलवर्तिनी ॥ १०॥

महामांसाशनीशानी चिद्रूपा वागगोचरा ।

यज्ञाम्बुजामनादेवी दर्वीकरविभूषिता ॥ ११॥

चण्डमुण्डप्रमथनी खेचरी खेचरोदिता ।

तमालश्यामला तीव्रा तापिनी तापनाशिनी ॥ १२॥

महामाया महादंष्ट्रा महोरगविराजिता ।

लम्बोदरी लोलजटा लक्ष्म्यालक्ष्मीप्रदायिनी ॥ १३॥

धात्री धाराधराकारा धोरणी धावनप्रिया ।

हरजाया हराराध्या हरिवक्त्रा हरीश्वरी ॥ १४॥

विश्वेश्वरी वज्रनखी स्वरारोहा बलप्रदा ।

घोणकी घर्घरारावा घोराघौघप्रणाशिनी ॥ १५॥

कल्पान्तकारिणी भीमा ज्वालामालिन्यवामया ।

सृष्टिः स्थितिः क्षोभणा च कराला चापराजिता ॥ १६॥

वज्रहस्तानन्तशक्तिर्विरूपा च परापरा ।

ब्रह्माण्डमर्दिनी प्रध्वंसिनी लक्षभुजा सती ॥ १७॥

विद्युज्जिह्वा महादंष्ट्रा छायाध्वरसुताद्यहृत् ।

महाकालाग्निमूर्तिश्च मेघनादा कटङ्कटा ॥ १८॥

प्रदीप्ता विश्वरूपा च जीवदात्री जनेश्वरी ।

साक्षिणी शर्वरी शान्ता शममार्गप्रकाशिका ॥ १९॥

क्षेत्रज्ञा क्षेपणी क्षम्याऽक्षता क्षामोदरी क्षितिः ।

अप्रमेया कुलाचारकर्त्री कौलिकपालिनी ॥ २०॥

माननीया मनोगम्या मेनानन्दप्रदायिनी ।

सिद्धान्तखनिरध्यक्षा मुण्डिनी मण्डलप्रिया ॥ २१॥

बाला च युवती वृद्धा वयोतीता बलप्रदा ।

रत्नमालाधरा दान्ता दर्वीकरविराजिता ॥ २२॥

धर्ममूर्तिर्ध्वान्तरुचिर्धरित्री धावनप्रिया ।

सङ्कल्पिनी कल्पकरी कलातीता कलस्वना ॥ २३॥

वसुन्धरा बोधदात्री वर्णिनी वानरानरा ।

विद्या विद्यात्मिका वन्या बन्धनी बन्धनाशिनी ॥ २४॥

गेया जटाजटरम्या जरती जाह्नवी जडा ।

तारिणी तीर्थरूपा च तपनीया तनूदरी ॥ २५॥

तापत्रयहरा तापी तपस्या तापसप्रिया ।

भोगिभूष्या भोगवती भगिनी भगमालिनी ॥ २६॥

भक्तिलभ्या भावगम्या भूतिदा भववल्लभा ।

स्वाहारूपा स्वधारूपा वषट्कारस्वरूपिणी ॥ २७॥

हन्ता कृतिर्नमोरूपा यज्ञादिर्यज्ञसम्भवा ।

स्फ्यसूर्पचमसाकारा स्रक्स्रु वाकृतिधारिणी ॥ २८॥

उद्गीथहिंकारदेहा नमः स्वस्तिप्रकाशिनी ।

ऋग्यजुः सामरूपा च मन्त्रब्राह्मणरूपिणी ॥ २९॥

सर्वशाखामयी खर्वा पीवर्युपनिषद्बुधा ।

रौद्री मृत्युञ्जयाचिन्तामणिर्वैहायसी धृतिः ॥ ३०॥

तार्तीया हंसिनी चान्द्री तारा त्रैविक्रमी स्थितिः ।

योगिनी डाकिनी धारा वैद्युती विनयप्रदा ॥ ३१॥

उपांशुर्मानसी वाच्या रोचना रुचिदायिनी ।

सत्वाकृतिस्तमोरूपा राजसी गुणवर्जिता ॥ ३२॥

आदिसर्गादिकालीनभानवी नाभसी तथा ।

मूलाधारा कुण्डलिनी स्वाधिप्ठानपरायणा ॥ ३३॥

मणिपूरकवासा च विशुद्धानाहता तथा ।

आज्ञा प्रज्ञा महासंज्ञा वर्वरा व्योमचारिणी ॥ ३४॥

बृहद्रथन्तराकारा ज्येष्ठा चाथर्वणी तथा ।

प्राजापत्या महाब्राह्मी हूंहूङ्कारा पतङ्गिनी ॥ ३५॥

राक्षसी दानवी भूतिः पिशाची प्रत्यनीकरा ।

उदात्ताप्यनुदात्ता च स्वरिता निःस्वराप्यजा ॥ ३६॥

निष्कला पुष्कला साध्वी सा नुता खण्डरूपिणी ।

गूढा पुराणा चरमा प्राग्भवी वामनी ध्रुवा ॥ ३७॥

काकीमुखी साकला च स्थावरा जङ्गमेश्वरी ।

ईडा च पिङ्गला चैव सुषुम्णा ध्यानगोचरा ॥ ३८॥

सर्गा विसर्गा धमनी कम्पिनी बन्धनी हिता ।

सङ्कोचिनी भासुरा च निम्ना दृप्ता प्रकाशिनी ॥ ३९॥

प्रबुद्धा क्षेपणी क्षिप्ता पूर्णालस्या विलम्बिता ।

आवेशिनी घर्घरा च रूक्षा क्लिन्ना सरस्वती ॥ ४०॥

स्निग्धा चण्डा कुहूः पूषा वारणा च यशस्विनी ।

गान्धारी शङ्खिनी चैव हस्तिजिह्वा पयस्विनी ॥ ४१॥

विश्वोदरालम्बुषा च बिभ्रा तेजस्विनी सती ।

अव्यक्ता गालनी मन्दा मुदिता चेतनापि च ॥ ४२॥

द्रावणी चपला लम्बा भ्रामरी मधुमत्यपि ।

धर्मा रसवहा चण्डी सौवीरी कपिला तथा ॥ ४३॥

रण्डोत्तरा कर्षिणी च रेवती सुमुखी नटी ।

रजन्याप्यायनी विश्वदूता चन्द्रा कपर्दिनी ॥ ४४॥

नन्दा चन्द्रावती मैत्री विशालापि च माण्डवी ।

विचित्रा लोहिनीकल्पा सुकल्पा पूतनापि च ॥ ४५॥

धोरणी धारणी हेला धीरा वेगवती जटा ।

अग्निज्वाला च सुरभी विवर्णा कृन्तनी तथा ॥ ४६॥

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।

तपस्विनी स्वप्नवहा संमोहा कोटरा चला ॥ ४७॥

विकल्पा लम्बिका मूला तन्द्रावत्यपि घण्टिका ।

अविग्रहा च कैवल्या तुरीया चापुनर्भवा ॥ ४८॥

विभ्रान्तिश्च प्रशान्ता च योगिनिः श्रेण्यलक्षिता ।

निर्वाणा स्वस्तिका वृद्धिर्निवृत्तिश्च महोदया ॥ ४९॥

बोध्याऽविद्या च तामिस्रा वासना योगमेदिनी ।

निरञ्जना च प्रकृतिः सत्तारव्या पारमार्थिकी ॥ ५०॥

प्रतिबिम्बनिराभासा सदसद्रूपधारिणी ।

उपशान्ता च चैतन्या कूटा विज्ञानमय्यपि ॥ ५१॥

शक्तिविद्या वासिता च मोदिनी मुदितानना ।

अनया प्रवहा व्याडी सर्वज्ञा शरणप्रदा ॥ ५२॥

वारुणी मार्जनीभाषा प्रतिमा बृहती खला ।

प्रतीच्छा प्रमितिः प्रीतिः कुहिका तर्पणप्रिया ॥ ५३॥

स्वस्तिका सर्वतोभद्रा गायत्री प्रणवात्मिका ।

सावित्री वेदजननी निगमाचारबोधिनी ॥ ५४॥

विकराला कराला च ज्वालाजालैकमालिनी ।

भीमा च क्षोभणानन्ता वीरा वज्रायुधा तथा ॥ ५५॥

प्रध्वंसिनी च मालङ्का विश्वमर्दिन्यवीक्षिता ।

मृत्युः सहस्रबाहुश्च घोरदंष्ट्रा वलाहकी ॥ ५६॥

पिङ्गा पिङ्गशता दीप्ता प्रचण्डा सर्वतोमुखी ।

विदारिणी विश्वरूपा विक्रान्ता भूतभावनी ॥ ५७॥

विद्राविणी मोक्षदात्री कालचक्रेश्वरी नटी ।

तप्तहाटकवर्णा च कृतान्ता भ्रान्तिभञ्जिनी ॥ ५८॥

सर्वतेजोमयी भव्या दितिशोककरी कृतिः ।

महाक्रुद्धा श्मशानस्था कपालस्रगलङ्कृता ॥ ५९॥

कालातिकाला कालान्तकरीतिः करुणानिधिः ।

महाघोरा घोरतरा संहारकरिणी तथा ॥ ६०॥

अनादिश्च महोन्मत्ता भूतधात्र्यसितेक्षणा ।

भीष्माकारा च वक्राङ्गी बहुपादैकपादिका ॥ ६१॥

कुलाङ्गना कुलाराध्या कुलमार्गरतेश्वरी ।

दिगम्बरा मुक्तकेशी वज्रमुष्टिर्निरिन्धनी ॥ ६२॥

सम्मोहिनी क्षोभकरी स्तम्भिनी वश्यकारिणी ।

दुर्धर्षा दर्पदलनी त्रैलोक्यजननी जया ॥ ६३॥

उन्मादोच्चाटनकरी कृत्या कृत्याविघातिनी ।

विरूपा कालरात्रिश्च महारात्रिर्मनोन्मनी ॥ ६४॥

महावीर्या गूढनिद्रा चण्डदोर्दण्डमण्डिता ।

निर्मला शूलिनी तन्त्रा वज्रिणी चापधारिणी ॥ ६५॥

स्थूलोदरी च कुमुदा कामुका लिङ्गधारिणी ।

धटोदरी फेरवी च प्रवीणा कालसुन्दरी ॥ ६६॥

तारावती डमरुका भानुमण्डलमालिनी ।

एकानङ्गा पिङ्गलाक्षी प्रचण्डाक्षी शुभङ्करी ॥ ६७॥

विद्युत्केशी महामारी सूची तूण्डी च जृम्भका ।

प्रस्वापिनी महातीव्रा वरणीया वरप्रदा ॥ ६८॥

चण्डचण्डा ज्वलद्देहा लम्बोदर्यग्निमर्दिनी ।

महादन्तोल्कादृगम्बा ज्वालाजालजलन्धरी ॥ ६९॥

माया कृशा प्रभा रामा महाविभवदायिनी ।

पौरन्दरी विष्णुमाया कीर्तिः पुष्टिस्तनूदरी ॥ ७०॥

योगज्ञा योगदात्री च योगिनी योगिवल्लभा ।

सहस्रशीर्षपादा च सहस्रनयनोज्वला ॥ ७१॥

पानकर्त्री पावकाभा परामृतपरायणा ।

जगद्गतिर्जगज्जेत्री जन्मकालविमोचिनी ॥ ७२॥

मूलावतंसिनी मूला मौनव्रतपराङ्मुखी ।

ललिता लोलुपा लोला लक्षणीया ललामधृक् ॥ ७३॥

मातङ्गिनी भवानी च सर्वलोकेश्वरेश्वरी ।

पार्वती शम्भुदयिता महिषासुरमर्दिनी ॥ ७४॥

चण्डमुण्डापहर्त्री च रक्तबीजनिकृन्तनी ।

निशुम्भशुम्भमथनी देवराजवरप्रदा ॥ ७५॥

कल्याणकारिणी काली कोलमांसास्रपायिनी ।

खड्गहस्ता चर्मिणी च पाशिनी शक्तिधारिणी ॥ ७६॥

खट्वाङ्गिनी मुण्डधरा भुशुण्डी धनुरन्विता ।

चक्रघण्टान्विता बालप्रेतशैलप्रधारिणी ॥ ७७॥

नरकङ्कालनकुलसर्पहस्ता समुद्गरा ।

मुरलीधारिणी बलिकुण्डिनी डमरुप्रिया ॥ ७८॥

भिन्दिपालास्त्रिणी पूज्या साध्या परिघिणी तथा ।

पट्टिशप्रासिनी रम्या शतशो मुसलिन्यपि ॥ ७९॥

शिवापोतधरादण्डाङ्कुशहस्ता त्रिशूलिनी ।

रत्नकुम्भधरा दान्ता छुरिकाकुन्तदोर्युता ॥ ८०॥

कमण्डलुकरा क्षामा गृध्राढ्या पुष्पमालिनी ।

मांसखण्डकरा बीजपूरवत्यक्षरा क्षरा ॥ ८१॥

गदापरशुयष्ट्यङ्का मुष्टिनानलधारिणी ।

प्रभूता च पवित्रा च श्रेष्ठा पुण्यविवर्धनो ॥ ८२॥

प्रसन्नानन्दितमुखी विशिष्टा शिष्टपालिनी ।

कामरूपा कामगवी कमनीय कलावती ॥ ८३॥

गङ्गा कलिङ्गतनया सिप्रा गोदावरी मही ।

रेवा सरस्वती चन्द्रभागा कृष्णा दृषद्वती ॥ ८४॥

वाराणसी गयावन्ती काञ्ची मलयवासिनी ।

सर्वदेवीस्वरूपा च नानारूपधरामला ॥ ८५॥

लक्ष्मीर्गौरी महालक्ष्मी रत्नपूर्णा कृपामयी ।

दुर्गा च विजया घोरा पद्मावत्यमरेश्वरी ॥ ८६॥

वगला राजमातङ्गी चण्डी महिषमर्दिनी ।

त्रिपुटोच्छिष्टचाण्डाली भारुण्डा भुवनेश्वरी ॥ ८७॥

राजराजेश्वरी नित्यक्लिन्ना च जयभैरवी ।

चण्डयोगेश्वरी राज्यलक्ष्मी रुद्राण्यरुन्धती ॥ ८८॥

अश्वारूढा महागुह्या यन्त्रप्रमथनी तथा ।

धनलक्ष्मीर्विश्वलक्ष्मीर्वश्यकारिण्यकल्मषा ॥ ८९॥

त्वरिता च महाचण्डभैरवी परमेश्वरी ।

त्रैलोक्यविजया ज्वालामुखी दिक्करवासिनी ॥ ९०॥

महामन्त्रेश्वरी वज्रप्रस्तारिण्यजनावती ।

चण्डकापालेश्वरी च स्वर्णकोटेश्वरी तथा ॥ ९१॥

उग्रचण्डा श्मशानोग्रचण्डा वार्ताल्यजेश्वरी ।

चण्डोग्रा च प्रचण्डा च चण्डिका चण्डनायिका ॥ ९२॥

वाग्वादिनी मधुमती वारुणी तुम्बुरेश्वरी ।

वागीश्वरी च पूर्णेशी सौम्योग्रा कालभैरवी ॥ ९३॥

दिगम्बरा च धनदा कालरात्रिश्च कुब्जिका ।

किराटी शिवदूती च कालसङ्कर्षणी तथा ॥ ९४॥

कुक्कुटी सङ्कटा देवी चपलभ्रमराम्बिका ।

महार्णवेश्वरी नित्या जयझङ्केश्वरी तथा ॥ ९५॥

शवरी पिङ्गला बुद्धिप्रदा संसारतारिणी ।

विज्ञा महामोहिनी च बाला त्रिपुरसुन्दरी ॥ ९६॥

उग्रतारा चैकजटा तथा नीलसरस्वती ।

त्रिकण्टकी छिन्नमस्ता बोधिसत्वा रणेश्वरी ॥ ९७॥

ब्रह्माणी वैष्णवी माहेश्वरी कौमार्यलम्बुषा ।

वाराही नारसिंही च चामुण्डेन्द्राण्योनिजा ॥ ९८॥

चण्डेश्वरी चण्डघण्टा नाकुली मृत्युहारिणी ।

हंसेश्वरी मोक्षदा च शातकर्णी जलन्धरी ॥ ९९॥

(इन्द्राणी वज्रवाराही फेत्कारी तुम्बुरेश्वरी ।

हयग्रीवा हस्तितुण्डा नाकुली मृत्युहारिणी ॥)

स्वरकर्णी ऋक्षकर्णी सूर्पकर्णा बलाबला ।

महानीलेश्वरी जातवेतसी कोकतुण्डिका ॥ १००॥

गुह्येश्वरी वज्रचण्डी महाविद्या च बाभ्रवी ।

शाकम्भरी दानवेशी डामरी चर्चिका तथा ॥ १०१॥

एकवीरा जयन्ती च एकानंशा पताकिनी ।

नीललोहितरूपा च ब्रह्मवादिन्ययन्त्रिता ॥ १०२॥

त्रिकालवेदिनी नीलकोरङ्गी रक्तदन्तिका ।

भूतभैरव्यनालम्बा कामाख्या कुलकुट्टनी ॥ १०३॥

क्षेमङ्करी विश्वरूपा मायूर्यावेशिनी तथा ।

कामाङ्कुशा कालचण्डी भीमादेव्यर्धमस्तका ॥ १०४॥

धूमावती योगनिद्रा ब्रह्मविष्णुनिकृन्तनी ।

चण्डोग्रकापालिनी च बोधिका हाटकेश्वरी ॥ १०५॥

महामङ्गलचण्डी च तोवरा चण्डखेचरी ।

विशाला शक्तिसौपर्णी फेरुचण्डी मदोद्धता ॥ १०६॥

कापालिका चञ्चरीका महाकामध्रुवापि च ।

विक्षेपणी भूततुण्डी मानस्तोका सुदामिनी ॥ १०७॥

निर्मूलिनी राङ्कविणी सद्योजाता मदोत्कटा ।

वामदेवी महाघोरा महातत्पुरुषी तथा ॥ १०८॥

ईशानी शाङ्करी भर्गो महादेवी कपर्दिनी ।

त्र्यम्बकी व्योमकेशी च मारी पाशुपती तथा ॥ १०९॥

जयकाली धूमकाली ज्वालाकाल्युग्रकालिका ।

धनकाली घोरनादकाली कल्पान्तकालिका ॥ ११०॥

वेतालकाली कङ्कालकाली श्रीनग्नकालिका ।

रौद्रकाली घोरघोरतरकाली तथैव च ॥ १११॥

ततो दुर्जयकाली च महामन्थानकालिका ।

आज्ञाकाली च संहारकाली सङ्ग्रामकालिका ॥ ११२॥

कृतान्तकाली तदनु तिग्मकाली ततः परम् ।

ततो महारात्रिकाली महारुधिरकालिका ॥ ११३॥

शवकाली भीमकाली चण्डकाली तथैव च ।

सन्त्रासकाली च ततः श्रीभयङ्करकालिका ॥ ११४॥

विकरालकाली श्रीघोरकाली विकटकालिका ।

करालकाली तदनु भोगकाली ततः परम् ॥ ११५॥

विभूतिकाली श्रीकालकाली दक्षिणकालिका ।

विद्याकाली वज्रकाली महाकाली भवेत्ततः ॥ ११६॥

ततः कामकलाकाली भद्रकाली तथैव च ।

श्मशानकालिकोन्मत्तकालिका मुण्डकालिका ॥ ११७॥

कुलकाली नादकाली सिद्धिकाली ततः परम् ।

उदारकाली सन्तापकाली चञ्चलकालिका ॥ ११८॥

डामरी कालिका भावकाली कुणपकालिका ।

कपालकाली च दिगम्बरकाली तथैव च ॥ ११९॥

उद्दामकाली प्रपञ्चकाली विजयकालिका ।

क्रतुकाली योगकाली तपःकाली तथैव च ॥ १२०॥

आनन्दकाली च ततः प्रभाकाली ततः परम् ।

सूर्यकाली चन्द्रकाली कौमुदीकालिका ततः ॥ १२१॥

स्फुलिङ्गकाल्यग्निकाली वीरकाली तथैव च ।

रणकाली हूंहूङ्कारनादकाली ततः परम् ॥ १२२॥

जयकाली विघ्नकाली महामार्तण्डकालिका ।

चिताकाली भस्मकाली ज्वलदङ्गारकालिका ॥ १२३॥

पिशाचकाली तदनु ततो लोहितकालिका ।

खर (खग) काली नागकाली ततो राक्षसकालिका ॥ १२४॥

महागगनकाली च विश्वकाली भवेदनु ।

मायाकाली मोहकाली ततो जङ्गमकालिका ॥ १२५॥

पुन स्थावरकाली च ततो ब्रह्माण्डकालिका ।

सृष्टिकाली स्थितिकाली पुनः संहारकालिका ॥ १२६॥

अनाख्याकालिका चापि भासाकाली ततोऽप्यनु ।

व्योमकाली पीठकाली शक्तिकाली तथैव च ॥ १२७॥

ऊर्ध्वकाली अधःकाली तथा चोत्तरकालिका ।

तथा समयकाली च कौलिकक्रमकालिका ॥ १२८॥

ज्ञानविज्ञानकाली च चित्सत्ताकालिकापि च ।

अद्वैतकाली परमानन्दकाली तथैव च ॥ १२९॥

वासनाकालिका योगभूमिकाली ततः परम् ।

उपाधिकाली च महोदयकाली ततोऽप्यनु ॥ १३०॥

निवृत्तिकाली चैतन्यकाली वैराग्यकालिका ।

समाधिकाली प्रकृतिकाली प्रत्ययकालिका ॥ १३१॥

सत्ताकाली च परमार्थकाली नित्यकालिका ।

जीवात्मकाली परमात्मकाली बन्धकालिका ॥ १३२॥

आभासकालिका सूक्ष्मकालिका शेषकालिका ।

लयकाली साक्षिकाली ततश्च स्मृतिकालिका ॥ १३३॥

पृथिवीकालिका वापि एककाली ततः परम् ।

कैवल्यकाली सायुज्यकाली च ब्रह्मकालिका ॥ १३४॥

ततश्च पुनरावृत्तिकाली याऽमृतकालिका ।

मोक्षकाली च विज्ञानमयकाली ततः परम् ॥ १३५॥

प्रतिबिम्बकालिका चापि एक(पिण्ड)काली ततः परम् ।

एकात्म्यकालिकानन्दमयकाली तथैव च ॥ १३६॥

सर्वशेषे परिज्ञेया निर्वाणमयकालिका ।

इति नाम्नां सहस्रं ते प्रोक्तमेकाधिकं प्रिये ॥ १३७॥

पठतः स्तोत्रमेतद्धि सर्वं करतले स्थितम् ।

गुह्यकाली सहस्रनामस्तोत्रम् फलश्रुति

॥ सहस्रनाम्नः स्तोत्रस्य फलश्रुतिः ॥

नैतेन सदृशं स्तोत्रं भूतं वापि भविष्यति ॥ १॥ (२०१७)

यः पठेत् प्रत्यहमदस्तस्य पुण्यफलं श्रृणु ।

पापानि विलयं यान्ति मन्दराद्रिनिभान्यपि ॥ २॥

उपद्रवाः विनश्यन्ति रोगाग्निनृपचौरजाः ।

आपदश्च विलीयन्ते ग्रहपीडाः स्पृशन्ति न ॥ ३॥

दारिद्र्यं नाभिभवति शोको नैव प्रबाधते ।

नाशं गच्छन्ति रिपवः क्षीयन्ते विघ्नकोटयः ॥ ४॥

उपसर्गाः पलायन्ते बाधन्ते न विषाण्यपि ।

नाकालमृत्युर्भवति न जाड्यं नैव मूकता ॥ ५॥

इन्द्रियाणां न दौर्बल्यं विषादो नैव जायते ।

अथादौ नास्य हानिः स्यात् न कुत्रापि पराभवः ॥ ६॥

यान् यान् मनोरथानिच्छेत् तांस्तान् साधयति द्रुतम् ।

सहस्रनामपूजान्ते यः पठेद् भक्तिभावितः ॥ ७॥

पात्रं स सर्वसिद्धीनां भवेत्संवत्सरादनु ।

विद्यावान् बलवान् वाग्मी रूपवान् रूपवल्लभः ॥ ८॥

अधृष्यः सर्वसत्वानां सर्वदा जयवान् रणे ।

कामिनीनां प्रियो नित्यं मित्राणां प्राणसन्निभः ॥ ९॥

रिपूणामशनिः साक्षाद्दाता भोक्ता प्रियंवदः ।

आकरः स हि भाग्यानां रत्नानामिव सागरः ॥ १०॥

मन्त्ररूपमिदं ज्ञेयं स्तोत्रं त्रैलोक्यदुर्लभम् ।

एतस्य बहवः सन्ति प्रयोगाः सिद्धिदायिनः ॥ ११॥

तान् विधाय सुरेशानि ततः सिद्धीः परीक्षयेत् ।

ताररावौ पुरा दत्त्वा नाम चैकैकमन्तरा ॥ १२॥

तच्च ङेऽन्तं विनिर्दिश्य शेषे हार्दमनुं न्यसेत् ।

उपरागे भास्करस्येन्दोर्वाप्यथान्यपर्वणि ॥ १३॥

मालतीकुसुमैर्बिल्वपत्रैर्वा पायसेन वा ।

मधूक्षितद्राक्षया वा पक्वमोचाफलेन वा ॥ १४॥

प्रत्येकं जुहुयात् नाम पूर्वप्रोक्तक्रमेण हि ।

एवं त्रिवारं निष्पाद्य ततः स्तोत्रं परीक्षयेत् ॥ १५॥

यावत्यः सिद्धयः सन्ति कथिता यामलादिषु ।

भवन्त्येते न तावन्त्यो दृढविश्वासशालिनाम् ॥ १६॥

(एतत्स्तोत्रस्य प्रयोगविधिवर्णनम्)

परचक्रे समायाते मुक्तकेशो दिगम्बरः ।

रात्रौ तदाशाभिमुखः पञ्चविंशतिधा पठेत् ॥ १७॥

परचक्रं सदा घोरं स्वयमेव पलायते ।

महारोगोपशमने त्रिंशद्वारमुदीरयेत् ॥ १८॥

विवादे राजजनितोपद्रवे दशधा जपेत् ।

महादुर्भिक्षपीडासु महामारीभयेषु च ॥ १९॥

षष्टिवारं स्तोत्रमिदं पठन्नाशयति द्रुतम् ।

भूतप्रेतपिशाचादि कृताभिभवकर्मणि ॥ २०॥

प्रजपेत् पञ्च दशधा क्षिप्रं तदभिधीयते ।

तथा निगडबद्धानां मोचने पञ्चधा जपेत् ॥ २१॥

बध्यानां प्राणरक्षार्थं शतवारमुदीरयेत् ।

दुःस्वप्नदर्शने वारत्रयं स्तोत्रमिदं पठेत् ॥ २२॥

एवं विज्ञाय देवेशि महिमानममुष्य हि ।

यस्मिन् कस्मिन्नपि प्राप्ते सङ्कटे योजयेदिदम् ॥ २३॥

शमयित्वा तु तत्सर्वं शुभमुत्पादयत्यपि ।

रणे विवादे कलहे भूतावेशे महाभये ॥ २४॥

उत्पातराजपीडायां बन्धुविच्छेद एव वा ।

सर्पाग्निदस्युनृपतिशत्रुरोगभये तथा ॥ २५॥

जप्यमेतन्महास्तोत्रं समस्तं नाशमिच्छता ।

ध्यात्वा देवीं गुह्यकालीं नग्नां शक्तिं विधाय च ॥ २६॥

तद्योनौ यन्त्रमालिख्य त्रिकोणं बिन्दुमत् प्रिये ।

पूर्वोदितक्रमेणैव मन्त्रमुच्चार्य साधकः ॥ २७॥

गन्धपुष्पाक्षतैर्नित्यं प्रत्येकं परिपूजयेत् ।

बलिं च प्रत्यहं दद्यात् चतुर्विंशतिवासरान् ॥ २८॥

स्तोत्राणामुत्तमं स्तोत्रं सिद्ध्यन्त्येतावताप्यदः ।

स्तम्भने मोहने चैव वशीकरण एव च ॥ २९॥

उच्चाटने मारणे च तथा द्वेषाभिचारयोः ।

गुटिकाधातुवादादियक्षिणीपादुकादिषु ॥ ३०॥

कृपाणाञ्जनवेतालान्यदेहादिप्रवेशने ।

प्रयुञ्ज्यादिदमीशानि ततः सर्वं प्रसिद्ध्यति ॥ ३१॥

सर्वे मनोरथास्तस्य वशीभूता करे स्थिताः ।

आरोग्यं विजयं सौख्यं विभूतिमतुलामपि ॥ ३२॥

त्रिविधोत्पातशान्तिञ्च शत्रुनाशं पदे पदे ।

ददाति पठितं स्तोत्रमिदं सत्यं सुरेश्वरि ॥ ३३॥

स्तोत्राण्यन्यानि भूयांसि गुह्यायाः सन्ति पार्वति ।

तानि नैतस्य तुल्यानि ज्ञातव्यानि सुनिश्चितम् ॥ ३४॥

इदमेव तस्य तुल्यं सत्यं सत्यं मयोदितम् ।

नाम्नां सहस्रं यद्येतत् पठितु नालमन्वहम् ॥ ३५॥

(सहस्रनाम्नः पाठाशक्तौ वक्ष्यमाणपाठस्य निदेशः )

तदैतानि पठेन्नित्यं नामानि स्तोत्रपाठकः ।

चण्डयोगेश्वरी चण्डी चण्डकापालिनी शिवा ॥ ३६॥

चामुण्डा चण्डिका सिद्धिकराली मुण्डमालिनी ।

कालचक्रेश्वरी फेरुहस्ता घोराट्टहासिनी ॥ ३७॥

डामरी चर्चिका सिद्धिविकराली भगप्रिया ।

उल्कामुखी ऋक्षकर्णी बलप्रमथिनी परा ॥ ३८॥

महामाया योगनिद्रा त्रैलोक्यजननीश्वरी ।

कात्यायनी घोररूपा जयन्ती सर्वमङ्गला ॥ ३९॥

कामातुरा मदोन्मत्ता देवदेवीवरप्रदा ।

मातङ्गी कुब्जिका रौद्री रुद्राणी जगदम्बिका ॥ ४०॥

चिदानन्दमयी मेधा ब्रह्मरूपा जगन्मयी ।

संहारिणी वेदमाता सिद्धिदात्री बलाहका ॥ ४१॥

वारुणी जगतामाद्या कलातीता चिदात्मिका ।

नाभान्येतानि पठता सर्वं तत् परिपठ्यते ॥ ४२॥

इत्येतत् कथितं नाम्नां सहस्रं तव पार्वति ।

उदीरितं फलं चास्य पठनाद् यत् प्रजायते ॥ ४३॥

निःशेषमवधार्य त्वं यथेच्छसि तथा कुरु ।

पठनीयं न च स्त्रीभिरेतत् स्तोत्रं कदाचन ॥ ४४॥ (२०६०)

॥ इति महाकालसंहितायां विश्वमङ्गलकवचान्तं पूजापद्धतिप्रभूतिकथनं नाम दशमः पटलान्तर्गतं गुह्यकालिसहस्रनामस्तोत्रम् सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *